Skip to main content
पडताळणी प्रलंबित

अयोध्याकाण्ड एकाधिकशततमः

॥ पितृदिष्टान्तश्रवणम् ॥

रामस्य वचनं श्रुत्वा भरतः प्रत्युवाच ह ।

किं मे धर्माद्विहीनस्य राजधर्मः करिष्यति ॥ १ ॥

शाश्वतोऽयं सदा धर्मः स्थितोऽस्मासु नरर्षभ ।

ज्येष्ठपुत्रे स्थिते राजन्न कनीयान् नृपो भवेत् ॥ २ ॥

स समृद्धां मया सार्धमयोध्यां गच्छ राघव ।

अभिषेचय चात्मानं कुलस्यास्य भवाय नः ॥ ३ ॥

राजानं मानुषं प्राहुर्देवत्वे स मतो मम ।

यस्य धर्मार्थसहितं वृत्तमाहुरमानुषम् ॥ ४ ॥

केकयस्थे च मयि तु त्वयि चारण्यमाश्रिते ।

दिवमार्यो गतो राजा यायजूकः सतां मतः ॥ ५ ॥

निष्क्रान्तमात्रे भवति सहसीते सलक्ष्मणे ।

दुःखशोकाभिभूतस्तु राजा त्रिदिवमभ्यगात् ॥ ६ ॥

उत्तिष्ठ पुरुषव्याघ्र क्रियतामुदकं पितुः ।

अहं चायं च शत्रुघ्नः पूर्वमेव कृतोदकौ ॥ ७ ॥

प्रियेण खलु दत्तं हि पितृलोकेषु राघव ।

अक्षय्यं भवतीत्याहुर्भवांश्चैव पितुः प्रियः ॥ ८ ॥

त्वामेव शोचंस्तव दर्शनेप्सुः

त्वय्येव सक्तामनिवर्त्य बुद्धिम् ।

त्वया विहीनस्तव शोकरुग्णः

त्वां संस्मरन्नस्तमितः पिता ते ॥ ९ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे एकाधिकशततमः सर्गः ॥ १०१ ॥

valmiki ramayan ayodhyakand adhyay 101