Skip to main content
पडताळणी प्रलंबित

अयोध्याकाण्ड एकोनशततमः

॥ रामसमागमः ॥

निविष्टायां तु सेनायामुत्सुको भरतस्तदा ।

जगाम भ्रातरं द्रष्टुं शत्रुघ्नमनुदर्शयन् ॥ १ ॥

ऋषिं वसिष्ठं सन्दिश्य मातॄर्मे शीघ्रमानय ।

इति त्वरितमग्रे सः जगाम गुरुवत्सलः ॥ २ ॥

सुमन्त्रस्त्वपि शत्रुघ्नमदूरादन्वपद्यत ।

रामदर्शनजस्तर्षो भरतस्येव तस्य च ॥ ३ ॥

गच्छन्नेवाथ भरतस्तापसालयसंस्थिताम् ।

भ्रातुः पर्णकुटीं श्रीमानुटजं च ददर्श ह ॥ ४ ॥

शालायास्त्वग्रतस्तस्याः ददर्श भरतस्तदा ।

काष्ठानि चावभग्नानि पुष्पाण्युपचितानि च ॥ ५ ॥

स लक्ष्मणस्य रामस्य ददर्शाश्रममीयुषः ।

कृतं वृक्षेष्वभिज्ञानं कुशचीरैः क्वचित् क्वचित् ॥ ६ ॥

ददर्श च वने तस्मिन्महतः सञ्चयान् कृतान् ।

मृगाणां महिषाणां च करीषैः शीतकारणात् ॥ ७ ॥

गच्छन्नेव महाबाहुर्द्युतिमान् भरतस्तदा ।

शत्रुघ्नं चाब्रवीद्धृष्टस्तानमात्यांश्च सर्वशः ॥ ८ ॥

मन्ये प्राप्ताः स्म तं देशं भरद्वाजो यमब्रवीत् ।

नातिदूरे हि मन्येऽहं नदीं मन्दाकिनीमितः ॥ ९ ॥

उच्चैर्बद्धानि चीराणि लक्ष्मणेन भवेदयम् ।

अभिज्ञानकृतः पन्था विकाले गन्तुमिच्छता ॥ १० ॥

इदं चोदात्तदन्तानां कुञ्जराणां तरस्विनाम् ।

शैलपार्श्वे परिक्रान्तमन्योन्यमभिगर्जताम् ॥ ११ ॥

यमेवाधातुमिच्छन्ति तापसाः सततं वने ।

तस्यासौ दृश्यते धूमः सङ्कुलः कृष्णवर्त्मनः ॥ १२ ॥

अत्राहं पुरुषव्याघ्रं गुरुसंस्कारकारिणम् ।[सत्कारकारिणम्]

