Skip to main content
पडताळणी प्रलंबित

अयोध्याकाण्ड द्विनवतितमः

॥ भरद्वाजामन्त्रणम् ॥

ततस्तां रजनीं व्युष्य भरतः सपरिच्छदः ।

कृतातिथ्यो भरद्वाजं कामादभिजगाम ह ॥ १ ॥

तमृषिः पुरुषव्याघ्रं प्राञ्जलिं प्रेक्ष्य चागतम् ।

हुताग्निहोत्रो भरतं भरद्वाजोऽभ्यभाषत ॥ २ ॥

कच्चिदत्र सुखा रात्रिस्तवास्मद्विषये गता ।

समग्रस्ते जनः कच्चिदातिथ्ये शंस मेऽनघ ॥ ३ ॥

तमुवाचाञ्जलिं कृत्वा भरतोऽभिप्रणम्य च ।

आश्रमादभिनिष्क्रान्तमृषिमुत्तमतेजसम् ॥ ४ ॥

सुखोषितोऽस्मि भगवन् समग्रबलवाहनः ।

तर्पितः सर्वकामैश्च सामात्यो बलवत्त्वया ॥ ५ ॥

अपेतक्लमसन्तापाः सुभिक्षाः सुप्रतिश्रयाः ।

अपि प्रेष्यानुपादाय सर्वे स्म सुसुखोषिताः ॥ ६ ॥

आमन्त्रयेऽहं भगवन् कामं त्वामृषिसत्तमः ।

समीपं प्रस्थितं भ्रातुर्मैत्रेणेक्षस्व चक्षुषा ॥ ७ ॥

आश्रमं तस्य धर्मज्ञ धार्मिकस्य महात्मनः ।

आचक्ष्व कतमो मार्गः कियानिति च शंस मे ॥ ८ ॥

इति पृष्टस्तु भरतं भ्रातृदर्शनलालसम् ।

प्रत्युवाच महातेजाः भरद्वाजो महातपाः ॥ ९ ॥

भरतार्धतृतीयेषु योजनेष्वजने वने ।

चित्रकूटो गिरिस्तत्र रम्यनिर्दरकाननः ॥ १० ॥

उत्तरं पार्श्वमासाद्य तस्य मन्दाकिनी नदी ।

पुषिपतद्रुमसञ्छन्ना रम्यपुष्पितकानना ॥ ११ ॥

अनन्तरं तत्सरितश्चित्रकूटश्च पर्वतः ।

तयोः पर्णकुटी तात तत्र तौ वसतो ध्रुवम् ॥ १२ ॥

दक्षिणेनैव मार्गेण सव्यदक्षिणमेव वा ।

गजवाजिरथाकीर्णां वाहिनीं वाहिनीपते ॥ १३ ॥

वाहयस्व महाभाग ततो द्रक्ष्यसि राघवम् ।

प्रयाणमिति तच्छ्रुत्वा राजराजस्य योषितः ॥ १४ ॥

हित्वा यानानि यानार्हाः ब्राह्मणं पर्यवारयन् ।

वेपमाना कृशा दीना सह देव्या सुमित्रया ॥ १५ ॥

कौसल्या तत्र जग्राह कराभ्यां चरणौ मुनेः ।

असमृद्धेन कामेन सर्वलोकस्य गर्हिता ॥ १६ ॥

कैकेयी तस्य जग्राह चरणौ सव्यपत्रपा ।

तं प्रदक्षिणमागम्य भगवन्तं महामुनिम् ॥ १७ ॥

अदूराद्भरतस्यैव तस्थौ दीनमनास्तदा ।

ततः पप्रच्छ भरतं भरद्वाजो दृढव्रतः ॥ १८ ॥

विशेषं ज्ञातुमिच्छामि मातॄणां तव राघव ।

एवमुक्तस्तु भरतो भरद्वाजेन धार्मिकः ॥ १९ ॥

उवाच प्राञ्जलिर्भूत्वा वाक्यं वचनकोविदः ।

यामिमां भगवन् दीनां शोकानशनकर्शिताम् ॥ २० ॥

पितुर्हि महिषीं देवीं देवतामिव पश्यसि ।

