Skip to main content
पडताळणी प्रलंबित

अयोध्याकाण्ड चतुर्दशाधिकशततमः

॥ अयोध्याप्रवेशः ॥

स्निग्धगम्भीरघोषेण स्यन्दनेनोपयान् प्रभुः ।

अयोध्यां भरतः क्षिप्रं प्रविवेश महायशाः ॥ १ ॥

बिडालोलूकचरितामालीननरवारणाम् ।

तिमिराभ्याहतां कालीमप्रकाशां निशामिव ॥ २ ॥

राहुशत्रोः प्रियां पत्नीं श्रिया प्रज्वलितप्रभाम् ।

ग्रहेणाभ्युत्थिते नैकां रोहिणीमिव पीडिताम् ॥ ३ ॥

अल्पोष्णक्षुब्धसलिलां घर्मोत्तप्तविहङ्गमाम् ।

लीनमीनझषग्राहां कृशां गिरिनदीमिव ॥ ४ ॥

विधूमामिव हेमाभामध्वराग्नेः समुत्थिताम् ।

हविरभ्युक्षितां पश्चात् शिखां विप्रलयं गताम् ॥ ५ ॥

विध्वस्तकवचां रुग्णगजवाजिरथध्वजाम् ।

हतप्रवीरामापन्नां चमूमिव महाहवे ॥ ६ ॥

सफेना सस्वना भूत्वा सागरस्य समुत्थिताम् ।

प्रशान्तमारुतोद्घातां जलोर्मिमिव निस्वनाम् ॥ ७ ॥

त्यक्तां यज्ञायुधैः सर्वैरभिरूपैश्च याजकैः ।

सुत्याकाले विनिर्वृत्ते वेदिं गतरवामिव ॥ ८ ॥

गोष्ठमध्ये स्थितामार्तामचरन्तीं तृणं नवम् ।

गोवृषेण परित्यक्तां गवां पत्तिमिवोत्सुकाम् ॥ ९ ॥

प्रभाकराद्यैः सुस्निग्धैः प्रज्वलद्भिरिवोत्तमैः ।

वियुक्तां मणिभिर्जात्यैर्नवां मुक्तावलीमिव ॥ १० ॥

सहसा चलितां स्थानान्महीं पुण्यक्षयाद्गताम् ।

संहृतद्युतिविस्तारां तारामिव दिवश्च्युताम् ॥ ११ ॥

पुष्पनद्धां वसन्तान्ते मत्तभ्रमरनादिताम् ।

द्रुतदावाग्निविप्लुष्टां क्लान्तां वनलतामिव ॥ १२ ॥

सम्मूढनिगमां स्तब्धां सङ्क्षिप्तविपणापणाम् ।

प्रच्छन्नशशिनक्षत्रां द्यामिवाम्बुधरैर्वृताम् ॥ १३ ॥

क्षीणपानोत्तमैर्भिन्नैः शरावैरभिसंवृताम् ।

हतशौण्डामिवाकाशे पानभूमिमसंस्कृताम् ॥ १४ ॥

वृक्णभूमितलां निम्नां वृक्णपात्रैः समावृताम् ।

उपयुक्तोदकां भग्नां प्रपां निपतितामिव ॥ १५ ॥

विपुलां विततां चैव युक्तपाशां तरस्विनाम् ।

भूमौ बाणैर्विनिष्कृत्तां पतितां ज्यामिवायुधात् ॥ १६ ॥

सहसा युद्धशौण्डेन हयारोहेण वाहिताम् ।

निक्षिप्तभाण्डामुत्सृष्टां किशोरीमिव दुर्बलाम् ॥ १७ ॥

शुष्कतोयां महामत्स्यैः कूर्मैश्च बहुभिर्वृताम् ।

प्रभिन्नतटविस्तीर्णां वापीमिव हृतोत्पलाम् ॥ १८ ॥

पुरुषस्याप्रहृष्टस्य प्रतिषिद्धानुलेपनाम् ।

सन्तप्तामिव शोकेन गात्रयष्टिमभूषणाम् ॥ १९ ॥

प्रावृषि प्रविगाढायां प्रविष्टस्याभ्रमण्डलम् ।

प्रच्छन्नां नीलजीमूतैर्भास्करस्य प्रभामिव ॥ २० ॥

भरतस्तु रथस्थः सन् श्रीमान् दशरथात्मजः ।

वाहयन्तं रथश्रेष्ठं सारथिं वाक्यमब्रवीत् ॥ २१ ॥

किं नु खल्वद्य गम्भीरो मूर्छितो न निशम्यते ।

यथापुरमयोध्यायां गीतवादित्रनिस्वनः ॥ २२ ॥

वारुणीमदगन्धश्च माल्यगन्धश्च मूर्च्छितः ।

धूपितागरुगन्धश्च न प्रवाति समन्ततः ॥ २३ ॥

यानप्रवरघोषश्च स्निग्धश्च हयनिस्वनः ।

प्रमत्तगजनादश्च महांश्च रथनिस्वनः ।

नेदानीं श्रूयते पुर्यामस्यां रामे विवासिते ॥ २४ ॥

चन्दनागरुगन्धांश्च महार्हाश्च नवस्रजः ।

गते हि रामे तरुणाः सन्तप्ता नोपभुञ्जते ॥ २५ ॥

बहिर्यात्रां न गच्छन्ति चित्रमाल्यधरा नराः ।

नोत्सवाः सम्प्रवर्तन्ते रामशोकार्दिते पुरे ॥ २६ ॥

सह नूनं मम भ्रात्रा पुरस्यास्यद्युतिर्गता ।

न हि राजत्ययोध्येयं सासारेवार्जुनी क्षपा ॥ २७ ॥

कदा नु खलु मे भ्राता महोत्सव इवागतः ।

जनयिष्यत्ययोध्यायां हर्षं ग्रीष्म इवाम्बुदः ॥ २८ ॥

तरुणैश्चारुवेषैश्च नरैरुन्नतगामिभिः ।

सम्पतद्भिरयोध्यायां नाभिभान्ति महापथाः ॥ २९ ॥

एवं बहुविधं जल्पन् विवेश वसतिं पितुः ।

तेन हीनां नरेन्द्रेण सिंहहीनां गुहामिव ॥ ३० ॥

तदा तदन्तःपुरमुज्झितप्रभम्

सुरैरिवोत्सृष्टमभास्करं दिनम् ।

निरीक्ष्य सर्वन्तु विविक्तमात्मवान्

मुमोच बाष्पं भरतः सुदुःखितः ॥ ३१ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे चतुर्दशोत्तरशततमः सर्गः ॥ ११४ ॥

valmiki ramayan ayodhyakand adhyay 114