Skip to main content
पडताळणी प्रलंबित

अयोध्याकाण्ड अष्टाविंशः

॥ वनदुःखप्रतिबोधनम् ॥

स एवं ब्रुवतीं सीतां धर्मज्ञो धर्मवत्सलः ।

न नेतुं कुरुते बुद्धिं वने दुःखानि चिन्तयन् ॥ १ ॥

सान्त्वयित्वा पुनस्तां तु बाष्पपर्याकुलेक्षणाम् ।

निवर्तनार्थे धर्मात्मा वाक्यमेतदुवाच ह ॥ २ ॥

सीते महाकुलीनाऽसि धर्मे च निरता सदा ।

इहाचर स्वधर्मं त्वं मा यथा मनसः सुखम् ॥ ३ ॥

सीते यथा त्वां वक्ष्यामि तथा कार्यं त्वयाऽबले ।

वने दोषा हि बहवो वदतस्तान्निबोध मे ॥ ४ ॥

सीते विमुच्यतामेषा वनवासकृता मतिः ।

बहुदोषं हि कान्तारं वनमित्यभिधीयते ॥ ५ ॥

हितबुद्ध्या खलु वचो मयैतदभिधीयते ।

सदा सुखं न जानामि दुःखमेव सदा वनम् ॥ ६ ॥

गिरिनिर्झरसम्भूता गिरिकन्दरवासिनाम् ।

सिंहानां निनदा दुःखाः श्रोतुं दुःखमतो वनम् ॥ ७ ॥

क्रीडमानाश्च विस्रब्धा मत्ताः शून्ये महामृगाः ।

दृष्ट्वा समभिवर्तन्ते सीते दुःखमतो वनम् ॥ ८ ॥

सग्राहाः सरितश्चैव पङ्कवत्यश्च दुस्तराः ।

मत्तैरपि गजैर्नित्यमतो दुःखतरं वनम् ॥ ९ ॥

लताकण्टकसङ्कीर्णाः कृकवाकूपनादिताः ।

निरपाश्च सुदुर्गाश्च मार्गा दुःखमतो वनम् ॥ १० ॥

सुप्यते पर्णशय्यासु स्वयं भग्नासु भूतले ।

रात्रिषु श्रमखिन्नेन तस्माद्दुःखतरं वनम् ॥ ११ ॥

अहोरात्रं च सन्तोषः कर्तव्यो नियतात्मना ।

फलैर्वृक्षावपतितैः सीते दुःखमतो वनम् ॥ १२ ॥

उपवासश्च कर्तव्यो यथाप्राणेन मैथिलि ।

जटाभारश्च कर्तव्यो वल्कलाम्बरधारिणा ॥ १३ ॥

देवतानां पितृणां च कर्तव्यं विधिपूर्वकम् ।

प्राप्तानामतिथीनां च नित्यशः प्रतिपूजनम् ॥ १४ ॥

कार्यस्त्रिरभिषेकश्च काले काले च नित्यशः ।

चरता नियमेनैव तस्माद्दुःखतरं वनम् ॥ १५ ॥

उपहारश्च कर्तव्यः कुसुमैः स्वयमाहृतैः ।

आर्षेण विधिना वेद्यां बाले दुःखमतो वनम् ॥ १६ ॥

यथालब्धेन सन्तोषः कर्तव्यस्तेन मैथिलि ।

यताहारैर्वनचरैर्नित्यं दुःखमतो वनम् ॥ १७ ॥

अतीव वातास्तिमिरं बुभुक्षा चात्र नित्यशः ।

भयानि च महान्त्यत्र ततो दुःखतरं वनम् ॥ १८ ॥

सरीसृपाश्च बहवो बहुरूपाश्च भामिनि ।

चरन्ति पृथिवीं दर्पात्ततो दुःखतरं वनम् ॥ १९ ॥

नदीनिलयनाः सर्पा नदीकुटिलगामिनः ।

तिष्ठन्त्यावृत्य पन्थानं ततो दुःखतरं वनम् ॥ २० ॥

पतङ्गा वृश्चिकाः कीटा दंशाश्च मशकैः सह ।

बाधन्ते नित्यमबले तस्माद्दुःखतरं वनम् ॥ २१ ॥

द्रुमाः कण्टकिनश्चैव कुशकाशाश्च भामिनि ।

वने व्याकुलशाखाग्रास्तेन दुःखतरं वनम् ॥ २२ ॥

कायक्लेशाश्च बहवो भयानि विविधानि च ।

अरण्यवासे वसतो दुःखमेव ततो वनम् ॥ २३ ॥

क्रोधलोभौ विमोक्तव्यौ कर्तव्या तपसे मतिः ।

न भेतव्यं च भेतव्ये नित्यं दुःखमतो वनम् ॥ २४ ॥

तदलं ते वनं गत्वा क्षमं न हि वनं तव ।

विमृशन्निह पश्यामि बहुदोषतरं वनम् ॥ २५ ॥

वनं तु नेतुं न कृता मतिस्तदा

बभूव रामेण यदा महात्मना ।

न तस्य सीता वचनं चकार त-

-त्ततोऽब्रवीद्राममिदं सुदुःखिता ॥ २६ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे अष्टाविंशः सर्गः ॥ २८ ॥

valmiki ramayan ayodhyakand adhyay 28