Skip to main content
पडताळणी प्रलंबित

अयोध्याकाण्ड चतुस्त्रिंशः

॥ दशरथसमाश्वासनम् ॥

ततः कमलपत्राक्षः श्यामो निरुदरो महान् ।

उवाच रामस्तं सूतं पितुराख्याहि मामिति ॥ १ ॥

स रामप्रेषितः क्षिप्रं सन्तापकलुषेन्द्रियः ।

प्रविश्य नृपतिं सूतो निःश्वसन्तं ददर्श ह ॥ २ ॥

उपरक्तमिवादित्यं भस्मच्छन्नमिवानलम् ।

तटाकमिव निस्तोयमपश्यज्जगतीपतिम् ॥ ३ ॥

आलोक्य तु महाप्राज्ञः परमाकुलचेतसम् ।

राममेवानुशोचन्तं सूतः प्राञ्जलिरासदत् ॥ ४ ॥

तं वर्धयित्वा राजानं सूतः पूर्वं जयाशिषा ।

भयविक्लबया वाचा मन्दया श्लक्ष्णमब्रवीत् ॥ ५ ॥

अयं स पुरुषव्याघ्रो द्वारि तिष्ठति ते सुतः ।

ब्राह्मणेभ्यो धनं दत्त्वा सर्वं चैवोपजीविनाम् ॥ ६ ॥

सर्वान्सुहृद आपृच्छ्य त्वामिदानीं दिदृक्षते ॥ ७ ॥

गमिष्यति महारण्यं तं पश्य जगतीपते ।

वृतं राजगुणैः सर्वैरादित्यमिव रश्मिभिः ॥ ८ ॥

स सत्यवादी धर्मात्मा गाम्भीर्यात्सागरोपमः ।

आकाश इव निष्पङ्को नरेन्द्रः प्रत्युवाच तम् ॥ ९ ॥

सुमन्त्रानय मे दारान्ये केचिदिह मामकाः ।

दारैः परिवृतः सर्वैर्द्रष्टुमिच्छामि राघवम् ॥ १० ॥ [धार्मिकम्]

