Skip to main content
पडताळणी प्रलंबित

अयोध्याकाण्ड षडधिकशततमः

॥ भरतवचनम् ॥

एवमुक्त्वा तु विरते रामे वचनमर्थवत् ।

ततो मन्दाकिनी तीरे रामं प्रकृतिवत्सलम् ।

उवाच भरतश्चित्रं धार्मिको धार्मिकं वचः ॥ १ ॥

को हि स्यादीदृशो लोके यादृशस्त्वमरिन्दम ।

न त्वां प्रव्यथयेद्दुःखं प्रीतिर्वा न प्रहर्षयेत् ॥ २ ॥

सम्मतश्चासि वृद्धानां तांश्च पृच्छसि संशयान् ।

यथा मृतस्तथा जीवन् यथाऽसति तथा सति ॥ ३ ॥

यस्यैष बुद्धिलाभः स्यात्परितप्येत केन सः ।

परावरज्ञो यश्च स्यात्तथा त्वं मनुजाधिप ॥ ४ ॥

सैवं व्यसनं प्राप्य न विषीदितुमर्हति ।

अमरोपम सत्त्वस्त्वं महात्मा सत्यसङ्गरः ॥ ५ ॥

सर्वज्ञः सर्वदर्शी च बुद्धिमांश्चासि राघव ।

न त्वामेवङ्गुणैर्युक्तं प्रभवाभवकोविदम् ॥ ६ ॥

अविषह्यतमं दुःखमासादयितुमर्हति ।

प्रोषिते मयि यत्पापं मात्रा मत्कारणात्कृतम् ॥ ७ ॥

क्षुद्रया तदनिष्टं मे प्रसीदतु भवान्मम ।

धर्मबन्धेन बद्धोऽस्मि तेनेमां नेह मातरम् ॥ ८ ॥

हन्मि तीव्रेण दण्डेन दण्डार्हां पापकारिणीम् ।

कथं दशरथाज्जातः शुद्धाभिजनकर्मणः ॥ ९ ॥

जानन् धर्ममधर्मिष्ठं कुर्यां कर्म जुगुप्सितम् ।

गुरुः क्रियावान् वृद्धश्च राजा प्रेतः पितेति च ॥ १० ॥

तातं न परिगर्हेयं दैवतं चेति संसदि ।

को हि धर्मार्थयोर्हीनमीदृशं कर्म किल्बिषम् ॥ ११ ॥

स्त्रियाः प्रियं चिकीर्षुः सन् कुर्याद्धर्मज्ञ धर्मवित् ।

अन्तकाले हि भूतानि मुह्यन्तीति पुराश्रुतिः ॥ १२ ॥

राज्ञैवं कुर्वता लोके प्रत्यक्षं सा श्रुतिः कृता ।

साध्वर्थमभिसन्धाय क्रोधान्मोहाच्च साहसात् ॥ १३ ॥

तातस्य यदतिक्रान्तं प्रत्याहरतु तद्भवान् ।

पितुर्हि यदतिक्रान्तं पुत्रो यस्साधु मन्यते ॥ १४ ॥

तदपत्यं मतं लोके विपरीतमतोऽन्यथा ।

अभिपत्ता कृतं कर्म लोके धीरविगर्हितम् ॥ १५ ॥

कैकेयीं मां च तातं च सुहृदो बान्धवांश्च नः ।

पौरजानपदान् सर्वांस्त्रातु सर्वमिदं भवान् ॥ १६ ॥

क्व चारण्यं क्व च क्षात्त्रं क्व जटाः क्व च पालनम् ।

ईदृशं व्याहतं कर्म न भवान् कर्तुमर्हति ॥ १७ ॥

एष हि प्रथमो धर्मः क्षत्रियस्याभिषेचनम् ।

येन शक्यं महाप्राज्ञ प्रजानां परिपालनम् ॥ १८ ॥

कश्च प्रत्यक्षमुत्सृज्य संशयस्थमलक्षणम् ।

आयतिस्थं चरेद्धर्मं क्षत्त्रबन्धुरनिश्चितम् ॥ १९ ॥

अथ क्लेशजमेव त्वं धर्मं चरितुमिच्छसि ।

धर्मेण चतुरो वर्णान् पालयन् क्लेशमाप्नुहि ॥ २० ॥

चतुर्णामाश्रमाणां हि गार्हस्थ्यं श्रेष्ठमाश्रमम् ।

प्राहुर्धर्मज्ञ धर्मज्ञास्तं कथं त्यक्तुमर्हसि ॥ २१ ॥

श्रुतेन बालः स्थानेन जन्मना भवतो ह्यहम् ।

स कथं पालयिष्यामि भूमिं भवति तिष्ठति ॥ २२ ॥

हीनबुद्धिगुणो बालो हीनः स्थानेन चाप्यहम् ।

भवता च विनाभूतो न वर्तयितुमुत्सहे ॥ २३ ॥

इदं निखिलमव्यग्रं राज्यं पित्र्यमकण्टकम् ।

अनुशाधि स्वधर्मेण धर्मज्ञ सह बान्धवैः ॥ २४ ॥

इहैव त्वाऽभिषिञ्चन्तु सर्वाः प्रकृतयः सह ।

ऋत्विजः सवसिष्ठाश्च मन्त्रवन्मन्त्रकोविदाः ॥ २५ ॥

अभिषिक्तस्त्वमस्माभिरयोध्यां पालने व्रज ।

विजित्य तरसा लोकान् मरुद्भिरिव वासवः ॥ २६ ॥

ऋणानि त्रीण्यपाकुर्वन् दुर्हृदः साधु निर्दहन् ।

सुहृदस्तर्पयन् कामैस्त्वमेवात्रानुशाधि माम् ॥ २७ ॥

अद्यार्य मुदिताः सन्तु सुहृदस्तेऽभिषेचने ।

अद्य भीताः पलायन्तां दुर्हृदस्ते दिशो दश ॥ २८ ॥

आक्रोशं मम मातुश्च प्रमृज्य पुरुषर्षभ ।

अद्य तत्रभवन्तं च पितरं रक्ष किल्बिषात् ॥ २९ ॥

शिरसा त्वाऽभियाचेऽहं कुरुष्व करुणां मयि ।

बान्धवेषु च सर्वेषु भूतेष्विव महेश्वरः ॥ ३० ॥

अथैतत् पृष्ठतः कृत्वा वनमेव भवानितः ।

गमिष्यति गमिष्यामि भवता सार्धमप्यहम् ॥ ३१ ॥

तथा हि रामो भरतेन ताम्यता

प्रसाद्यमानः शिरसा महीपतिः ।

न चैव चक्रे गमनाय सत्त्ववान्

मतिं पितुस्तद्वचने व्यवस्थितः ॥ ३२ ॥

तदद्भुतं स्थैर्यमवेक्ष्य राघवे

समं जनो हर्षमवाप दुःखितः ।

न यात्ययोध्यामिति दुःखितोऽभवत्

स्थिरप्रतिज्ञत्वमवेक्ष्य हर्षितः ॥ ३३ ॥

तमृत्विजो नैगमयूथवल्लभाः

तदा विसञ्ज्ञाश्रुकलाश्च मातरः ।

तथा ब्रुवाणं भरतं प्रतुष्टुवुः

प्रणम्य रामं च ययाचिरे सह ॥ ३५ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे षडुत्तरशततमः सर्गः ॥ १०६ ॥

valmiki ramayan ayodhyakand adhyay 106