Skip to main content
पडताळणी प्रलंबित

अयोध्याकाण्ड एकसप्ततितमः

॥ अयोध्यागमनम् ॥

स प्राङ्मुखो राजगृहादभिनिर्याय वीर्यवान् । [राघवः]

ततस्सुदामां द्युतिमान् सन्तीर्यावेक्ष्य तां नदीम् ॥ १ ॥

ह्लादिनीं दूरपारां च प्रत्यक् स्रोतस्तरङ्गिणीम् ।

शतद्रूमतरच्छ्रीमान् नदीमिक्ष्वाकुनन्दनः ॥ २ ॥

एलाधाने नदीं तीर्त्वा प्राप्य चापरपर्पटान् ।

शिलामाकुर्वतीं तीर्त्वा आग्नेयं शल्यकर्तनम् ॥ ३ ॥

सत्य सन्धः शुचिः श्रीमान् प्रेक्षमाणः शिलावहाम् ।

अत्ययात् स महाशैलान् वनं चैत्ररथं प्रति ॥ ४ ॥

सरस्वतीं च गङ्गां च युग्मेन प्रतिपद्य च । [प्रत्यपद्यत]

उत्तरं वीरमत्स्यानां भारुण्डं प्राविशद्वनम् ॥ ५ ॥

वेगिनीं च कुलिङ्गाख्यां ह्रादिनीं पर्वतावृताम् ।

यमुनां प्राप्य सन्तीर्णो बलमाश्वासयत्तदा ॥ ६ ॥

शीतीकृत्य तु गात्राणि क्लान्तानाश्वास्य वाजिनः ।

तत्र स्नात्वा च पीत्वा च प्रायादादाय चोदकम् ॥ ७ ॥

राजपुत्रः महारण्यमनभीक्ष्णोपसेवितम् ।

भद्रः भद्रेण यानेन मारुतः खमिवात्ययात् ॥ ८ ॥

भागीरथीं दुष्प्रतरामंशुधाने महानदीम् ।

उपायाद्राघवस्तूर्णं प्राग्वटे विश्रुते पुरे ॥ ९ ॥

स गङ्गां प्राग्वटे तीर्त्वा समायात्कुटिकोष्ठिकाम् ।

सबलस्तां स तीर्त्वाऽथ समायाद्धर्मवर्धनम् ॥ १० ॥

तोरणं दक्षिणार्धेन जम्बूप्रस्थमुपागमत् ।

वरूथं च ययौ रम्यं ग्रामं दशरथात्मजः ॥ ११ ॥

तत्र रम्ये वने वासं कृत्वाऽसौ प्राङ्मुखो ययौ ।

उद्यानमुज्जिहानायाः प्रियका यत्र पादपाः ॥ १२ ॥

सालांस्तु प्रियकान्प्राप्य शीघ्रानास्थाय वाजिनः ।

अनुज्ञाप्याथ भरतः वाहिनीं त्वरितः ययौ ॥ १३ ॥

वासं कृत्वा सर्वतीर्थे तीर्त्वा चोत्तानकां नदीम् ।

अन्या नदीश्च विविधाः पार्वतीयैस्तुरङ्गमैः ॥ १४ ॥

हस्ति पृष्ठकमासाद्य कुटिकामत्यवर्तत ।

ततार च नरव्याघ्रः लौहित्ये स कपीवतीम् ॥ १५ ॥

एकसाले स्थाणुमतीं विनते गोमतीं नदीम् ।

[* व्यपायाद्राघस्तूर्णं तीर्त्वा शोणां महानदीम् ।*]