सोऽन्तःपुरमतीत्यैव स्त्रियस्ता वाक्यमब्रवीत् ।

आर्याह्वयति वो राजाऽगम्यतां तत्र मा चिरम् ॥ ११ ॥

एवमुक्ताः स्त्रियः सर्वाः सुमन्त्रेण नृपाज्ञया ।

प्रचक्रमुस्तद्भवनं भर्तुराज्ञाय शासनम् ॥ १२ ॥

अर्धसप्तशतास्तास्तु प्रमदास्ताम्रलोचनाः ।

कौसल्यां परिवार्याथ शनैर्जग्मुर्धृतव्रताः ॥ १३ ॥

आगतेषु च दारेषु समवेक्ष्य महीपतिः ।

उवाच राजा तं सूतं सुमन्त्रानय मे सुतम् ॥ १४ ॥

स सूतो राममादाय लक्ष्मणं मैथिलीं तदा ।

जगामाभिमुखस्तूर्णं सकाशं जगतीपतेः ॥ १५ ॥

स राजा पुत्रमायान्तं दृष्ट्वा दूरात्कृताञ्जलिम् ।

उत्पपातासनात्तूर्णमार्तः स्त्रीजनसंवृतः ॥ १६ ॥

सोऽभिदुद्राव वेगेन रामं दृष्ट्वा विशां‍पतिः ।

तमसम्प्राप्य दुःखार्तः पपात भुवि मूर्छितः ॥ १७ ॥

तं रामोऽभ्यपतत्क्षिप्रं लक्ष्मणश्च महारथः ।

विसञ्ज्ञमिव दुःखेन सशोकं नृपतिं तदा ॥ १८ ॥

स्त्रीसहस्रनिनादश्च सञ्जज्ञे राजवेश्मनि ।

हा हा रामेति सहसा भूषणध्वनिमूर्छितः ॥ १९ ॥

तं परिष्वज्य बाहुभ्यां तावुभौ रामलक्ष्मणौ ।

पर्यङ्के सीतया सार्धं रुदन्तः समवेशयन् ॥ २० ॥

अथ रामो मुहूर्तेन लब्धसञ्ज्ञं महीपतिम् ।

उवाच प्राञ्जलिर्भूत्वा शोकार्णवपरिप्लुतम् ॥ २१ ॥

आपृच्छे त्वां महाराज सर्वेषामीश्वरोऽसि नः ।

प्रस्थितं दण्डकारण्यं पश्य त्वं कुशलेन माम् ॥ २२ ॥

लक्ष्मणं चानुजानीहि सीता चान्वेति मां वनम् ।

कारणैर्बहुभिस्तथ्यैर्वार्यमाणौ न चेच्छतः ॥ २३ ॥

अनुजानीहि सर्वान्नः शोकमुत्सृज्य मानद ।

लक्ष्मणं मां च सीतां च प्रजापतिरिव प्रजाः ॥ २४ ॥

प्रतीक्षमाणमव्यग्रमनुज्ञां जगतीपतेः ।

उवाच राजा सम्प्रेक्ष्य वनवासाय राघवम् ॥ २५ ॥

अहं राघव कैकेय्या वरदानेन मोहितः ।

अयोध्यायास्त्वमेवाद्य भव राजा निगृह्य माम् ॥ २६ ॥

एवमुक्तो नृपतिना रामो धर्मभृतां वरः ।

प्रत्युवाचाञ्जलिं कृत्वा पितरं वाक्यकोविदः ॥ २७ ॥

भवान्वर्षसहस्राय पृथिव्या नृपते पतिः ।

अहं त्वरण्ये वत्स्यामि न मे कार्यं त्वयाऽनृतम् ॥ २८ ॥

नव पञ्च च वर्षाणि वनवासे विहृत्य ते ।

पुनः पादौ ग्रहीष्यामि प्रतिज्ञान्ते नराधिप ॥ २९ ॥

रुदन्नार्तः प्रियं पुत्रं सत्यपाशेन सम्यतः ।

कैकेय्या चोद्यमानस्तु मिथो राजा तमब्रवीत् ॥ ३० ॥

श्रेयसे वृद्धये तात पुनरागमनाय च ।

गच्छस्वारिष्टमव्यग्रः पन्थानमकुतोभयम् ॥ ३१ ॥

न हि सत्यात्मनस्तात धर्माभिमनसस्तव ।

विनिवर्तयितुं बुद्धिः शक्यते रघुनन्दन ॥ ३२ ॥

अद्य त्विदानीं रजनीं पुत्र मा गच्छ सर्वथा ।

एकाहदर्शनेनापि साधु तावच्चराम्यहम् ॥ ३३ ॥

मातरं मां च सम्पश्यन्वसेमामद्य शर्वरीम् ।

तर्पितः सर्वकामैस्त्वं श्वः काले साधयिष्यसि ॥ ३४ ॥

दुष्करं क्रियते पुत्र सर्वथा राघव त्वया ।

मत्प्रियार्थं प्रियांस्त्यक्त्वा यद्यासि विजनं वनम् ॥ ३५ ॥

न चैतन्मे प्रियं पुत्र शपे सत्येन राघव ।

छन्नया चलितस्त्वस्मि स्त्रिया छन्नाग्निकल्पया ॥ ३६ ॥

वञ्चना या तु लब्धा मे तां त्वं निस्तर्तुमिच्छसि ।

अनया वृत्तसादिन्या कैकेय्याऽभिप्रचोदितः ॥ ३७ ॥

