Skip to main content
पडताळणी प्रलंबित

अयोध्याकाण्ड द्वितीयः

॥ परिषदनुमोदनम् ॥

ततः परिषदं सर्वामामन्त्र्य वसुधाधिपः ।

हितमुद्धर्षणं चैवमुवाच प्रथितं वचः ॥ १ ॥

दुन्दुभिस्वनकल्पेन गम्भीरेणानुनादिना ।

स्वरेण महता राजा जीमूत इव नादयन् ॥ २ ॥

राजलक्षणयुक्तेन कान्तेनानुपमेन च ।

उवाच रसयुक्तेन स्वरेण नृपतिर्नृपान् ॥ ३ ॥

विदितं भवतामेतद्यथा मे राज्यमुत्तमम् ।

पूर्वकैर्मम राजेन्द्रैः सुतवत्परिपालितम् ॥ ४ ॥

[* सोऽहमिक्ष्वाकुभिः सर्वैर्नरेन्द्रैः परिपालितम् । *]

श्रेयसा योक्तुकामोऽस्मि सुखार्हमखिलं जगत् ।

मयाऽप्याचरितं पूर्वैः पन्थानमनुगच्छता ॥ ५ ॥

प्रजा नित्यमनिद्रेण यथाशक्त्यभिरक्षिताः ।

इदं शरीरं कृत्स्नस्य लोकस्य चरता हितम् ॥ ६ ॥

पाण्डुरस्यातपत्रस्य च्छायायां जरितं मया ।

प्राप्य वर्षसहस्राणि बहून्यायूंषि जीवतः ॥ ७ ॥

जीर्णस्यास्य शरीरस्य विश्रान्तिमभिरोचये ।

राजप्रभावजुष्टां हि दुर्वहामजितेन्द्रियैः ॥ ८ ॥

परिश्रान्तोऽस्मि लोकस्य गुर्वीं धर्मधुरं वहन् ।

सोऽहं विश्रममिच्छामि रामं कृत्वा प्रजाहिते ॥ ९ ॥ [पुत्रं]

सन्निकृष्टानिमान्सर्वाननुमान्य द्विजर्षभान् ।

अनुजातो हि मां सर्वैर्गुणैर्ज्येष्ठो ममात्मजः ॥ १० ॥

पुरन्दरसमो वीर्ये रामः परपुरञ्जयः ।

तं चन्द्रमिव पुष्येण युक्तं धर्मभृतां वरम् ॥ ११ ॥

यौवराज्ये नियोक्तास्मि प्रीतः पुरुषपुङ्गवम् ।

अनुरूपः स वै नाथो लक्ष्मीवाँल्लक्ष्मणाग्रजः ॥ १२ ॥

त्रैलोक्यमपि नाथेन येन स्यान्नाथवत्तरम् ।

अनेन श्रेयसा सद्यः सम्योक्ष्ये तामिमां महीम् ॥ १३ ॥ [सम्योज्यैवमिमां]

