Skip to main content
पडताळणी प्रलंबित

अयोध्याकाण्ड सप्ताशीतितमः

॥ रामशयनादिप्रश्नः ॥

गुहस्य वचनं श्रुत्वा भरतो भृशमप्रियम् ।

ध्यानम् जगाम तत्रैव यत्र तच्छ्रुतमप्रियम् ॥ १ ॥

सुकुमारो महासत्त्वः सिंहस्कन्धो महाभुजः ।

पुण्डरीकविशालाक्षस्तरुणः प्रियदर्शनः ॥ २ ॥

प्रत्याश्वस्य मुहूर्तं तु कालं परमदुर्मनाः ।

पपात सहसा तोत्रैः ह्यतिविद्ध इव द्विपः ॥ ३ ॥

तदवस्थं तु भरतं शत्रुघ्नोऽनन्तर स्थितः ।

परिष्वज्य रुरोदोच्चैर्विसञ्ज्ञः शोककर्शितः ॥ ५ ॥

ततः सर्वाः समापेतुर्मातरो भरतस्य ताः ।

उपवासकृशा दीना भर्तुर्व्यसनकर्शिताः ॥ ६ ॥

ताश्च तं पतितं भूमौ रुदन्त्यः पर्यवारयन् ।

कौसल्या त्वनुसृत्यैनं दुर्मनाः परिषस्वजे ॥ ७ ॥

वत्सला स्वं यथा वत्समुपगूह्य तपस्विनी ।

परिपप्रच्छ भरतं रुदन्ती शोकलालसा ॥ ८ ॥

पुत्र व्याधिर्न ते कच्चित् शरीरं परिबाधते ।

अद्य राजकुलस्यास्य त्वदधीनं हि जीवितम् ॥ ९ ॥

त्वां दृष्ट्वा पुत्र जीवामि रामे सभ्रातृके गते ।

वृत्ते दशरथे राज्ञि नाथैकस्त्वमद्य नः ॥ १० ॥

कच्चिन्नु लक्ष्मणे पुत्र श्रुतं ते किञ्चिदप्रियम् ।

पुत्रे वा ह्येकपुत्रायाः सहभार्ये वनं गते ॥ ११ ॥

स मुहूर्तं समाश्वस्य रुदन्नेव महायशाः ।

कौसल्यां परिसान्त्वेदं गुहं वचनमब्रवीत् ॥ १२ ॥

भ्राता मे क्वावसद्रात्रौ क्व सीता क्व च लक्ष्मणः ।

अस्वपच्छयने कस्मिन् किं भुक्त्वा गुह शंस मे ॥ १३ ॥

सोऽब्रवीद्भरतं हृष्टो निषादाधिपतिर्गुहः ।

यद्विधं प्रतिपेदे च रामे प्रियहितेऽतिथौ ॥ १४ ॥

अन्नमुच्चावचं भक्षाः फलानि विविधानि च ।

रामायाभ्यवहारार्थं बहु चोपहृतं मया ॥ १५ ॥

तत्सर्वं प्रत्यनुज्ञासीद्रामः सत्य पराक्रमः ।

न तु तत्प्रत्यगृह्णात्स क्षत्र धर्ममनुस्मरन् ॥ १६ ॥

न ह्यस्माभिः प्रतिग्राह्यं सखे देयं तु सर्वदा ।

इति तेन वयं राजन् अनुनीता महात्मना ॥ १७ ॥

लक्ष्मणेन समानीतं पीत्वा वारि महायशाः ।

औपवास्यं तदाऽकार्षीद्राघवः सह सीतया ॥ १८ ॥

ततस्तु जलशेषेण लक्ष्मणोऽप्यकरोत्तदा ।

वाग्यतास्ते त्रयः सन्ध्यां समुपासत संहिताः ॥ १९ ॥

सौमित्रिस्तु ततः पश्चादकरोत्स्वास्तरं शुभम् ।

स्वयमानीय बर्हींषि क्षिप्रं राघवकारणात् ॥ २० ॥

तस्मिन् समाविशद्रामः स्वास्तरे सह सीतया ।

प्रक्षाल्य च तयोः पादौ अपचक्राम लक्ष्मणः ॥ २१ ॥

एतत्तदिङ्गुदीमूलमिदमेव च तत्तृणम् ।

यस्मिन् रामश्च सीता च रात्रिं तां शयितावुभौ ॥ २२ ॥

नियम्य पृष्ठे तु तलाङ्गुलित्रवान्

शरैः सुपूर्णाविषुधी परन्तपः ।

महद्धनुः सज्यमुपोह्य लक्ष्मणो

निशामतिष्ठत्परितोऽस्य केवलम् ॥ २३ ॥

ततस्त्वहं चोत्तमबाण चापधृत्

स्थितोऽभवं तत्र स यत्र लक्ष्मणः ।

अतन्द्रिभिर्ज्ञातिभिरात्त कार्मुकैः

महेन्द्रकल्पं परिपालयंस्तदा ॥ २४ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे सप्ताशीतितमः सर्गः ॥ ८७ ॥

valmiki ramayan ayodhyakand adhyay 87