न चैतदाश्चर्यतमं यत्त्वं ज्येष्ठः सुतो मम ।

अपानृतकथं पुत्र पितरं कर्तुमिच्छसि ॥ ३८ ॥

अथ रामस्तथा श्रुत्वा पितुरार्तस्य भाषितम् ।

लक्ष्मणेन सह भ्रात्रा दीनो वचनमब्रवीत् ॥ ३९ ॥

प्राप्स्यामि यानद्य गुणान्को मे श्वस्तान्प्रदास्यति ।

उपक्रमणमेवातः सर्वकामैरहं वृणे ॥ ४० ॥

इयं सराष्ट्रा सजना धनधान्यसमाकुला ।

मया विसृष्टा वसुधा भरताय प्रदीयताम् ॥ ४१ ॥

वनवासकृता बुद्धिर्न च मेऽद्य चलिष्यति ।

यस्तुष्टेन वरो दत्तः कैकेय्यै वरद त्वया ॥ ४२ ॥

दीयतां निखिलेनैव सत्यस्त्वं भव पार्थिव ।

अहं निदेशं भवतो यथोक्तमनुपालयन् ॥ ४३ ॥

चतुर्दश समा वत्स्ये वने वनचरैः सह ।

मा विमर्शो वसुमती भरताय प्रदीयताम् ॥ ४४ ॥

न हि मे काङ्क्षितं राज्यं सुखमात्मनि वा प्रियम् ।

यथानिदेशं कर्तुं वै तवैव रघुनन्दन ॥ ४५ ॥

अपगच्छतु ते दुःखं मा भूर्बाष्पपरिप्लुतः ।

न हि क्षुभ्यति दुर्धर्षः समुद्रः सरितां पतिः ॥ ४६ ॥

नैवाहं राज्यमिच्छामि न सुखं न च मैथिलीम् ।

नैव सर्वानिमान्कामान्न स्वर्गं नैव जीवितम् ॥ ४७ ॥

त्वामहं सत्यमिच्छामि नानृतं पुरुषर्षभ ।

प्रत्यक्षं तव सत्येन सुकृतेन च ते शपे ॥ ४८ ॥

न च शक्यं मया तात स्थातुं क्षणमपि प्रभो ।

स शोकं धारयस्वेमं न हि मेऽस्ति विपर्ययः ॥ ४९ ॥

अर्थितो ह्यस्मि कैकेय्या वनं गच्छेति राघव ।

मया चोक्तं व्रजामीति तत्सत्यमनुपालये ॥ ५० ॥

मा चोत्कण्ठां कृथा देव वने रंस्यामहे वयम् ।

प्रशान्तहरिणाकीर्णे नानाशकुनिनादिते ॥ ५१ ॥

पिता हि दैवतं तात देवतानामपि स्मृतम् ।

तस्माद्दैवतमित्येव करिष्यामि पितुर्वचः ॥ ५२ ॥

चतुर्दशसु वर्षेषु गतेषु नरसत्तम ।

पुनर्द्रक्ष्यसि मां प्राप्तं सन्तापोऽयं विमुच्यताम् ॥ ५३ ॥

येन संस्तम्भनीयोऽयं सर्वो बाष्पगलो जनः ।

स त्वं पुरुषशार्दूल किमर्थं विक्रियां गतः ॥ ५४ ॥

पुरं च राष्ट्रं च मही च केवला

मया निसृष्टा भरताय दीयताम् ।

अहं निदेशं भवतोऽनुपालय-

-न्वनं गमिष्यामि चिराय सेवितुम् ॥ ५५ ॥

मया निसृष्टां भरतो महीमिमां

सशैलषण्डां सपुरां सकाननाम् ।

शिवां सुसीमामनुशास्तु केवलं

त्वया यदुक्तं नृपते तथाऽस्तु तत् ॥ ५६ ॥

न मे तथा पार्थिव धीयते मनो

महत्सु कामेषु न चात्मनः प्रिये ।

यथा निदेशे तव शिष्टसम्मते

व्यपैतु दुःखं तव मत्कृतेऽनघ ॥ ५७ ॥

तदद्य नैवानघ राज्यमव्ययं

न सर्वकामान्न सुखं न मैथिलीम् ।

न जीवितं त्वामनृतेन योजय-

-न्वृणीय सत्यं व्रतमस्तु ते तथा ॥ ५८ ॥

फलानि मूलानि च भक्षयन्वने

गिरींश्च पश्यन्सरितः सरांसि च ।

वनं प्रविश्यैव विचित्रपादपं

सुखी भविष्यामि तवास्तु निर्वृतिः ॥ ५९ ॥

एवं स राजा व्यसनाभिपन्नः

शोकेन दुःखेन च ताम्यमानः ।

आलिङ्ग्य पुत्रं सुविनष्टसञ्ज्ञो

मोहं गतो नैव चिचेष्ट किञ्चित् ॥ ६० ॥

देव्यस्ततः संरुरुदुः समेता-

-स्तां वर्जयित्वा नरदेवपत्नीम् ।

रुदन्सुमन्त्रोऽपि जगाम मूर्छां

हाहाकृतं तत्र बभूव सर्वम् ॥ ६१ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे चतुस्त्रिंशः सर्गः ॥ ३४ ॥

valmiki ramayan ayodhyakand adhyay 34