Skip to main content
पडताळणी प्रलंबित

अयोध्याकाण्ड चतुरशीतितमः

॥ गुहागमनम् ॥

ततर्निविष्टां ध्वजिनीं गङ्गामन्वाश्रितां नदीम् ।

निषादराजो दृष्ट्वैव ज्ञातीन् सन्त्वरितोऽब्रवीत् ॥ १ ॥

महतीयमितः सेना सागराभा प्रदृश्यते ।

नास्यान्तमधिगच्छामि मनसापि विचिन्तयन् ॥ २ ॥

यथा तु खलु दुर्बुद्धिर्भरतः स्वयमागतः ।

स एष हि महाकायः कोविदारध्वजो रथे ॥ ३ ॥

बन्धयिष्यति वा दाशान् अथवाऽस्मान् वधिष्यति ।

अथ दाशरथिं रामं पित्रा राज्याद्विवासितम् ॥ ४ ॥

सम्पन्नां श्रियमन्विच्चन् तस्य राज्ञः सुदुर्लभाम् ।

भरतः कैकेयीपुत्रः हन्तुं समधिगच्छति ॥ ५ ॥

भर्ता चैव सखा चैव रामर्दाशरथिर्मम ।

तस्यार्थकामाः सन्नद्धा गङ्गाऽनूपे प्रतिष्ठत ॥ ६ ॥

तिष्ठन्तु सर्व दाशाश्च गङ्गामन्वाश्रिता नदीम् ।

बलयुक्ता नदीरक्षा मांसमूलफलाशनाः ॥ ७ ॥

नावां शतानां पञ्चानां कैवर्तानां शतं शतम् ।

सन्नद्धानां तथा यूनां तिष्ठन्त्वित्यभ्यचोदयत् ॥ ८ ॥

यदा तुष्टस्तु भरतः रामस्येह भविष्यति ।

सेयं स्वस्तिमती सेना गङ्गामद्य तरिष्यति ॥ ९ ॥

इत्युक्त्वोपायनं गृह्य मत्स्यमांसमधूनि च ।

अभिचक्राम भरतं निषादाधिपतिर्गुहः ॥ १० ॥

तमायान्तं तु सम्प्रेक्ष्य सूतपुत्रः प्रतापवान् ।

भरतायाऽचचक्षेऽथ विनयज्ञो विनीतवत् ॥ ११ ॥

एष ज्ञातिसहस्रेण स्थपतिः परिवारितः ।

कुशलो दण्डकारण्ये वृद्धो भ्रातुश्च ते सखा ॥ १२ ॥

असंशयं विजानीते यत्र तौ रामलक्ष्मणौ ॥ १३ ॥

एतत्तु वचनं श्रुत्वा सुमन्त्राद्भरतः शुभम् ।

लब्ध्वाऽभ्यनुज्ञां संहृष्टः ज्ञातिभिः परिवारितः ।

आगम्य भरतं प्रह्वो गुहो वचनमब्रवीत् ॥ १५ ॥

निष्कुटश्चैव देशोऽयं वञ्चिताश्चापि ते वयम् ।

निवेदयामस्ते सर्वे स्वके दासकुले वस ॥ १६ ॥

अस्ति मूलं फलं चैव निषादैः समुपाहृतम् ।

आर्द्रं च मांसं शुष्कं च वन्यं चोच्चावचं महत् ॥ १७ ॥

आशंसे स्वाशिता सेना वत्स्यतीमां विभावरीम् ।

अर्चितः विविधैः कामैः श्वस्ससैन्यो गमिष्यसि ॥ १८ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे चतुरशीतितमः सर्गः ॥ ८४ ॥

valmiki ramayan ayodhyakand adhyay 84