Skip to main content
पडताळणी प्रलंबित

अयोध्याकाण्ड एकत्रिंशः

॥ लक्ष्मणवनानुगमनभ्यनुज्ञा ॥

एवं श्रुत्वा तु संवादं लक्ष्मणः पूर्वमागतः ।

बाष्पपर्याकुलमुखः शोकं सोढुमशक्नुवन् ॥ १ ॥

स भ्रातुश्चरणौ गाढं निपीड्य रघुनन्दनः ।

सीतामुवाचातियशा राघवं च महाव्रतम् ॥ २ ॥

यदि गन्तुं कृता बुद्धिर्वनं मृगगजायुतम् ।

अहं त्वाऽनुगमिष्यामि वनमग्रे धनुर्धरः ॥ ३ ॥

मया समेतोऽरण्यानि बहूनि विचरिष्यसि ।

पक्षिभिर्मृगयूथैश्च सङ्घुष्टानि समन्ततः ॥ ४ ॥

न देवलोकाक्रमणं नामरत्वमहं वृणे ।

ऐश्वर्यं वाऽपि लोकानां कामये न त्वया विना ॥ ५ ॥

एवं ब्रुवाणः सौमित्रिर्वनवासाय निश्चितः ।

रामेण बहुभिः सान्त्वैर्निषिद्धः पुनरब्रवीत् ॥ ६ ॥

अनुज्ञातश्च भवता पूर्वमेव यदस्म्यहम् ।

किमिदानीं पुनरिदं क्रियते मे निवारणम् ॥ ७ ॥

यदर्थं प्रतिषेधो मे क्रियते गन्तुमिच्छतः ।

एतदिच्छामि विज्ञातुं संशयो हि ममानघ ॥ ८ ॥

ततोऽब्रवीन्महातेजा रामो लक्ष्मणमग्रतः ।

स्थितं प्राग्गामिनं वीरं याचमानं कृताञ्जलिम् ॥ ९ ॥

स्निग्धो धर्मरतो वीरः सततं सत्पथे स्थितः ।

प्रियः प्राणसमो वश्यो भ्राता चासि सखा च मे ॥ १० ॥

मयाऽद्य सह सौमित्रे त्वयि गच्छति तद्वनम् ।

को भरिष्यति कौसल्यां सुमित्रां वा यशस्विनीम् ॥ ११ ॥

अभिवर्षति कामैर्यः पर्जन्यः पृथिवीमिव ।

स कामपाशपर्यस्तो महातेजा महीपतिः ॥ १२ ॥

सा हि राज्यमिदं प्राप्य नृपस्याश्वपतेः सुता ।

दुःखितानां सपत्नीनां न करिष्यति शोभनम् ॥ १३ ॥

न स्मरिष्यति कौसल्यां सुमित्रां च सुदुःखिताम् ।

भरतो राज्यमासाद्य कैकेय्यां पर्यवस्थितः ॥ १४ ॥

तामार्यां स्वयमेवेह राजानुग्रहणेन वा ।

सौमित्रे भर कौसल्यामुक्तमर्थमिमं चर ॥ १५ ॥

एवं मम च ते भक्तिर्भविष्यति सुदर्शिता ।

धर्मज्ञ गुरुपूजायां धर्मश्चाप्यतुलो महान् ॥ १६ ॥

एवं कुरुष्व सौमित्रे मत्कृते रघुनन्दन ।

अस्माभिर्विप्रहीणाया मातुर्नो न भवेत्सुखम् ॥ १७ ॥

एवमुक्तस्तु रामेण लक्ष्मणः श्लक्ष्णया गिरा ।

प्रत्युवाच तदा रामं वाक्यज्ञो वाक्यकोविदम् ॥ १८ ॥

तवैव तेजसा वीर भरतः पूजयिष्यति ।

कौसल्यां च सुमित्रां च प्रयतो नात्र संशयः ॥ १९ ॥

[* अधिकपाठः –

यदि दुःस्थो न रक्षेत भरतो राज्यमुत्तमम् ।

प्राप्य दुर्मनसा वीर गर्वेण च विशेषतः ॥ २० ॥

तमहं दुर्मतिं क्रूरं वधिष्यामि न संशयः ।

तत्पक्ष्यानपि तान्सर्वांस्त्रैलोक्यमपि किं नु सा ॥ २१ ॥

*]

कौसल्या बिभृयादार्या सहस्रमपि मद्विधान् ।

यस्याः सहस्रं ग्रामाणां सम्प्राप्तमुपजीविनम् ॥ २२ ॥

तदात्मभरणे चैव मम मातुस्तथैव च ।

पर्याप्ता मद्विधानां च भरणाय यशस्विनी ॥ २३ ॥

कुरुष्व मामनुचरं वैधर्म्यं नेह विद्यते ।

कृतार्थोऽहं भविष्यामि तव चार्थः प्रकल्पते ॥ २४ ॥

धनुरादाय सशरं खनित्रपिटकाधरः ।

अग्रतस्ते गमिष्यामि पन्थानमनुदर्शयन् ॥ २५ ॥

आहरिष्यामि ते नित्यं मूलानि च फलानि च ।

वन्यानि यानि चान्यानि स्वाहाराणि तपस्विनाम् ॥ २६ ॥

भवांस्तु सह वैदेह्या गिरिसानुषु रंस्यते ।

अहं सर्वं करिष्यामि जाग्रतः स्वपतश्च ते ॥ २७ ॥

रामस्त्वनेन वाक्येन सुप्रीतः प्रत्युवाच तम् ।

व्रजापृच्छस्व सौमित्रे सर्वमेव सुहृज्जनम् ॥ २८ ॥

ये च राज्ञो ददौ दिव्ये महात्मा वरुणः स्वयम् ।

जनकस्य महायज्ञे धनुषी रौद्रदर्शने ॥ २९ ॥

अभेद्य कवचे दिव्ये तूणी चाक्षयसायकौ ।

आदित्यविमलौ चोभौ खड्गौ हेमपरिष्कृतौ ॥ ३० ॥

सत्कृत्य निहितं सर्वमेतदाचार्यसद्मनि ।

स त्वमायुधमादाय क्षिप्रमाव्रज लक्ष्मण ॥ ३१ ॥

स सुहृज्जनमामन्त्र्य वनवासाय निश्चितः ।

इक्ष्वाकुगुरुमागम्य जग्राहायुधमुत्तमम् ॥ ३२ ॥

तद्दिव्यं रघुशार्दूलः सत्कृतं माल्यभूषितम् ।

रामाय दर्शयामास सौमित्रिः सर्वमायुधम् ॥ ३३ ॥

तमुवाचात्मवान्रामः प्रीत्या लक्ष्मणमागतम् ।

काले त्वमागतः सौम्य काङ्क्षिते मम लक्ष्मण ॥ ३४ ॥

अहं प्रदातुमिच्छामि यदिदं मामकं धनम् ।

ब्राह्मणेभ्यस्तपस्विभ्यस्त्वया सह परन्तप ॥ ३५ ॥

वसन्तीह दृढं भक्त्या गुरुषु द्विजसत्तमाः ।

तेषामपि च मे भूयः सर्वेषां चोपजीविनाम् ॥ ३६ ॥

वसिष्ठपुत्रं तु सुयज्ञमार्यं

त्वमानयाशु प्रवरं द्विजानाम् ।

अभिप्रयास्यामि वनं समस्ता-

-नभ्यर्च्य शिष्टानपरान्द्विजातीन् ॥ ३७ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे एकत्रिंशः सर्गः ॥ ३१ ॥

valmiki ramayan ayodhyakand adhyay 31