Skip to main content
पडताळणी प्रलंबित

अयोध्याकाण्ड पञ्चनवतितमः

॥ मन्दाकिनीवर्णना ॥

अथ शैलाद्विनिष्क्रम्य मैथिलीं कोसलेश्वरः ।

अदर्शयच्छुभजलां रम्यां मन्दाकिनीं नदीम् ॥ १ ॥

अब्रवीच्च वरारोहां चारुचन्द्रनिभाननाम् ।

विदेहराजस्य सुतां रामो राजीवलोचनः ॥ २ ॥

विचित्रपुलिनां रम्यां हंससारससेविताम् ।

कमलैरुपसम्पन्नां पश्य मन्दाकिनीं नदीम् ॥ ३ ॥

नानाविधैस्तीररुहैर्वृतां पुष्पफलद्रुमैः ।

राजन्तीं राजराजस्य नलिनीमिव सर्वतः ॥ ४ ॥

मृगयूथनिपीतानि कलुषाम्भांसि साम्प्रतम् ।

तीर्थानि रमणीयानि रतिं सञ्जनयन्ति मे ॥ ५ ॥

जटाजिनधराः काले वल्कलोत्तरवाससः ।

ऋषयस्त्ववगाहन्ते नदीं मन्दाकिनीं प्रिये ॥ ६ ॥

आदित्यमुपतिष्ठन्ते नियमादूर्ध्वबाहवः ।

एते परे विशालाक्षि मुनयः संशितव्रताः ॥ ७ ॥

मारुतोद्धूतशिखरैः प्रनृत्त इव पर्वतः ।

पादपैः पत्रपुष्पाणि सृजद्भिरभितो नदीम् ॥ ८ ॥

क्वचिन्मणिनिकाशोदां क्वचित्पुलिनशालिनीम् ।

क्वचित्सिद्धजनाकीर्णां पश्य मन्दाकिनीं नदीम् ॥ ९ ॥

निर्धूतान् वायुना पश्य विततान्पुष्पसञ्चयान् ।

पोप्लूयमानानपरान् पश्य त्वं जलमध्यगान् ॥ १० ॥

तांश्चातिवल्गुवचसो रथाङ्गाह्वयना द्विजाः ।

अधिरोहन्ति कल्याणि विकूजन्तः शुभा गिरः ॥ ११ ॥

दर्शनं चित्रकूटस्य मन्दाकिन्याश्च शोभने ।

अधिकं पुरवासाच्च मन्ये च तव दर्शनात् ॥ १२ ॥

विधूतकलुषैः सिद्धैस्तपोदमशमान्वितैः ।

नित्यविक्षोभितजलां विगाहस्व मया सह ॥ १३ ॥

सखीवच्च विगाहस्व सीते मन्दाकिनीं नदीम् ।

कमलान्यवमज्जन्ती पुष्कराणि च भामिनि ॥ १४ ॥

त्वं पौरजनवद्व्यालानयोध्यामिव पर्वतम् ।

मन्यस्व वनिते नित्यं सरयूवदिमां नदीम् ॥ १५ ॥

लक्ष्मणश्चापि धर्मात्मा मन्निदेशे व्यवस्थितः ।

त्वं चानुकूला वैदेहि प्रीतिं जनयथो मम ॥ १६ ॥

उपस्पृशंस्त्रिषवणं मधुमूलफलाशनः ।

नायोध्यायै न राज्याय स्पृहयेऽद्य त्वया सह ॥ १७ ॥

इमां हि रम्यां मृगयूथशालिनीं

निपीततोयां गजसिंहवानरैः ।

सुपुष्पितैः पुष्पधरैरलङ्कृतां

न सोऽस्ति यः स्यादगतक्लमः सुखी ॥ १८ ॥

इतीव रामो बहुसङ्गतं वचः

प्रियासहायः सरितं प्रति ब्रुवन् ।

चचार रम्यं नयनाञ्जनप्रभम्

स चित्रकूटं रघुवंशवर्धनः ॥ १९ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे पञ्चनवतितमः सर्गः ॥ ९५ ॥

valmiki ramayan ayodhyakand adhyay 95