गतक्लेशो भविष्यामि सुते तस्मिन्निवेश्य वै ।

यदीदं मेऽनुरूपार्थं मया साधु सुमन्त्रितम् ॥ १४ ॥

भवन्तो मेऽनुमन्यन्तां कथं वा करवाण्यहम् ।

यद्यप्येषा मम प्रीतिर्हितमन्यद्विचिन्त्यताम् ॥ १५ ॥

अन्या मध्यस्थचिन्ता हि विमर्दाभ्यधिकोदया ।

इति ब्रुवन्तं मुदिताः प्रत्यनन्दन्नृपा नृपम् ॥ १६ ॥

वृष्टिमन्तं महामेघं नर्दन्त इव बर्हिणः ।

स्निग्धोऽनुनादी सञ्जज्ञे तत्र हर्षसमीरितः ॥ १७ ॥

जनौघोद्घुष्टसन्नादो विमानं कम्पयन्निव ।

तस्य धर्मार्थविदुषो भावमाज्ञाय सर्वशः ॥ १८ ॥

ब्राह्मणा जनमुख्याश्च पौरजानपदैः सह ।

समेत्य मन्त्रयित्वा तु समतागतबुद्धयः ॥ १९ ॥

ऊचुश्च मनसा ज्ञात्वा वृद्धं दशरथं नृपम् ।

अनेकवर्षसाहस्रो वृद्धस्त्वमसि पार्थिव ॥ २० ॥

स रामं युवराजानमभिषिञ्चस्व पार्थिवम् ।

इच्छामो हि महाबाहुं रघुवीरं महाबलम् ॥ २१ ॥

गजेन महताऽऽयान्तं रामं छत्रावृताननम् ।

इति तद्वचनं श्रुत्वा राजा तेषां मनःप्रियम् ॥ २२ ॥

अजानन्निव जिज्ञासुरिदं वचनमब्रवीत् ।

श्रुत्वैव वचनं यन्मे राघवं पतिमिच्छथ ॥ २३ ॥

राजानः संशयोऽयं मे किमिदं ब्रूत तत्त्वतः ।

कथं नु मयि धर्मेण पृथिवीमनुशासति ॥ २४ ॥

भवन्तो द्रष्टुमिच्छन्ति युवराजं ममात्मजम् ।

ते तमूचुर्महात्मानं पौरजानपदैः सह ॥ २५ ॥

बहवो नृप कल्याणा गुणाः पुत्रस्य सन्ति ते ।

गुणान्गुणवतो देव देवकल्पस्य धीमतः ॥ २६ ॥

प्रियानानन्दनान्कृत्स्नान्प्रवक्ष्यामोऽद्य तान् शृणु ।

दिव्यैर्गुणैः शक्रसमो रामः सत्यपराक्रमः ॥ २७ ॥

इक्ष्वाकुभ्योऽपि सर्वेभ्यो ह्यतिरिक्तो विशाम्पते ।

रामः सत्पुरुषो लोके सत्यधर्मपरायणः ॥ २८ ॥

साक्षाद्रामाद्विनिर्वृत्तो धर्मश्चापि श्रिया सह ।

प्रजासुखत्वे चन्द्रस्य वसुधायाः क्षमागुणैः ॥ २९ ॥

बुद्ध्या बृहस्पतेस्तुल्यो वीर्ये साक्षाच्छचीपतेः ।

धर्मज्ञः सत्यसन्धश्च शीलवाननसूयकः ॥ ३० ॥

क्षान्तः सान्त्वयिता श्लक्ष्णः कृतज्ञो विजितेन्द्रियः ।

मृदुश्च स्थिरचित्तश्च सदा भव्योऽनसूयकः ॥ ३१ ॥

प्रियवादी च भूतानां सत्यवादी च राघवः ।

बहुश्रुतानां वृद्धानां ब्राह्मणानामुपासिता ॥ ३२ ॥

तेनास्येहातुला कीर्तिर्यशस्तेजश्च वर्धते ।

देवासुरमनुष्याणां सर्वास्त्रेषु विशारदः ॥ ३३ ॥

सर्वविद्याव्रतस्नातो यथावत्साङ्गवेदवित् । [सम्यक्]

गान्धर्वे च भुवि श्रेष्ठो बभूव भरताग्रजः ॥ ३४ ॥

कल्याणाभिजनः साधुरदीनात्मा महामतिः ।

द्विजैरभिविनीतश्च श्रेष्ठैर्धर्मार्थदर्शिभिः ॥ ३५ ॥ [नैपुणैः]

