Skip to main content
पडताळणी प्रलंबित

अयोध्याकाण्ड द्व्यधिकशततमः

॥ निवापदानम् ॥

तां श्रुत्वा करुणां वाचं पितुर्मरणसंहिताम् ।

राघवो भरतेनोक्तां बभूव गतचेतनः ॥ १ ॥

तं तु वज्रमिवोत्सृष्टमाहवे दानवारिणा ।

वाग्वज्रं भरतेनोक्तममनोज्ञं परन्तपः ॥ २ ॥

प्रगृह्य बाहू रामो वै पुष्पिताग्रो यथा द्रुमः ।

वने परशुना कृत्तस्तथा भुवि पपात ह ॥ ३ ॥

तथा निपतितं रामं जगत्यां जगतीपतिम् ।

कूलघातपरिश्रान्तं प्रसुप्तमिव कुञ्जरम् ॥ ४ ॥

भ्रातरस्ते महेष्वासं सर्वतः शोककर्शितम् ।

रुदन्तः सह वैदेह्या सिषिचुः सलिलेन वै ॥ ५ ॥

स तु सञ्ज्ञां पुनर्लब्ध्वा नेत्राभ्यामास्रमुत्सृजन् ।

उपाक्रामत काकुत्स्थः कृपणं बहुभाषितुम् ॥ ६ ॥

स रामः स्वर्गतं श्रुत्वा पितरं पृथिवीपतिम् ।

उवाच भरतं वाक्यं धर्मात्मा धर्मसंहितम् ॥ ७ ॥

किं करिष्याम्ययोध्यायां ताते दिष्टां गतिं गते ।

कस्तां राजवराद्धीनामयोध्यां पालयिष्यति ॥ ८ ॥

किं नु तस्य मया कार्यं दुर्जातेन महात्मनः ।

यो मृतो मम शोकेन मया चापि न संस्कृतः ॥ ९ ॥

अहो भरत सिद्धार्थो येन राजा त्वयाऽनघ ।

शत्रुघ्नेन च सर्वेषु प्रेतकृत्येषु सत्कृतः ॥ १० ॥

निष्प्रधानामनेकाग्रां नरेन्द्रेण विना कृताम् ।

निवृत्तवनवासोऽपि नायोध्यां गन्तुमुत्सहे ॥ ११ ॥

समाप्तवनवासं मामयोध्यायां परन्तप ।

को नु शासिष्यति पुनस्ताते लोकान्तरं गते ॥ १२ ॥

पुरा प्रेक्ष्य सुवृत्तं मां पिता यान्याह सान्त्वयन् ।

वाक्यानि तानि श्रोष्यामि कुतः कर्णसुखान्यहम् ॥ १३ ॥

एवमुक्त्वा स भरतं भार्यामभ्येत्य राघवः ।

उवाच शोकसन्तप्तः पूर्णचन्द्रनिभाननाम् ॥ १४ ॥

सीते मृतस्ते श्वशुरः पित्रा हीनोऽसि लक्ष्मण ।

भरतो दुःखमाचष्टे स्वर्गतं पृथिवीपतिम् ॥ १५ ॥

ततो बहुगुणं तेषां बाष्पं नेत्रेष्वजायत ।

तथा ब्रुवति काकुत्स्थे कुमाराणां यशस्विनाम् ॥ १६ ॥

ततस्ते भ्रातरः सर्वे भृशमाश्वास्य राघवम् ।

अब्रुवन् जगतीभर्तुः क्रियतामुदकं पितुः ॥ १७ ॥

सा सीता श्वशुरं श्रुत्वा स्वर्गलोकगतं नृपम् ।

नेत्राभ्यामश्रुपूर्णाभ्यामशकन्नेक्षितुं पतिम् ॥ १८ ॥

सान्त्वयित्वा तु तां रामो रुदन्तीं जनकात्मजाम् ।

उवाच लक्ष्मणं तत्र दुःखितो दुःखितं वचः ॥ १९ ॥

आनयेङ्गुदिपिण्याकं चीरमाहर चोत्तरम् ।

जलक्रियार्थं तातस्य गमिष्यामि महात्मनः ॥ २० ॥

सीता पुरस्ताद्व्रजतुत्वमेनामभितो व्रज ।

अहं पश्चाद्गमिष्यामि गतिर्ह्येषा सुदारुणा ॥ २१ ॥

ततो नित्यानुगस्तेषां विदितात्मा महामतिः ।

मृदुर्दान्तश्च शान्तश्च रामे च दृढभक्तिमान् ॥ २२ ॥

सुमन्त्रस्तैर्नृपसुतैः सार्धमाश्वास्य राघवम् ।

अवातारयदालम्ब्य नदीं मन्दाकिनीं शिवाम् ॥ २३ ॥

ते सुतीर्थां ततः कृच्छ्रादुपागम्य यशस्विनः ।

नदीं मन्दाकिनीं रम्यां सदा पुष्पितकाननाम् ॥ २४ ॥

शीघ्रस्रोतसमासाद्य तीर्थं शिवमकर्दमम् ।

सिषिचुस्तूदकं राज्ञे तत्रैतत्ते भवत्विति ॥ २५ ॥

