Skip to main content
पडताळणी प्रलंबित

अयोध्याकाण्ड अष्टसप्ततितमः

॥ कुब्जाविक्षेपः ॥

अथ यात्रां समीहन्तं शत्रुघ्नः लक्ष्मणानुजः ।

भरतं शोकसन्तप्तमिदं वचनमब्रवीत् ॥ १ ॥

गतिर्यः सर्व भूतानां दुःखे किं पुनरात्मनः ।

स रामः सत्त्वसम्पन्नः स्त्रिया प्रव्राजितः वनम् ॥ २ ॥

बलवान् वीर्यसम्पन्नो लक्ष्मणो नाम योऽप्यसौ ।

किं न मोचयते रामं कृत्वा अपि पितृनिग्रहम् ॥ ३ ॥

पूर्वमेव तु निग्राह्यः समवेक्ष्य नयानयौ ।

उत्पथं यः समारूढो नार्या राजा वशं गतः ॥ ४ ॥

इति सम्भाषमाणे तु शत्रुघ्ने लक्ष्मणानुजे ।

प्राग्द्वारेऽभूत्तदा कुब्जा सर्वाभरणभूषिता ॥ ५ ॥

लिप्ता चन्दनसारेण राजवस्त्राणि बिभ्रती ।

विविधं विविधैस्तैस्तैर्भूषणैश्च विभूषिता ॥ ६ ॥

मेखलादामभिश्चित्रैः अन्यैश्च शुभभूषणैः ।

बभासे बहुभिर्बद्धा रज्जुबद्धेव वानरी ॥ ७ ॥

तां समीक्ष्य तदा द्वास्थाः सुभृशं पापकारिणीम् ।

गृहीत्वाऽकरुणं कुब्जां शत्रुघ्नाय न्यवेदयत् ॥ ८ ॥

यस्याः कृते वने रामर्न्यस्त देहश्च वः पिता ।

सेयं पापा नृशंसा च तस्याः कुरु यथामति ॥ ९ ॥

शत्रुघ्नश्च तदाज्ञाय वचनं भृशदुःखितः ।

अन्तःपुरचरान् सर्वान् इत्युवाच धृतव्रतः ॥ १० ॥

तीव्रमुत्पादितं दुःखं भ्रातॄणां मे तथा पितुः ।

यया सेयं नृशंसस्य कर्मणः फलमश्नुताम् ॥ ११ ॥

एवमुक्ता तु तेनाशु सखीजनसमावृता ।

गृहीता बलवत् कुब्जा सा तद्गृहमनादयत् ॥ १२ ॥

ततः सुभृश सन्तप्तस्तस्याः सर्वः सखीजनः ।

क्रुद्धमाज्ञाय शत्रुघ्नं व्यपलायत सर्वशः ॥ १३ ॥

आमन्त्रयत कृत्स्नश्च तस्याः सर्वसखीजनः ।

यथाऽयं समुपक्रान्तर्निश्शेषं नः करिष्यति ॥ १४ ॥

सानुक्रोशां वदान्यां च धर्मज्ञां च यशस्विनीम् ।

कौसल्यां शरणं यामः सा हि नोऽस्तु ध्रुवा गतिः ॥ १५ ॥

स च रोषेण ताम्राक्षः शत्रुघ्नः शत्रुतापनः ।

विचकर्ष तदा कुब्जां क्रोशन्तीं धरणीतले ॥ १६ ॥

तस्या ह्याकृष्यमाणाया मन्थरायास्ततस्ततः ।

चित्रं बहुविधं भाण्डं पृथिव्यां तद्व्यशीर्यत ॥ १७ ॥

तेन भाण्डेन संस्तीर्णं श्रीमद्राजनिवेशनम् ।

अशोभत तदा भूयः शारदं गगनं यथा ॥ १८ ॥

स बली बलवत्क्रोधाद्गृहीत्वा पुरुषर्षभः ।

कैकेयीमभिनिर्भर्त्स्य बभाषे परुषं वचः ॥ १९ ॥

तैः वाक्यैः परुषैर्दुःखैः कैकेयी भृशदुःखिता ।

शत्रुघ्नभयसन्त्रस्ता पुत्रं शरणमागता ॥ २० ॥

तां प्रेक्ष्य भरतः क्रुद्धं शत्रुघ्नमिदमब्रवीत् ।

अवध्याः सर्वभूतानां प्रमदाः क्षम्यतामिति ॥ २१ ॥

हन्यामहमिमां पापां कैकेयीं दुष्टचारिणीम् ।

यदि मां धार्मिको रामर्नासूयेन्मातृ घातकम् ॥ २२ ॥

इमामपि हतां कुब्जां यदि जानाति राघवः ।

त्वां च मां चैव धर्मात्मा नाभिभाषिष्यते ध्रुवम् ॥ २३ ॥

भरतस्य वचः श्रुत्वा शत्रुघ्नः लक्ष्मणानुजः ।

न्यवर्तत ततः रोषात् तां मुमोच च मन्थराम् ॥ २४ ॥

सा पादमूले कैकेय्याः मन्थरा निपपात ह ।

निश्श्वसन्ती सुदुःखार्ता कृपणं विललाप च ॥ २५ ॥

शत्रुघ्न विक्षेप विमूढसञ्ज्ञाम्

समीक्ष्य कुब्जां भरतस्य माता ।

शनैः समाश्वासयदार्तरूपाम्

क्रौञ्चीं विलग्नामिव वीक्षमाणाम् ॥ २६ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे अष्टसप्ततितमः सर्गः ॥ ७८ ॥

valmiki ramayan ayodhyakand adhyay 78