Skip to main content
पडताळणी प्रलंबित

अयोध्याकाण्ड अष्टषष्टितमः

॥ दूतप्रेषणम् ॥

तेषां हि वचनं श्रुत्वा वसिष्ठः प्रत्युवाच ह ।

मित्रामात्यगणान् सर्वान् ब्राह्मणांस्तानिदं वचः ॥ १ ॥

यदसौ मातुलकुले दत्तराज्यः परं सुखी ।

भरतः वसति भ्रात्रा शत्रुघ्नेन समन्वितः ॥ २ ॥

तच्छीघ्रं जवना दूता गच्छन्तु त्वरितैः हयैः ।

आनेतुं भ्रातरौ वीरौ किं समीक्षामहे वयम् ॥ ३ ॥

गच्छन्त्विति ततः सर्वे वसिष्ठं वाक्यमब्रुवन् ।

तेषां तद्वचनं श्रुत्वा वसिष्ठो वाक्यमब्रवीत् ॥ ४ ॥

एहि सिद्धार्थ विजय जयन्ताशोक नन्दन ।

श्रूयतामितिकर्तव्यं सर्वानेव ब्रवीमि वः ॥ ५ ॥

पुरं राजगृहं गत्वा शीघ्रं शीघ्रजवैः हयैः ।

त्यक्तशोकैरिदं वाच्यः शासनाद्भरतो मम ॥ ६ ॥

पुरोहितस्त्वां कुशलं प्राह सर्वे च मन्त्रिणः ।

त्वरमाणश्च निर्याहि कृत्यमात्ययिकं त्वया ॥ ७ ॥

मा चास्मै प्रोषितं रामं मा चास्मै पितरं मृतम् ।

भवन्तः शंसिषुर्गत्वा राघवाणामिमं क्षयम् ॥ ८ ॥

कौशेयानि च वस्त्राणि भूषणानि वराणि च ।

क्षिप्रमादाय राज्ञश्च भरतस्य च गच्छत ॥ ९ ॥

दत्तपथ्यशना दूताजग्मुः स्वं स्वं निवेशनम् ।

केकयांस्ते गमिष्यन्तो हयानारुह्य सम्मतान् ॥ १० ॥

ततः प्रास्थानिकं कृत्वा कार्यशेषमनन्तरम् ।

वसिष्ठेनाभ्यनुज्ञाता दूताः सन्त्वरिता ययुः ॥ ११ ॥

न्यन्तेनापरतालस्य प्रलम्बस्योत्तरं प्रति ।

निषेवमाणास्ते जग्मुर्नदीं मध्येन मालिनीम् ॥ १२ ॥

ते हस्तिनापुरे गङ्गां तीर्त्वा प्रत्यङ्मुखा ययुः ।

पाञ्चालदेशमासाद्य मध्येन कुरुजाङ्गलम् ॥ १३ ॥

सरांसि च सुपूर्णानि नदीश्च विमलोदकाः ।

निरीक्षमाणास्ते जग्मुर्धूताः कार्यवशाद्द्रुतम् ॥ १४ ॥

ते प्रसन्नोदकां दिव्यां नानाविहगसेविताम् ।

उपातिजग्मुर्वेगेन शरदण्डां जनाकुलाम् ॥ १५ ॥

निकूलवृक्षमासाद्य दिव्यं सत्योपयाचनम् ।

अभिगम्याभिवाद्यं तं कुलिङ्गां प्राविशन् पुरीम् ॥ १६ ॥

अभिकालं ततः प्राप्यते बोधिभवनाच्च्युताम् ।

पितृपैतामहीं पुण्यां तेरुरिक्षुमतीं नदीम् ॥ १७ ॥

अवेक्ष्याञ्जलिपानांश्च ब्राह्मणान् वेदपारगान् ।

ययुर्मध्येन बाह्लीकान् सुदामानं च पर्वतम् ॥ १८ ॥

विष्णोः पदं प्रेक्षमाणा विपाशां चापि शाल्मलीम् ।

नदीर्वापीस्तटाकानि पल्वलानि सरांसि च ॥ १९ ॥

पस्यन्तो विविधांश्चापि सिंहव्याग्रमृगद्विपान् ।

ययुः पथाऽतिमहता शासनं भर्तुरीप्सवः ॥ २० ॥

ते श्रान्तवाहना दूताः विकृष्णेन पथा ततः ।

गिरिव्रजं पुरवरं शीघ्रमासेदुरञ्जसा ॥ २१ ॥

भर्तुः प्रियार्थं कुलरक्षणार्थम्

भर्तुश्च वंशस्य परिग्रहार्थम् ।

अहेडमानास्त्वरया स्म दूताः

रात्र्यां तु ते तत्पुरमेव याताः ॥ २२ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे अष्टषष्ठितमः सर्गः ॥ ६८ ॥

valmiki ramayan ayodhyakand adhyay 68