Skip to main content
पडताळणी प्रलंबित

अयोध्याकाण्ड षडशीतितमः

॥ गुहवाक्यम् ॥

आचचक्षेऽथ सद्भावं लक्ष्मणस्य महात्मनः ।

भरतायाप्रमेयाय गुहो गहनगोचरः ॥ १ ॥

तं जाग्रतं गुणैर्युक्तं शरचापासिधारिणम् ।

भ्रातृगुप्त्यर्थमत्यन्तमहं लक्ष्मणमब्रवम् ॥ २ ॥

इयं तात सुखा शय्या त्वदर्थमुपकल्पिता ।

प्रत्याश्वसि हि शेष्वास्यां सुखं राघवनन्दन ॥ ३ ॥

उचितोऽयं जनः सर्वो दुःखानां त्वं सुखोचितः ।

धर्मात्मंस्तस्य गुप्त्यर्थं जागरिष्यामहे वयम् ॥ ४ ॥

न हि रामात्प्रियतरो ममास्ति भुवि कश्चन ।

मोत्सुकोभूर्ब्रवीम्येतदप्यसत्यं तवाग्रतः ॥ ५ ॥

अस्य प्रसादादाशंसे लोकेऽस्मिन् सुमहद्यशः ।

धर्मावाप्तिं च विपुलामर्थावाप्तिं च केवलाम् ॥ ६ ॥

सोऽहं प्रियसखं रामं शयानं सह सीतया ।

रक्षिष्यामि धनुष्पाणिः सर्वैः स्वैर्ज्ञातिभिः सह ॥ ७ ॥

न हि मेऽविदितं किञ्चिद्वनेऽस्मिंश्चरतः सदा ।

चतुरङ्गं ह्यपि बलं प्रसहेम वयं युधि ॥ ८ ॥

एवमस्माभिरुक्तेन लक्ष्मणेन महात्मना ।

अनुनीता वयं सर्वे धर्ममेवानुपश्यता ॥ ९ ॥

कथं दाशरथौ भूमौ शयाने सह सीतया ।

शक्या निद्रा मया लब्धुं जीवितं वा सुखानि वा ॥ १० ॥

यो न देवासुरैः सर्वैः शक्यः प्रसहितुं युधि ।

तं पश्य गुह संविष्टं तृणेषु सह सीतया ॥ ११ ॥

महता तपसा लब्धो विविधैश्च परिश्रमैः ।

एको दशरथस्यैष पुत्रः सदृशलक्षणः ॥ १२ ॥

अस्मिन्प्रव्राजिते राजा न चिरं वर्तयिष्यति ।

विधवा मेदिनी नूनं क्षिप्रमेव भविष्यति ॥ १३ ॥

विनद्य सुमहानादं श्रमेणोपरताः स्त्रियः ।

निर्घोषोपरतं नूनमद्य राजनिवेशनम् ॥ १४ ॥ [विरतो]

कौसल्या चैव राजा च तथैव जननी मम ।

नाशंसे यदि जीवेयुः सर्वे ते शर्वरीमिमाम् ॥ १५ ॥

जीवेदपि हि मे माता शत्रुघ्नस्यान्ववेक्षया ।

दुःखिता या तु कौसल्या वीरसूर्विनशिष्यति ॥ १६ ॥

अतिक्रान्तमतिक्रान्तमनवाप्य मनोरथम् ।

राज्ये राममनिक्षिप्य पिता मे विनशिष्यति ॥ १७ ॥

सिद्धार्थाः पितरं वृत्तं तस्मिन्काले ह्युपस्थिते ।

प्रेतकार्येषु सर्वेषु संस्करिष्यन्ति भूमिपम् ॥ १८ ॥

रम्यचत्वरसंस्थानां सुविभक्त महापथाम् ।

हर्म्यप्रासादसम्पन्नां सर्वरत्नविभूषिताम् ॥ १९ ॥

गजाश्वरथसम्बाधां तूर्यनादविनादिताम् ।

सर्वकल्याणसम्पूर्णां हृष्टपुष्टजनाकुलाम् ॥ २० ॥

आरामोद्यानसम्पूर्णां समाजोत्सवशालिनीम् ।

सुखिता विचरिष्यन्ति राजधानीं पितुर्मम ॥ २१ ॥

अपि सत्यप्रतिज्नेन सार्धं कुशलिना वयम् ।

निवृत्ते समये ह्यस्मिन् सुखिताः प्रविशेमहि ॥ २२ ॥

परिदेवयमानस्य तस्यैवं सुमहात्मनः ।

तिष्ठतो राजपुत्रस्य शर्वरी साऽत्यवर्तत ॥ २३ ॥

प्रभाते विमले सूर्ये कारयित्वा जटावुभौ ।

अस्मिन् भागीरथीतीरे सुखं सन्तारितौ मया ॥ २४ ॥

जटा धरौ तौ द्रुमचीरवाससौ

महाबलौ कुञ्जर यूथपोपमौ ।

वरेषुचापासिधरौ परन्तपौ

व्यवेक्षमाणौ सह सीतया गतौ ॥ २५ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे षडशीतितमः सर्गः ॥ ८६ ॥

valmiki ramayan ayodhyakand adhyay 86