एषा तं पुरुषव्याघ्रं सिंहविक्रान्तगामिनम् ॥ २१ ॥

कौसल्या सुषुवे रामं धातारमदितिर्यथा ।

अस्यावामभुजं श्लिष्टा यैषा तिष्ठति दुर्मनाः ॥ २२ ॥

कर्णिकारस्य शाखेव शीर्णपुष्पा वनान्तरे ।

एतस्यास्तु सुतौ देव्याः कुमारौ देववर्णिनौ ॥ २३ ॥

उभौ लक्ष्मणशत्रुघ्नौ वीरौ सत्यपराक्रमौ ।

यस्याः कृते नरव्याघ्रौ जीवनाशमितो गतौ ॥ २४ ॥

राजपुत्रविहीनश्च स्वर्गं दशरथो गतः ।

क्रोधनामकृतप्रज्ञां दृप्तां सुभगमानिनीम् ॥ २५ ॥

ऐश्वर्यकामां कैकेयीमनार्यामार्यरूपिणीम् ।

ममैतां मातरं विद्धि नृशंसां पापनिश्चयाम् ॥ २६ ॥

यतोमूलं हि पश्यामि व्यसनं महदात्मनः ।

इत्युक्त्वा नरशार्दूलो बाष्पगद्गदया गिरा ॥ २७ ॥

स निशश्वास ताम्राक्षो नागः क्रुद्ध इव श्वसन् ।

भरद्वाजो महर्षिस्तं ब्रुवन्तं भरतं तथा ॥ २८ ॥

प्रत्युवाच महाबुद्धिरिदं वचनमर्थवत् ।

न दोषेणावगन्तव्या कैकेयी भरत त्वया ॥ २९ ॥

रामप्रव्राजनं ह्येतत् सुखोदर्कं भविष्यति ।

देवानां दानवानां च ऋषीणां भावितात्मनाम् ॥ ३० ॥

हितमेव भविष्यद्धि रामप्रव्राजनादिह ।

अभिवाद्य तु संसिद्धः कृत्वा चैनं प्रदक्षिणम् ॥ ३१ ॥

आमन्त्र्य भरतः सैन्यं युज्यतामित्यचोदयत् ।

ततो वाजिरथान्युक्त्वा दिव्यान्हेमपरिष्कृतान् ॥ ३२ ॥

अध्यारोहत्प्रयाणार्थी बहून्बहुविधो जनः ।

गजकन्या गजाश्चैव हेमकक्ष्याः पताकिनः ॥ ३३ ॥

जीमूता इव घर्मान्ते सघोषाः सम्प्रतस्थिरे ।

विविधान्यपि यानानि महान्ति च लघूनि च ॥ ३४ ॥

प्रययुः सुमहार्हाणि पादैरेव पदातयः ।

अथ यानप्रवेकैस्तु कौसल्याप्रमुखाः स्त्रियः ॥ ३५ ॥

रामदर्शनकाङ्क्षिण्यः प्रययुर्मुदितास्तदा ।

चन्द्रार्कतरुणाभासां नियुक्तां शिबिकां शुभाम् ॥ ३६ ॥

आस्थाय प्रययौ श्रीमान् भरतः सपरिच्छदः ।

सा प्रयाता महासेना गजवाजिरथाकुला ॥ ३७ ॥

दक्षिणां दिशमावृत्य महामेघ इवोत्थितः ।

वनानि तु व्यतिक्रम्य जुष्टानि मृगपक्षिभिः ।

गङ्गायाः परवेलायां गिरिष्वपि नदीषु च ॥ ३८ ॥

सा सम्प्रहृष्टद्विजवाजियोधा

वित्रासयन्ती मृगपक्षिसङ्घान् ।

महद्वनं तत्प्रतिगाहमाना

रराज सेना भरतस्य तत्र ॥ ३९ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे द्विनवतितमः सर्गः ॥ ९२ ॥

valmiki ramayan ayodhyakand adhyay 92