Skip to main content
पडताळणी प्रलंबित

अयोध्याकाण्ड पञ्चषष्टितमः

॥ अन्तःपुराक्रन्दः ॥

अथ रात्र्यां व्यतीतायां प्रातरेवापरेऽहनि ।

वन्दिनः पर्युपातिष्ठन् तत्पार्थिवनिवेशनम् ॥ १ ॥

सूताः परमसंस्काराः मङ्गलाश्चोत्तमश्रुताः ।

गायकाः स्तुतिशीलाश्च निगदन्तः पृथक् पृथक् ॥ २ ॥

राजानं स्तुवतां तेषामुदात्ताभिहिताशिषाम् ।

प्रासादाभोगविस्तीर्णः स्तुतिशब्दो ह्यवर्तत ॥ ३ ॥

ततस्तु स्तुवतां तेषां सूतानां पाणिवादकाः ।

अपदानान्युदाहृत्य पाणिवादा नवादयन् ॥ ४ ॥

तेन शब्देन विहगाः प्रतिबुद्धा विसस्वनुः ।

शाखास्थाः पञ्जरस्थाश्च ये राजकुलगोचराः ॥ ५ ॥

व्याहृताः पुण्यशब्दाश्च वीणानां चापि निस्स्वनाः ।

आशीर्गेयं च गाथानां पूरयामास वेश्म तत् ॥ ६ ॥

ततः शुचि समाचाराः पर्युपस्थान कोविदाः ।

स्त्रीवर्षवरभूयिष्ठाः उपतस्थुर्यथापुरम् ॥ ७ ॥

हरिचन्दन सम्पृक्तमुदकं काञ्चनैः घटैः ।

आनिन्युः स्नान शिक्षाज्ञा यथाकालं यथाविधि ॥ ८ ॥

मङ्गलालम्भनीयानि प्राशनीयान्युपस्करान् ।

उपनिन्युस्तथाप्यन्याः कुमारीबहुलाः स्त्रियः ॥ ९ ॥

सर्वलक्षणसम्पन्नं सर्वं विधिवदर्चितम् ।

सर्वं सुगुणलक्ष्मीवत्तद्भभूवाभिहारिकम् ॥ १० ॥

तत्तु सूर्योदयं यावत्सर्वं परिसमुत्सुकम् ।

तस्थावनुपसम्प्राप्तं किं स्विदित्युपशङ्कितम् ॥ ११ ॥

अथयाः कोसलेन्द्रस्य शयनं प्रत्यनन्तराः ।

ताः स्त्रियस्तु समागम्य भर्तारं प्रत्यबोधयन् ॥ १२ ॥

तथाऽप्युचितवृत्तास्ताः विनयेन नयेन च ।

नह्यस्य शयनं स्पृष्ट्वा किञ्चिदप्युपलेभिरे ॥ १३ ॥

ताः स्त्रीयः स्वप्नशीलज्ञास्चेष्टासञ्चलनादिषु ।

ता वेपथुपरीताश्च राज्ञः प्राणेषु शङ्किताः ॥ १४ ॥

प्रतिस्रोतस्तृणाग्राणां सदृशं सञ्चकम्पिरे । [सञ्चकाशिरे]

अथ संवेपमानानां स्त्रीणां दृष्ट्वा च पार्थिवम् ॥ १५ ॥

यत्तदाशङ्कितं पापं तस्य जज्ञे विनिश्चयः ।

कौसल्या च सुमित्रा च पुत्रशोकपराजिते ॥ १६ ॥

प्रसुप्ते न प्रबुध्येते यथा कालसमन्विते ।

निष्प्रभा च विवर्णा च सन्ना शोकेन सन्नता ॥ १७ ॥

न व्यराजत कौसल्या तारेव तिमिरावृता ।

कौसल्याऽनन्तरं राज्ञः सुमित्रा तदन्तनरम् ॥ १८ ॥

न स्म विभ्राजते देवी शोकाश्रुलुलितानना ।

ते च दृष्ट्वा तथा सुप्ते उभे देव्यौ च तं नृपम् ॥ १९ ॥

सुप्तमेवोद्गतप्राणमन्तः पुरमदृश्यत ।

ततः प्रचुक्रुशुर्दीनाः सस्वरं ता वराङ्गनाः ॥ २० ॥

करेणवैवारण्ये स्थान प्रच्युत यूथपाः ।

तासामाक्रन्द शब्देन सहसोद्गत चेतने ॥ २१ ॥

कौसल्या च सुमित्राच त्यक्तनिद्रे बभूवतुः ।

कौसल्या च सुमित्रा च दृष्ट्वा स्पृष्ट्वा च पार्थिवम् ॥ २२ ॥

हा नाथेति परिक्रुश्य पेततुर्धरणीतले ।

सा कोसलेन्द्रदुहिता वेष्टमाना महीतले ॥ २३ ॥

न बभ्राज रजोध्वस्ता तारेव गगनाच्च्युता ।

नृपे शान्तगुणे जाते कौसल्यां पतितां भुवि ॥ २४ ॥

आपश्यंस्ताः स्त्रियः सर्वाः हतां नागवधूमिव ।

ततः सर्वा नरेन्द्रस्य कैकेयीप्रमुखाः स्त्रियः ॥ २५ ॥

रुदन्त्यः शोकसन्तप्ता निपेतुर्गतचेतनाः ।

ताभिः स बलवान्नादः क्रोशन्तीभिरनुद्रुतः ॥ २६ ॥

येन स्थिरीकृतं भूयस्तद्गृहं समनादयत् ।

तत्समुत्त्रस्तसम्भ्रान्तं पर्युत्सुक जनाकुलम् ॥ २७ ॥

सर्वतस्तुमुलाक्रन्दं परितापार्तबान्धवम् ।

सद्यो निपतितानन्दं दीनविक्लबदर्शनम् ॥ २८ ॥

बभूव नरदेवस्य सद्म दिष्टान्तमीयुषः ।

अतीतमाज्ञाय तु पार्थिवर्षभम्

यशस्विनं सम्परिवार्य पत्नयः ।

भृशं रुदन्त्यः करुणं सुदुःखिताः

प्रगृह्य बाहू व्यलपन्ननाथवत् ॥ २९ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे पञ्चषष्ठितमः सर्गः ॥ ६५ ॥

valmiki ramayan ayodhyakand adhyay 65