कलिङ्गनगरे चापि प्राप्य सालवनं तदा ॥ १६ ॥

भरतः क्षिप्रमागच्चत् सुपरिश्रान्तवाहनः ।

वनं च समतीत्याशु शर्वर्यामरुणोदये ॥ १७ ॥

अयोध्यां मनुना राज्ञा निर्मितां सन्ददर्श ह ।

तां पुरीं पुरुषव्याघ्रः सप्तरात्रोषितः पथि ॥ १८ ॥

अयोध्यामग्रतर्दृष्ट्वा सारथिं वाक्यमब्रवीत् ।

एषा नातिप्रतीता मे पुण्योद्याना यशस्विनी ॥ १९ ॥

अयोध्या दृश्यते दूरात् सारथे पाण्डुमृत्तिका ।

यज्वभिर्गुणसम्पन्नैः ब्राह्मणैः वेदपारगैः ॥ २० ॥

भूयिष्ठमृद्धैराकीर्णा राजर्षिपरिपालिता ।

अयोध्यायां पुरा शब्दः श्रूयते तुमुलो महान् ॥ २१ ॥

समन्तान्नरनारीणां तमद्य न शृणोम्यहम् ।

उद्यानानि हि सायाह्ने क्रीडित्वोपरतैर्नरैः ॥ २२ ॥

समन्ताद्विप्रधावद्भिः प्रकाशन्ते ममान्यदा ।

तान्यद्यानुरुदन्तीव परित्यक्तानि कामिभिः ॥ २३ ॥

अरण्य भूतेव पुरी सारथे प्रतिभाति मे ।

न ह्यत्र यानैर्दृश्यन्ते न गजैर्न च वाजिभिः ॥ २४ ॥

निर्यान्तः वाऽभियान्तः वा नरमुख्या यथापुरम् ।

उद्यानानि पुरा भान्ति मत्तप्रमुदितानि च ॥ २५ ॥

जनानां रतिसम्योगेष्वत्यन्तगुणवन्ति च ।

तान्येतान्यद्य वश्यामि निरानन्दानि सर्वशः ॥ २६ ॥

स्रस्तपर्णैरनुपथं विक्रोशद्भिरिव द्रुमैः ।

नाद्यापि श्रूयते शब्दो मत्तानां मृगपक्षिणाम् ॥ २७ ॥

संरक्तां मधुरां वाणीं कलं व्याहरतां बहु ।

चन्दनागरुसम्पृक्तो धूपसम्मूर्चितोऽतुलः ॥ २८ ॥

प्रवाति पवनः श्रीमान् किं नु नाद्य यथापुरम् ।

भेरीमृदङ्गवीणानां कोणसङ्घट्‍टितः पुनः ॥ २९ ॥

किमद्य शब्दो विरतः सदाऽदीनगतिः पुरा ।

अनिष्टानि च पापानि पश्यामि विविधानि च ॥ ३० ॥

निमित्तान्यमनोज्ञानि तेन सीदति ते मनः ।

सर्वथा कुशलं सूत दुर्लभं मम बन्धुषु ॥ ३१ ॥

तथा ह्यसति सम्मोहे हृदयं सीदतीव मे ।

विषण्णः शान्तहृदयस्त्रस्तः संलुलितेन्द्रियः ॥ ३२ ॥

भरतः प्रविवेशाशु पुरीमिक्ष्वाकुपालिताम् ।

द्वारेण वैजयन्तेन प्राविशच्छ्रान्तवाहनः ॥ ३३ ॥

द्वास्स्थैरुत्थाय विजयं पृष्टस्तैः सहितो ययौ ।

स त्वनेकाग्रहृदयो द्वास्स्थं प्रत्यर्च्य तं जनम् ॥ ३४ ॥

सूतमश्वपतेः क्लान्तमब्रवीत्तत्र राघवः ।

किमहं त्वरयाऽऽनीतः कारणेन विनाऽनघ ॥ ३५ ॥

अशुभाशङ्कि हृदयं शीलं च पततीव मे ।

श्रुता नो यादृशाः पूर्वं नृपतीनां विनाशने ॥ ३६ ॥

आकारांस्तानहं सर्वान् इहपश्यामि सारथे ।

सम्मार्जनविहीनानि परुषाण्युपलक्षये ॥ ३७ ॥

असम्यतकवाटानि श्रीविहीनानि सर्वशः ।

बलिकर्मविहीनानि धूपसम्मोदनेन च ॥ ३८ ॥

अनाशितकुटुम्बानि प्रभाहीनजनानि च ।

अलक्ष्मीकानि पश्यामि कुटुम्बिभवनान्यहम् ॥ ३९ ॥

अपेतमाल्यशोभान्यप्यसंमृष्टाजिराणि च ।

देवागाराणि शून्यानि न चाभान्ति यथापुरम् ॥ ४० ॥

देवतार्चाः प्रविद्धाश्च यज्ञगोष्ठ्यस्तथाविधाः ।

माल्यापणेषु राजन्ते नाद्य पण्यानि वा तथा ॥ ४१ ॥

दृश्यन्ते वणिजोऽप्यद्य न यथापूर्वमत्र वै ।

ध्यानसंविग्नहृदयाः नष्टव्यापारयन्त्रिताः ॥ ४२ ॥

देवायतनचैत्येषुदीनाः पक्षिगणास्तथा ।

मलिनं चाश्रु पूर्णाक्षं दीनं ध्यानपरं कृशम् ॥ ४३ ॥

सस्त्रीपुंसं च पश्यामि जनमुत्कण्ठितं पुरे ।

इत्येवमुक्त्वा भरतः सूतं तं दीनमानसः ।

तान्यरिष्टान्ययोध्यायां प्रेक्ष्य राजगृहं ययौ ॥ ४४ ॥

तां शून्यशृङ्गाटकवेश्मरथ्याम्

रजोऽरुण द्वारकवाटयन्त्राम् ।

दृष्ट्वा पुरीमिन्द्रपुरप्रकाशाम्

दुःखेन सम्पूर्णतरः बभूव ॥ ४५ ॥

बहूनि पश्यन् मनसोऽप्रियाणि

यान्यन्यदा नास्य पुरे बभूवुः ।

अवाक्छिरा दीनमना नहृष्टः

पितुर्महात्मा प्रविवेश वेश्म ॥ ४६ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे एकसप्ततितमः सर्गः ॥ ७१ ॥

valmiki ramayan ayodhyakand adhyay 71