Skip to main content
पडताळणी प्रलंबित

अयोध्याकाण्ड अष्टाधिकशततमः

॥ जाबालिवाक्यम् ॥

आश्वासयन्तं भरतं जाबालिर्ब्राह्मणोत्तमः ।

उवाच रामं धर्मज्ञं धर्मापेतमिदं वचः ॥ १ ॥

साधु राघव माभूत्ते बुद्धिरेवं निरर्थिका ।

प्राकृतस्य नरस्येव ह्यार्यबुद्धेर्मनस्विनः ॥ २ ॥

कः कस्य पुरुषो बन्धुः किमाप्यं कस्य केनचित् ।

यदेको जायते जन्तुरेकैव विनश्यति ॥ ३ ॥

तस्मान्माता पिता चेति राम सज्जेतयो नरः ।

उन्मत्त इव स ज्ञेयो नास्ति कश्चिद्धि कस्यचित् ॥ ४ ॥

यथा ग्रामान्तरं गच्छन् नरः कश्चित् क्वचिद्वसेत् ।

उत्सृज्य च तमावासं प्रतिष्ठेतापरेऽहनि ॥ ५ ॥

एवमेव मनुष्याणां पिता माता गृहं वसु ।

आवासमात्रं काकुत्स्थ सज्जन्ते नात्र सज्जनाः ॥ ६ ॥

पित्र्यं राज्यं परित्यज्य स नार्हसि नरोत्तम ।

आस्थातुं कापथं दुःखं विषमं बहुकण्टकम् ॥ ७ ॥

समृद्धायामयोध्यायामात्मानमभिषेचय ।

एकवेणीधरा हि त्वां नगरी सम्प्रतीक्षते ॥ ८ ॥

राजभोगाननुभवन् महार्हान् पार्थिवात्मज ।

विहर त्वमयोध्यायां यथा शक्रस्त्रिविष्टपे ॥ ९ ॥

न ते कश्चिद्दशरथस्त्वं च तस्य न कश्चन ।

अन्यो राजा त्वमन्यः स तस्मात् कुरु यदुच्यते ॥ १० ॥

बीजमात्रं पिता जन्तोः शुक्लं रुधिरमेव च ।

सम्युक्तमृतुमन्मात्रा पुरुषस्येह जन्म तत् ॥ ११ ॥

गतः स नृपतिस्तत्र गन्तव्यं यत्र तेन वै ।

प्रवृत्तिरेषा मर्त्यानां त्वं तु मिथ्या विहन्यसे ॥ १२ ॥

अर्थधर्मपरा ये ये तांस्तान् शोचामि नेतरान् ।

ते हि दुःखमिह प्राप्य विनाशं प्रेत्य भेजिरे ॥ १३ ॥

अष्टका पितृदैवत्यमित्ययं प्रसृतो जनः ।

अन्नस्योपद्रवं पश्य मृतो हि किमशिष्यति ॥ १४ ॥

यदि भुक्तमिहान्येन देहमन्यस्य गच्छति ।

दद्यात् प्रवसतः श्राद्धं न तत् पथ्यशनं भवेत् ॥ १५ ॥

दानसंवनना ह्येते ग्रन्था मेधाविभिः कृताः ।

यजस्व देहि दीक्षस्व तपस्तप्यस्व सन्त्यज ॥ १६ ॥

स नास्ति परमित्येव कुरु बुद्धिं महामते ।

प्रत्यक्षं यत्तदातिष्ठ परोक्षं पृष्ठतः कुरु ॥ १७ ॥

स तां बुद्धिं पुरस्कृत्य सर्वलोकनिदर्शिनीम् ।

राज्यं त्वं प्रतिगृह्णीष्व भरतेन प्रसादितः ॥ १८ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे अष्टोत्तरशततमः सर्गः ॥ १०८ ॥

valmiki ramayan ayodhyakand adhyay 108