यदा व्रजति सङ्ग्रामं ग्रामार्थे नगरस्य वा ।

गत्वा सौमित्रिसहितो नाविजित्य निवर्तते ॥ ३६ ॥

सङ्ग्रामात्पुनरागम्य कुञ्जरेण रथेन वा ।

पौरान्स्वजनवन्नित्यं कुशलं परिपृच्छति ॥ ३७ ॥

पुत्रेष्वग्निषु दारेषु प्रेष्यशिष्यगणेषु च ।

निखिलेनानुपूर्व्याच्च पिता पुत्रानिवौरसान् ॥ ३८ ॥

शुश्रूषन्ते च वः शिष्याः कच्चित्कर्मसु दंशिताः ।

इति नः पुरुषव्याघ्रः सदा रामोऽभिभाषते ॥ ३९ ॥

व्यसनेषु मनुष्याणां भृशं भवति दुःखितः ।

उत्सवेषु च सर्वेषु पितेव परितुष्यति ॥ ४० ॥

सत्यवादी महेष्वासो वृद्धसेवी जितेन्द्रियः ।

स्मितपूर्वाभिभाषी च धर्मं सर्वात्मना श्रितः ॥ ४१ ॥

सम्यग्योक्ता श्रेयसां च न विग्रहकथारुचिः । [विगृह्य]

उत्तरोत्तरयुक्तौ च वक्ता वाचस्पतिर्यथा ॥ ४२ ॥

सुभ्रूरायतताम्राक्षः साक्षाद्विष्णुरिव स्वयम् ।

रामो लोकाभिरामोऽयं शौर्यवीर्यपराक्रमैः ॥ ४३ ॥

प्रजापालनसम्युक्तो न रागोपहतेन्द्रियः । [तत्त्वज्ञः]

शक्तस्त्रैलोक्यमप्येको भोक्तुं किं नु महीमिमाम् ॥ ४४ ॥

नास्य क्रोधः प्रसादश्च निरर्थोऽस्ति कदाचन ।

हन्त्येव नियमाद्वध्यानवध्ये न च कुप्यति ॥ ४५ ॥

युनक्त्यर्थैः प्रहृष्टश्च तमसौ यत्र तुष्यति ।

दान्तैः सर्वप्रजाकान्तैः प्रीतिसञ्जननैर्नृणाम् ॥ ४६ ॥ [शान्तैः]

गुणैर्विरुरुचे रामो दीप्तः सूर्य इवांशुभिः ।

तमेवं‍गुणसम्पन्नं रामं सत्यपराक्रमम् ॥ ४७ ॥

लोकपालोपमं नाथमकामयत मेदिनी ।

वत्सः श्रेयसि जातस्ते दिष्ट्यासौ तव राघव ॥ ४८ ॥

दिष्ट्या पुत्रगुणैर्युक्तो मारीच इव काश्यपः ।

बलमारोग्यमायुश्च रामस्य विदितात्मनः ॥ ४९ ॥

देवासुरमनुष्येषु गन्धर्वेषूरगेषु च ।

आशंसन्ते जनः सर्वो राष्ट्रे पुरवरे तथा ॥ ५० ॥

आभ्यन्तरश्च बाह्यश्च पौरजानपदो जनः ।

स्त्रियो वृद्धास्तरुण्यश्च सायं प्रातः समाहिताः ॥ ५१ ॥

सर्वान्देवान्नमस्यन्ति रामस्यार्थे यशस्विनः ।

तेषामायाचितं देव त्वत्प्रसादात्समृद्ध्यताम् ॥ ५२ ॥

राममिन्दीवरश्यामं सर्वशत्रुनिबर्हणम् ।

पश्यामो यौवराज्यस्थं तव राजोत्तमात्मजम् ॥ ५३ ॥

तं देवदेवोपममात्मजं ते

सर्वस्य लोकस्य हिते निविष्टम् ।

हिताय नः क्षिप्रमुदारजुष्टं

मुदाऽभिषेक्तुं वरद त्वमर्हसि ॥ ५४ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे द्वितीय सर्गः ॥ २ ॥

valmiki ramayan ayodhyakand adhyay 2