Skip to main content
पडताळणी प्रलंबित

अयोध्याकाण्ड सप्तचत्वारिंशः

॥ पौरनिवृत्तिः ॥

प्रभातायां तु शर्वर्यां पौरास्ते राघवं विना ।

शोकोपहतनिश्चेष्टा बभूवुर्हतचेतसः ॥ १ ॥

शोकजाश्रुपरिद्यूना वीक्षमाणास्ततस्ततः ।

आलोकमपि रामस्य न पश्यन्ति स्म दुःखिताः ॥ २ ॥

ते विषादार्तवदनाः रहितास्तेन धीमता ।

कृपणाः करुणा वाचो वदन्ति स्म मनस्विनः ॥ ३ ॥

धिगस्तु खलु निद्रां तां ययाऽपहृतचेतसः ।

नाद्य पश्यामहे रामं पृथूरस्कं महाभुजम् ॥ ४ ॥

कथं नाम महाबाहुः स तथाऽवितथक्रियः ।

भक्तं जनं परित्यज्य प्रवासं राघवो गतः ॥ ५ ॥

यो नः सदा पालयति पिता पुत्रानिवौरसान् ।

कथं रघूणां स श्रेष्ठस्त्यक्त्वा नो विपिनं गतः ॥ ६ ॥

इहैव निधनं यामो महाप्रस्थानमेव वा ।

रामेण रहितानां हि किमर्थं जीवितं हि नः ॥ ७ ॥

सन्ति शुष्काणि काष्ठानि प्रभूतानि महान्ति च ।

तैः प्रज्वाल्य चितां सर्वे प्रविशामोऽथ पावकम् ॥ ८ ॥

किं वक्ष्यामो महाबाहुरनसूयः प्रियंवदः ।

नीतः स राघवोऽस्माभिरिति वक्तुं कथं क्षमम् ॥ ९ ॥

सा नूनं नगरी दीना दृष्ट्वाऽस्मान्राघवं विना ।

भविष्यति निरानन्दा सस्त्रीबालवयोऽधिका ॥ १० ॥

निर्यातास्तेन वीरेण सह नित्यं जितात्मना ।

विहिनास्तेन च पुनः कथं पश्याम तां पुरीम् ॥ ११ ॥

इतीव बहुधा वाचो बाहुमुद्यम्य ते जनाः ।

विलपन्ति स्म दुःखर्ता विवत्सा इव धेनवः ॥ १२ ॥

ततः मार्गानुसारेण गत्वा किञ्चित् क्षणं पुनः

मार्गनाशाद्विषादेन महता समभिप्लुताः ॥ १३ ॥

रथस्य मार्गनाशेन न्यवर्तन्त मनस्विनः ।

किमिदं किं करिष्यामो दैवेनोपहता इति ॥ १४ ॥

ततः यथागतेनैव मार्गेण क्लान्तचेतसः ।

अयोध्यामगमन्सर्वे पुरीं व्यथितसज्जनाम् ॥ १५ ॥

आलोक्य नगरीं तां च क्षयव्याकुलमानसाः ।

आवर्तयन्त तेऽश्रूणि नयनैः शोकपीडितैः ॥ १६ ॥

एषा रामेण नगरी रहिता नातिशोभते ।

आपगा गरुडेनेव ह्रदादुद्धृतपन्नगा ॥ १७ ॥

चन्द्रहीनमिवाकाशं तोयहीनमिवार्णवम् ।

अपश्यन्निहतानन्दं नगरं ते विचेतसः ॥ १८ ॥

ते तानि वेश्मानि महाधनानि

दुःखेन दुःखोपहता विशन्तः ।

नैव प्रजज्ञुः स्वजनं जनं वा

निरीक्षमाणाः प्रविनष्टहर्षाः ॥ १९ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे सप्तचत्वारिंशः सर्गः ॥ ४७ ॥

valmiki ramayan ayodhyakand adhyay 47