Skip to main content
पडताळणी प्रलंबित

अयोध्याकाण्ड षष्टितमः

॥ कौसल्यासमाश्वासनम् ॥

ततः भूतोपसृष्टेव वेपमाना पुनः पुनः ।

धरण्यां गत सत्त्वेव कौसल्या सूतमब्रवीत् ॥ १ ॥

नय मां यत्र काकुत्स्थः सीता यत्र च लक्ष्मणः ।

तान् विना क्षणमप्यत्र जीवितुं नोत्सहे ह्यहम् ॥ २ ॥

निवर्तय रथं शीघ्रं दण्डकान्नय मामपि ।

अथ तान्नानुगच्छामि गमिष्यामि यमक्षयम् ॥ ३ ॥

बाष्प वेगोपहतया स वाचा सज्जमानया ।

इदमाश्वासयन् देवीं सूतः प्राञ्जलिरब्रवीत् ॥ ४ ॥

त्यज शोकं च मोहं च सम्भ्रमं दुःखजं तथा ।

व्यवधूय च सन्तापं वने वत्स्यति राघवः ॥ ५ ॥

लक्ष्मणश्चापि रामस्य पादौ परिचरन् वने ।

आराधयति धर्मज्ञः परलोकं जितेन्द्रियः ॥ ६ ॥

विजनेऽपि वने सीता वासं प्राप्य गृहेष्विव ।

विस्रम्भं लभतेऽभीता रामे संन्यस्तमानसा ॥ ७ ॥

नास्या दैन्यं कृतं किञ्चित् सुसूक्ष्ममपि लक्ष्यते ।

उचितेव प्रवासानां वैदेही प्रतिभाति मा ॥ ८ ॥

नगरोपवनं गत्वा यथा स्म रमते पुरा ।

तथैव रमते सीता निर्जनेषु वनेष्वपि ॥ ९ ॥

बालेव रमते सीता बालचन्द्रनिभानना ।

रामा रामे ह्यदीनात्मा विजनेऽपि वने सती ॥ १० ॥

तद्गतं हृदयं ह्यस्यास्तदधीनं च जीवितम् ।

अयोध्याऽपि भवेत्तस्याः रामहीना तथा वनम् ॥ ११ ॥

परि पृच्छति वैदेही ग्रामांश्च नगराणि च ।

गतिं दृष्ट्वा नदीनां च पादपान् विविधानपि ॥ १२ ॥

रामं हि लक्ष्मणं वाऽपि पृष्ट्वा जानाति जानकी ।

अयोध्याक्रोशमात्रे तु विहारमिव संश्रिता ॥ १३ ॥

इदमेव स्मराम्यस्याः सहसैवोपजल्पितम् ।

कैकेयीसंश्रितं वाक्यं नेदानीं प्रतिभाति मा ॥ १४ ॥

ध्वंसयित्वा तु तद्वाक्यं प्रमादात्पर्युपस्थितम् ।

ह्लदनं वचनं सूतो देव्या मधुरमब्रवीत् ॥ १५ ॥

अध्वना वात वेगेन सम्भ्रमेणातपेन च ।

न विगच्छति वैदेह्याश्चन्द्रांशु सदृशी प्रभा ॥ १६ ॥

सदृशं शतपत्रस्य पूर्ण चन्द्रोपम प्रभम् ।

वदनं तद्वदान्यायाः वैदेह्या न विकम्पते ॥ १७ ॥

अलक्तरसरक्ताभौ अलक्तरसवर्जितौ ।

अद्यापि चरणौ तस्याः पद्मकोशसमप्रभौ ॥ १८ ॥

नूपुरोद्घुष्ट हेलेव खेलं गच्छति भामिनी ।

इदानीमपि वैदेही तद्रागान्न्यस्तभूषणा ॥ १९ ॥

गजं वा वीक्ष्य सिंहं वा व्याघ्रं वा वनमाश्रिता ।

नाहारयति सन्त्रासं बाहू रामस्य संश्रिता ॥ २० ॥

न शोच्यास्ते न चात्मानः शोच्यो नापि जनाधिपः ।

इदं हि चरितं लोके प्रतिष्ठास्यति शाश्वतम् ॥ २१ ॥

विधूय शोकं परिहृष्टमानसा

महर्षियाते पथि सुव्यवस्थिताः ।

वने रता वन्यफलाशनाः पितुः

शुभां प्रतिज्ञां परिपालयन्ति ते ॥ २२ ॥

तथाऽपि सूतेन सुयुक्तवादिना

निवार्यमाणा सुत शोककर्शिता ।

न चैव देवी विरराम कूजितात्

प्रियेति पुत्रेति च राघवेति च ॥ २३ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे षष्ठितमः सर्गः ॥ ६० ॥

valmiki ramayan ayodhyakand adhyay 60