Skip to main content
पडताळणी प्रलंबित

अयोध्याकाण्ड सप्ततितमः

॥ भरतप्रस्थानम् ॥

भरते ब्रुवति स्वप्नं दूतास्ते क्लान्तवाहनाः ।

प्रविश्यासह्य परिखं रम्यं राज गृहं पुरम् ॥ १ ॥

समागम्य तु राज्ञा च राजपुत्रेण चार्चिताः ।

राज्ञः पादौ गृहीत्वा तु तमूचुर्भरतं वचः ॥ २ ॥

पुरोहितस्त्वां कुशलं प्राह सर्वे च मन्त्रिणः ।

त्वरमाणश्च निर्याहि कृत्यमात्ययिकं त्वया ॥ ३ ॥

इमानि च महार्हाणि वस्त्राण्याभरणानि च ।

प्रतिगृह्य विशालाक्ष मातुलस्य च दापय ॥ ४ ॥

अत्र विंशतिकोट्यस्तु नृपतेर्मातुलस्य ते ।

दशकोट्यस्तु सम्पूर्णास्तथैव च नृपात्मज ॥ ५ ॥

प्रतिगृह्य च तत्सर्वं स्वनुरक्तः सुहृज्जने ।

दूतानुवाच भरतः कामैः सम्प्रतिपूज्य तान् ॥ ६ ॥

कच्चित् सुकुशली राजा पिता दशरथो मम ।

कच्चिच्चारोगता रामे लक्ष्मणे च महात्मनि ॥ ७ ॥

आर्या च धर्मनिरता धर्मज्ञा धर्मदर्शिनी ।

अरोगा चापि कौसल्या माता रामस्य धीमतः ॥ ८ ॥

कच्चित् सुमित्रा धर्मज्ञा जननी लक्ष्मणस्य या ।

शत्रुघ्नस्य च वीरस्य साऽरोगा चापि मध्यमा ॥ ९ ॥

आत्मकामा सदा चण्डी क्रोधना प्राज्ञ मानिनी ।

अरोगा चापि मे माता कैकेयी किमुवाच ह ॥ १० ॥

एवमुक्तास्तु ते दूताः भरतेन महात्मना ।

ऊचुः सम्प्रश्रयं वाक्यमिदं तं भरतं तदा ॥ ११ ॥

कुशलास्ते नरव्याघ्र येषां कुशलमिच्छसि ।

श्रीश्च त्वां वृणुते पद्मा युज्यतां चापि ते रथः ॥ १२ ॥

भरतश्चापि तान् दूतान् एवमुक्तोऽभ्यभाषत ।

आपृच्चेऽहं महाराजं दूताः सन्त्वरयन्ति माम् ॥ १३ ॥

एवमुक्त्वा तु तान् दूतान् भरतः पार्थिवात्मजः ।

दूतैः सञ्चोदितः वाक्यं मातामहमुवाच ह ॥ १४ ॥

राजन् पितुर्गमिष्यामि सकाशं दूतचोदितः ।

पुनरप्यहमेष्यामि यदा मे त्वं स्मरिष्यसि ॥ १५ ॥

भरतेनैवमुक्तस्तु नृपो मातामहस्तदा ।

तमुवाच शुभं वाक्यं शिरस्याघ्राय राघवम् ॥ १६ ॥

गच्छ तातानुजाने त्वां कैकेयीसुप्रजास्त्वया ।

मातरं कुशलं ब्रूयाः पितरं च परन्तप ॥ १७ ॥

पुरोहितं च कुशलं ये चान्ये द्विज सत्तमाः ।

तौ च तात महेष्वासौ भ्रातरौ रामलक्ष्मणौ ॥ १८ ॥

तस्मै हस्त्युत्तमांश्चित्रान् कम्बलानजिनानि च ।

अभिसत्कृत्य कैकेयो भरताय धनं ददौ ॥ १९ ॥

रुक्मनिष्कसहस्रे द्वे षोडशाश्वशतानि च ।

सत्कृत्य कैकेयीपुत्रं केकयो धनमादिशत् ॥ २० ॥

तथाऽमात्यानभिप्रेतान् विश्वास्यांश्च गुणान्वितान् ।

ददावश्वपतिः क्षिप्रं भरतायानुयायिनः ॥ २१ ॥

ऐरावतानैन्द्रशिरान् नागान्वै प्रियदर्शनान् ।

खरान् शीघ्रान् सुसम्युक्तान् मातुलोऽस्मै धनं ददौ ॥ २२ ॥

अन्तःपुरेऽति संवृद्धान् व्याघ्रवीर्यबलान्वितान् ।

दंष्ट्राऽऽयुधान् महाकायान् शुनश्चोपायनं ददौ ॥ २३ ॥

स दतं केकयेन्द्रेण धनं तन्नाभ्यनन्दत ।

भरतः कैकयीपुत्रः गमनत्वरया तदा ॥ २४ ॥

बभूव ह्यस्य हृदते चिन्ता सुमहती तदा ।

त्वरया चापि दूतानां स्वप्नस्यापि च दर्शनात् ॥ २५ ॥

स स्ववेश्माभ्यतिक्रम्य नरनागश्वसंवृतम् ।

प्रपेदे सुमहच्छ्रीमान् राजमार्गमनुत्तमम् ॥ २६ ॥

अभ्यतीत्य ततोऽपश्यदन्तः पुरमुदारधीः ।

ततस्तद्भरतः श्रीमानाविवेशानिवारितः ॥ २७ ॥

स माता महमापृच्छ्य मातुलं च युधाजितम् ।

रथमारुह्य भरतः शत्रुघ्नसहितो ययौ ॥ २८ ॥

रथान् मण्डल चक्रांश्च योजयित्वा परः शतम् ।

उष्ट्र गोऽश्वखरैः भृत्या भरतं यान्तमन्वयुः ॥ २९ ॥

बलेन गुप्तः भरतः महात्मा

सहार्यकस्याऽत्म समैरमात्यैः ।

आदाय शत्रुघ्नमपेतशत्रुः

गृहात् ययौ सिद्धैवेन्द्रलोकात् ॥ ३० ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे सप्ततितमः सर्गः ॥ ७० ॥

valmiki ramayan ayodhyakand adhyay 70