Skip to main content
पडताळणी प्रलंबित

अयोध्याकाण्ड नवाधिकशततमः

॥ सत्यप्रशंसा ॥

जाबालेस्तु वचः श्रुत्वा रामः सत्यात्मनां वरः ।

उवाच परया भक्त्या स्वबुद्ध्या चाविपन्नया ॥ १ ॥

भवान् मे प्रियकामार्थं वचनं यदिहोक्तवान् ।

अकार्यं कार्यसङ्काशमपथ्यं पथ्यसम्मितम् ॥ २ ॥

निर्मर्यादस्तु पुरुषः पापाचारसमन्वितः ।

मानं न लभते सत्सु भिन्नचारित्रदर्शनः ॥ ३ ॥

कुलीनमकुलीनं वा वीरं पुरुषमानिनम् ।

चारित्रमेव व्याख्याति शुचिं वा यदि वाऽशुचिम् ॥ ४ ॥

अनार्यस्त्वार्यसङ्काशः शौचाद्धीनस्तथा शुचिः ।

लक्षण्यवदलक्षण्यो दुःशील शीलवानिव ॥ ५ ॥

अधर्मं धर्मवेषेण यदीमं लोकसङ्करम् ।

अभिपत्स्ये शुभं हित्वा क्रियाविधिविवर्जितम् ॥ ६ ॥

कश्चेतयानः पुरुषः कार्याकार्यविचक्षणः ।

बहुमंस्यति मां लोके दुर्वृत्तं लोकदूषणम् ॥ ७ ॥

कस्य धास्याम्यहं वृत्तं केन वा स्वर्गमाप्नुयाम् ।

अनया वर्तमानो हि वृत्त्या हीनप्रतिज्ञया ॥ ८ ॥

कामवृत्तस्त्वयं लोकः कृत्स्नः समुपवर्तते ।

यद्वृत्ताः सन्ति राजानस्तद्वृत्ताः सन्ति हि प्रजाः ॥ ९ ॥

सत्यमेवानृशंसं च राजवृत्तं सनातनम् ।

तस्मात्सत्यात्मकं राज्यं सत्ये लोकः प्रतिष्ठितः ॥ १० ॥

ऋषयश्चैव देवाश्च सत्यमेव हि मेनिरे ।

सत्यवादी हि लोकेऽस्मिन् परमं गच्छति क्षयम् ॥ ११ ॥

उद्विजन्ते यथा सर्पान्नरादनृतवादिनः ।

धर्मः सत्यं परो लोके मूलं स्वर्गस्य चोच्यते ॥ १२ ॥

सत्यमेवेश्वरो लोके सत्यं पद्मा श्रिता सदा ।

सत्यमूलानि सर्वाणि सत्यान्नास्ति परं पदम् ॥ १३ ॥

दत्तमिष्टं हुतं चैव तप्तानि च तपांसि च ।

वेदाः सत्यप्रतिष्ठानास्तस्मात् सत्यपरो भवेत् ॥ १४ ॥

एकः पालयते लोकमेकः पालयते कुलम् ।

मज्जत्येको हि निरयैकः स्वर्गे महीयते ॥ १५ ॥

सोऽहं पितुर्नियोगन्तु किमर्थं नानुपालये ।

सत्यप्रतिश्रवः सत्यं सत्येन समयीकृतः ॥ १६ ॥

नैव लोभान्न मोहाद्वा न ह्यज्ञानात्तमोऽन्वितः ।

सेतुं सत्यस्य भेत्स्यामि गुरोः सत्यप्रतिश्रवः ॥ १७ ॥

असत्यसन्धस्य सतश्चलस्यास्थिरचेतसः ।

नैव देवा न पितरः प्रतीच्छन्तीति नः श्रुतम् ॥ १८ ॥

प्रत्यगात्ममिमं धर्मं सत्यं पश्याम्यहं स्वयम् ।

भारः सत्पुरुषाचीर्णस्तदर्थमभिमन्यते ॥ १९ ॥

क्षात्त्रं धर्ममहं त्यक्ष्ये ह्यधर्मं धर्मसंहितम् ।

क्षुद्रैर्नृशंसैर्लुब्धैश्च सेवितं पापकर्मभिः ॥ २० ॥

कायेन कुरुते पापं मनसा सम्प्रधार्य च ।

अनृतं जिह्वया चाह त्रिविधं कर्म पातकम् ॥ २१ ॥

भूमिः कीर्तिर्यशो लक्ष्मीः पुरुषं प्रार्थयन्ति हि ।