प्रगृह्य च महीपालो जलपूरितमञ्जलिम् ।

दिशं याम्यामभिमुखो रुदन् वचनमब्रवीत् ॥ २६ ॥

एतत्ते राजशार्दूल विमलं तोयमक्षयम् ।

पितृलोकगतस्याद्य मद्दत्तमुपतिष्ठतु ॥ २७ ॥

ततो मन्दाकिनीतीरात् प्रत्युत्तीर्य स राघवः ।

पितुश्चकार तेजस्वी निवापं भ्रातृभिः सह ॥ २८ ॥

ऐङ्गुदं बदरीमिश्रं पिण्याकं दर्भसंस्तरे ।

न्यस्य रामः सुदुःखार्तो रुदन् वचनमब्रवीत् ॥ २९ ॥

इदं भुङ्क्ष्व महाराज प्रीतो यदशना वयम् ।

यदन्नः पुरुषो भवति तदन्नास्तस्य देवताः ॥ ३० ॥

ततस्तेनैव मार्गेण प्रत्युत्तीर्य नदीतटात् ।

आरुरोह नरव्याघ्रो रम्यसानुं महीधरम् ॥ ३१ ॥

ततः पर्णकुटीद्वारमासाद्य जगतीपतिः ।

परिजग्राह बाहुभ्यामुभौ भरतलक्ष्मणौ ॥ ३२ ॥

तेषां तु रुदतां शब्दात् प्रतिश्रुत्कोऽभवद्गिरौ ।

भ्रातॄऽणां सह वैदेह्याः सिंहानामिव नर्दताम् ॥ ३३ ॥

महाबलानां रुदतां कुर्वतामुदकं पितुः ।

विज्ञाय तुमुलं शब्दं त्रस्ता भरतसैनिकाः ॥ ३४ ॥

अब्रुवंश्चापि रामेण भरतः सङ्गतो ध्रुवम् ।

तेषामेव महाञ्छब्दः शोचतां पितरं मृतम् ॥ ३५ ॥

अथ वासान् परित्यज्य तं सर्वेऽभिमुखाः स्वनम् ।

अप्येकमनसो जग्मुर्यथास्थानं प्रधाविताः ॥ ३६ ॥

हयैरन्ये गजैरन्ये रथैरन्ये स्वलङ्कृतैः ।

सुकुमारास्तथैवान्ये पद्भिरेव नरा ययुः ॥ ३७ ॥

अचिरप्रोषितं रामं चिरविप्रोषितं यथा ।

द्रष्टुकामो जनः सर्वो जगाम सहसाऽऽश्रमम् ॥ ३८ ॥

भ्रातॄऽणां त्वरितास्तत्र द्रष्टुकामाः समागमम् ।

ययुर्बहुविधैर्यानैः खुरनेमिस्वनाकुलैः ॥ ३९ ॥

सा भूमिर्बहुभिर्यानैः खुरनेमिसमाहता ।

मुमोच तुमुलं शब्दं द्यौरिवाभ्रसमागमे ॥ ४० ॥

तेन वित्रासिता नागाः करेणुपरिवारिताः ।

आवासयन्तो गन्धेन जग्मुरन्यद्वनं ततः ॥ ४१ ॥

वराहवृकसङ्घाश्च महिषाः सर्प्पवानराः ।

व्याघ्रगोकर्णगवयाः वित्रेसुः पृषतैः सह ॥ ४२ ॥

रथाङ्गसाह्वा नत्यूहाः हंसाः कारण्डवाः प्लवाः ।

तथा पुंस्कोकिलाः क्रौञ्चा विसञ्ज्ञा भेजिरे दिशः ॥ ४३ ॥

तेन शब्देन वित्रस्तैराकाशं पक्षिभिर्वृतम् ।

मनुष्यैरावृता भूमिरुभयं प्रबभौ तदा ॥ ४४ ॥

ततस्तं पुरुषव्याघ्रं यशस्विनमरिन्दमम् ।

आसीनं स्थण्डिले रामं ददर्श सहसा जनः ॥ ४५ ॥

विगर्हमाणः कैकेयीं सहितो मन्थरामपि ।

अभिगम्य जनो रामं बाष्पपूर्णमुखोऽभवत् ॥ ४६ ॥

तान्नरान् बाष्पपूर्णाक्षान् समीक्ष्याथ सुदुःखितान् ।

पर्यष्वजत धर्मज्ञः पितृवन्मातृवच्च सः ॥ ४७ ॥

स तत्र कांश्चित् परिषस्वजे नरान्

नराश्च केचित्तु तमभ्यवादयन् ।

चकार सर्वान् सवयस्यबान्धवान्

यथाऽर्हमासाद्य तदा नृपात्मजः ॥ ४८ ॥

स तत्र तेषां रुदतां महात्मनाम्

भुवं च खं चानुनिनादयन् स्वनः ।

गुहा गिरीणां च दिशश्च सन्ततं

मृदङ्गघोषप्रतिमः प्रशुश्रुवे ॥ ४९ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे द्व्यधिकशततमः सर्गः ॥ १०२ ॥

valmiki ramayan ayodhyakand adhyay 102