आर्यं द्रक्ष्यामि संहृष्टो महर्षिमिव राघवम् ॥ १३ ॥

अथ गत्वा मुहूर्तं तु चित्रकूटं स राघवः ।

मन्दाकिनीमनुप्राप्तस्तं जनं चेदमब्रवीत् ॥ १४ ॥

जगत्यां पुरुषव्याघ्रास्ते वीरासने रतः ।

जनेन्द्रो निर्जनं प्राप्य धिज्ञ्मे जन्म सजीवितम् ॥ १५ ॥

मत्कृते व्यसनं प्राप्तो लोकनाथो महाद्युतिः ।

सर्वान्कामान्परित्यज्य वने वसति राघवः ॥ १६ ॥

इति लोकसमाक्रुष्टः पादेष्वद्य प्रसादयन् ।

रामस्य निपतिष्यामि सीताया लक्ष्मणस्य च ॥ १७ ॥

एवं स विलपंस्तस्मिन् वने दशरथात्मजः ।

ददर्श महतीं पुण्यां पर्णशालां मनोरमाम् ॥ १८ ॥

सालतालाश्वकर्णानां पर्णैर्बहुभिरावृताम् ।

विशालां मृदुभिस्तीर्णां कुशैर्वेदिमिवाध्वरे ॥ १९ ॥

शक्रायुधनिकाशैश्च कार्मुकैर्भारसाधनैः ।

रुक्मपृष्ठैर्महासारैः शोभितां शत्रुबाधकैः ॥ २० ॥

अर्करश्मिप्रतीकाशैर्घोरैस्तूणीगतैः शरैः ।

शोभितां दीप्तवदनैः सर्पैर्भोगवतीमिव ॥ २१ ॥

महारजतवासोभ्यामसिभ्यां च विराजिताम् ।

रुक्मबिन्दुविचित्राभ्यां चर्मभ्यां चापि शोभिताम् ॥ २२ ॥

गोधाङ्गुलित्रैरासक्तैश्चित्रैः काञ्चनभूषितैः ।

अरिसङ्घैरनाधृष्यां मृगैः सिंहगुहामिव ॥ २३ ॥

प्रागुदक्प्रवणां वेदिं विशालां दीप्तपावकाम् ।

ददर्श भरतस्तत्र पुण्यां रामनिवेशने ॥ २४ ॥

निरीक्ष्य स मुहूर्तं तु ददर्श भरतो गुरुम् ।

उटजे राममासीनं जटामण्डलधारिणम् ॥ २५ ॥

तं तु कृष्णाजिनधरं चीरवल्कलवाससम् ।

ददर्श राममासीनमभितः पावकोपमम् ॥ २६ ॥

सिंहस्कन्धं महाबाहुं पुण्डरीकनिभेक्षणम् ।

पृथिव्याः सागरान्ताया भर्तारं धर्मचारिणम् ॥ २७ ॥

उपविष्टं महाबाहुं ब्रह्माणमिव शाश्वतम् ।

स्थण्डिले दर्भसंस्तीर्णे सीतया लक्ष्मणेन च ॥ २८ ॥

तं दृष्ट्वा भरतः श्रीमान् दुःखशोकपरिप्लुतः ।

अभ्यधावत धर्मात्मा भरतः कैकयीसुतः ॥ २९ ॥

दृष्ट्वैव विललापार्तो बाष्पसन्दिग्धया गिरा ।

अशक्नुवन् धारयितुं धैर्याद्वचनमब्रवीत् ॥ ३० ॥

यः संसदि प्रकृतिभिर्भवेद्युक्तोपासितुम् ।

वन्यैर्मृगैरुपासीनः सोऽयमास्ते ममाग्रजः ॥ ३१ ॥

वासोभिर्बहुसाहस्रैर्यो महात्मा पुरोचितः ।

मृगाजिने सोऽयमिह प्रवस्ते धर्ममाचरन् ॥ ३२ ॥

अधारयद्यो विविधाश्चित्राः सुमनसस्तदा ।

सोऽयं जटाभारमिमं वहते राघवः कथम् ॥ ३३ ॥

यस्य यज्ञैर्यथोद्दिष्टैर्युक्तो धर्मस्य सञ्चयः ।

शरीरक्लेशसम्भूतं स धर्मं परिमार्गते ॥ ३४ ॥

चन्दनेन महार्हेण यस्याङ्गमुपसेवितम् ।

मलेन तस्याङ्गमिदं कथमार्यस्य सेव्यते ॥ ३५ ॥

मन्निमित्तमिदं दुःखं प्राप्तो रामः सुखोचितः ।

धिग्जीवितं नृशंसस्य मम लोकविगर्हितम् ॥ ३६ ॥

इत्येवं विलपन्दीनः प्रस्विन्नमुखपङ्कजः ।

पादावप्राप्य रामस्य पपात भरतो रुदन् ॥ ३७ ॥

दुःखाभितप्तो भरतो राजपुत्रो महाबलः ।

उक्त्वार्येति सकृद्दीनं पुनर्नोवाच किञ्चन ॥ ३८ ॥

बाष्पापिहितकण्ठश्च प्रेक्ष्य रामं यशस्विनम् ।

आर्येत्येवाथ सङ्क्रुश्य व्याहर्तुं नाशकत्तदा ॥ ३९ ॥

शत्रुघ्नश्चापि रामस्य ववन्दे चरणौ रुदन् ।

तावुभौ स समालिङ्ग्य रामश्चाश्रूण्यवर्तयत् ॥ ४० ॥

ततः सुमन्त्रेण गुहेन चैव

समीयतू राजसुतावरण्ये ।

दिवाकरश्चैव निशाकरश्च

यथाम्बरे शुक्रबृहस्पतिभ्याम् ॥ ४१ ॥

तान्पार्थिवान्वारणयूथपाभान्

समागतांस्तत्र महत्यरण्ये ।

वनौकसस्तेऽपि समीक्ष्य सर्वे-

-प्यश्रूण्यमुञ्चन् प्रविहाय हर्षम् ॥ ४२ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे एकोनशततमः सर्गः ॥ ९९ ॥

valmiki ramayan ayodhyakand adhyay 99