स्वर्गस्थं चानुपश्यन्ति सत्यमेव भजेत तत् ॥ २२ ॥

श्रेष्ठं ह्यनार्यमेव स्याद्यद्भवानवधार्य माम् ।

आह युक्तिकरैर्वाक्यैरिदं भद्रं कुरुष्व ह ॥ २३ ॥

कथं ह्यहं प्रतिज्ञाय वनवासमिमं गुरौ ।

भरतस्य करिष्यामि वचो हित्वा गुरोर्वचः ॥ २४ ॥

स्थिरा मया प्रतिज्ञाता प्रतिज्ञा गुरुसन्निधौ ।

प्रहृष्यमाणा सा देवी कैकेयी चाभवत्तदा ॥ २५ ॥

वनवासं वसन्नेवं शुचिर्नियतभोजनः ।

मूलैः पुष्पैः फलैः पुण्यैः पितन् देवांश्च तर्पयन् ॥ २६ ॥

सन्तुष्टपञ्चवर्गोऽहं लोकयात्रां प्रवर्तये ।

अकुहः श्रद्दधानस्सन् कार्याकार्यविचक्षणः ॥ २७ ॥

कर्मभूमिमिमां प्राप्य कर्तव्यं कर्म यच्छुभम् ।

अग्निर्वायुश्च सोमश्च कर्मणां फलभागिनः ॥ २८ ॥

शतं क्रतूनामाहृत्य देवराट् त्रिदिवङ्गतः ।

तपांस्युग्राणि चास्थाय दिवं याता महर्षयः ॥ २९ ॥

अमृष्यमाणः पुनरुग्रतेजाः

निशम्य तन्नास्तिकवाक्यहेतुम् ।

अथाब्रवीत्तं नृपतेस्तनूजो

विगर्हमाणो वचनानि तस्य ॥ ३० ॥

सत्यं च धर्मं च पराक्रमं च

भूतानुकम्पां प्रियवादिताश्च ।

द्विजातिदेवातिथिपूजनं च

पन्थानमाहुस्त्रिदिवस्य सन्तः ॥ ३१ ॥

तेनैवमाज्ञाय यथावदर्थम्

एकोदयं सम्प्रतिपद्य विप्राः ।

धर्मं चरन्तः सकलं यथावत्

काङ्क्षन्ति लोकागममप्रमत्ताः ॥ ३२ ॥

निन्दाम्यहं कर्म पितुः कृतं तत्

यस्त्वामगृह्णाद्विषमस्थबुद्धिम् ।

बुद्ध्यानयैवंविधया चरन्तम्

सुनास्तिकं धर्मपथादपेतम् ॥ ३३ ॥

यथा हि चोरः स तथा हि बुद्धः

तथागतं नास्तिकमत्र विद्धि ।

तस्माद्धि यः शङ्क्यतमः प्रजानाम्

न नास्तिकेनाभिमुखो बुधः स्यात् ॥ ३४ ॥

त्वत्तो जनाः पूर्वतरे वराश्च

शुभानि कर्माणि बहूनि चक्रुः ।

जित्वा सदेमं च परञ्च लोकम्

तस्माद्द्विजाः स्वस्ति हुतं कृतं च ॥ ३५ ॥

धर्मे रताः सत्पुरुषैः समेताः

तेजस्विनो दानगुणप्रधानाः ।

अहिंसका वीतमलाश्च लोके

भवन्ति पूज्या मुनयः प्रधानाः ॥ ३६ ॥

इति ब्रुवन्तं वचनं सरोषं

रामं महात्मानमदीनसत्त्वम् ।

उवाच तथ्यं पुनरास्तिकं च

सत्यं वचः सानुनयं च विप्रः ॥ ३७ ॥

न नास्तिकानां वचनं ब्रवीम्यहम्

न चास्तिकोऽहं न च नास्ति किञ्चन ।

समीक्ष्य कालं पुनरास्तिकोऽभवम्

भवेय काले पुनरेव नास्तिकः ॥ ३८ ॥

स चापि कालोऽयमुपागतश्शनैः

यथा मया नास्तिकवागुदीरिता ।

निवर्तनार्थं तव राम कारणात्

प्रसादनार्थं तु मयैतदीरितम् ॥ ३९ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे नवोत्तरशततमः सर्गः ॥ १०९ ॥

valmiki ramayan ayodhyakand adhyay 109