Skip to main content
पडताळणी प्रलंबित

अयोध्याकाण्ड त्रयोदशाधिकशततमः

॥ पादुकाग्रहणम् ॥

ततः शिरसि कृत्वा तु पादुके भरतस्तदा ।

आरुरोह रथं हृष्टः शत्रुघ्नेन समन्वितः ॥ १ ॥

वसिष्ठो वामदेवश्च जाबालिश्च दृढव्रतः ।

अग्रतः प्रययुः सर्वे मन्त्रिणो मन्त्रपूजिताः ॥ २ ॥

मन्दाकिनीं नदीं रम्यां प्राङ्ग्मुखास्ते ययुस्तदा ।

प्रदक्षिणं च कुर्वाणाश्चित्रकूटं महागिरिम् ॥ ३ ॥

पश्यन् धातुसहस्राणि रम्याणि विविधानि च ।

प्रययौ तस्य पार्श्वेन ससैन्यो भरतस्तदा ॥ ४ ॥

अदूराच्चित्रकूटस्य ददर्श भरतस्तदा ।

आश्रमं यत्र स मुनिर्भरद्वाजः कृतालयः ॥ ५ ॥

स तमाश्रममागम्य भरद्वाजस्य बुद्धिमान् ।

अवतीर्य रथात् पादौ ववन्दे भरतस्तदा ॥ ६ ॥

ततो हृष्टो भरद्वाजो भरतं वाक्यमब्रवीत् ।

अपि कृत्यं कृतं तात रामेण च समागतम् ॥ ७ ॥

एवमुक्तः स तु ततो भरद्वाजेन धीमता ।

प्रत्युवाच भरद्वाजं भरतो भ्रातृवत्सलः ॥ ८ ॥

स याच्यमानो गुरुणा मया च दृढविक्रमः ।

राघवः परमप्रीतो वसिष्ठं वाक्यमब्रवीत् ॥ ९ ॥

पितुः प्रतिज्ञां तामेव पालयिष्यामि तत्त्वतः ।

चतुर्दश हि वर्षाणि या प्रतिज्ञा पितुर्मम ॥ १० ॥

एवमुक्तो महाप्राज्ञो वसिष्ठः प्रत्युवाच ह ।

वाक्यज्ञो वाक्यकुशलं राघवं वचनं महत् ॥ ११ ॥

एते प्रयच्छ संहृष्टः पादुके हेमभूषिते ।

अयोध्यायां महाप्राज्ञ योगक्षेमकरे तव ॥ १२ ॥

एवमुक्तो वसिष्ठेन राघवः प्राङ्मुखः स्थितः ।

पादुके अधिरुह्यैते मम राज्याय वै ददौ ॥ १३ ॥

निवृत्तोऽहमनुज्ञातो रामेण सुमहात्मना ।

अयोध्यामेव गच्छामि गृहीत्वा पादुके शुभे ॥ १४ ॥

एतच्छ्रुत्वा शुभं वाक्यं भरतस्य महात्मनः ।

भरद्वाजः शुभतरं मुनिर्वाक्यमुवाच तम् ॥ १५ ॥

नैतच्चित्रं नरव्याघ्र शीलवृत्तवतां वर ।

यदार्यं त्वयि तिष्ठेत्तु निम्ने सृष्टमिवोदकम् ॥ १६ ॥

अमृतः स महाबाहुः पिता दशरथस्तव ।

यस्य त्वमीदृशः पुत्रो धर्मज्ञो धर्मवत्सलः ॥ १७ ॥

तमृषिं तु महात्मानमुक्तवाक्यं कृताञ्जलिः ।

आमन्त्रयितुमारेभे चरणावुपगृह्य च ॥ १८ ॥

ततः प्रदक्षिणं कृत्वा भरद्वाजं पुनःपुनः ।

भरतस्तु ययौ श्रीमानयोध्यां सह मन्त्रिभिः ॥ १९ ॥

यानैश्च शकटैश्चैव हयैर्नागैश्च सा चमूः ।

पुनर्निवृत्ता विस्तीर्णा भरतस्यानुयायिनी ॥ २० ॥

ततस्ते यमुनां दिव्यां नदीं तीर्त्वोर्मिमालिनीम् ।

ददृशुस्तां पुनः सर्वे गङ्गां शुभजलां नदीम् ॥ २१ ॥

तां रम्यजलसम्पूर्णां सन्तीर्य सहबान्धवः ।

शृङ्गिबेरपुरं रम्यं प्रविवेश ससैनिकः ॥ २२ ॥

शृङ्गिबेरपुराद्भूयस्त्वयोध्यां सन्ददर्श ह ।

अयोध्यां च ततो दृष्ट्वा पित्रा भ्रात्रा विवर्जिताम् ॥ २३ ॥

भरतो दुःखसन्तप्तः सारथिं चेदमब्रवीत् ।

सारथे पश्य विध्वस्ता साऽयोध्या न प्रकाशते ।

निराकारा निरानन्दा दीना प्रतिहतस्वरा ॥ २४ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे त्रयोदशोत्तरशततमः सर्गः ॥ ११३ ॥

valmiki ramayan ayodhyakand adhyay 113