Skip to main content
पडताळणी प्रलंबित

अयोध्याकाण्ड एकोनचत्वारिंशः

॥ वनगमनापृच्छा ॥

रामस्य तु वचः शृत्वा मुनिवेषधरं च तम् ।

समीक्ष्य सह भार्याभिः राजा विगतचेतनः ॥ १ ॥

नैनं दुःखेन सन्तप्तः प्रत्यवैक्षत राघवम् ।

न चैनमभिसम्प्रेक्ष्य प्रत्यभाषत दुर्मनाः ॥ २ ॥

स मुहूर्तमिवासञ्ज्ञो दुःखितश्च महीपतिः ।

विललाप महाबाहुः राममेवानुचिन्तयन् ॥ ३ ॥

मन्ये खलु मया पूर्वं विवत्सा बहवः कृताः ।

प्राणिनो हिंसिता वाऽपि तस्मादिदमुपस्थितम् ॥ ४ ॥

न त्वेवानागते काले देहाच्च्यवति जीवितम् ।

कैकेय्या क्लिश्यमानस्य मृत्युर्मम न विद्यते ॥ ५ ॥

योऽहं पावकसङ्काशं पश्यामि पुरतः स्थितम् ।

विहाय वसने सूक्ष्मे तापसाच्छादमात्मजम् ॥ ६ ॥

एकस्याः खलु कैकेय्याः कृतेऽयं क्लिश्यते जनः ।

स्वार्थे प्रयतमानायाः संश्रित्य निकृतिं त्विमाम् ॥ ७ ॥

एवमुक्त्वा तु वचनं बाष्पेण पिहितेन्द्रियः ।

रामेति सकृदेवोक्त्वा व्याहर्तुं न शशाक ह ॥ ८ ॥

सञ्ज्ञां तु प्रतिलभ्यैव मुहूर्तात्स महीपतिः ।

नेत्राभ्यामश्रुपूर्णाभ्यां सुमन्त्रमिदमब्रवीत् ॥ ९ ॥

औपवाह्यं रथं युक्त्वा त्वमायाहि हयोत्तमैः ।

प्रापयैनं महाभागमितो जनपदात्परम् ॥ १० ॥

एवं मन्ये गुणवतां गुणानां फलमुच्यते ।

पित्रा मात्रा च यत्साधुर्वीरो निर्वास्यते वनम् ॥ ११ ॥

राज्ञो वचनमाज्ञाय सुमन्त्रः शीघ्रविक्रमः ।

योजयित्वाऽऽययौ तत्र रथमश्वैरलङ्कृतम् ॥ १२ ॥

तं रथं राजपुत्राय सूतः कनकभूषितम् ।

आचचक्षेऽञ्जलिं कृत्वा युक्तं परमवाजिभिः ॥ १३ ॥

राजा सत्वरमाहूय व्यापृतं वित्तसञ्चये ।

उवाच देशकालज्ञं निश्चितं सर्वतः शुचिम् ॥ १४ ॥

वासांसि च महार्हाणि भूषणानि वराणि च ।

वर्षाण्येतानि सङ्ख्याय वैदेह्याः क्षिप्रमानय ॥ १५ ॥

नरेन्द्रेणैवमुक्तस्तु गत्वा कोशगृहं ततः ।

प्रायच्छत्सर्वमाहृत्य सीतायै सममेव तत् ॥ १६ ॥

सा सुजाता सुजातानि वैदेही प्रस्थिता वनम् ।

भूषयामास गात्राणि तैर्विचित्रैर्विभूषणैः ॥ १७ ॥

व्यराजयत वैदेही वेश्म तत्सुविभूषिता ।

उद्यतोंशुमतः काले खं प्रभेव विवस्वतः ॥ १८ ॥

तां भुजाभ्यां परिष्वज्य श्वश्रूर्वचनमब्रवीत् ।

अनाचरन्तीं कृपणं मूर्ध्न्युपाघ्राय मैथिलीम् ॥ १९ ॥

असत्यः सर्वलोकेऽस्मिन्सततं सत्कृताः प्रियैः ।

भर्तारं नानुमन्यन्ते विनिपातगतं स्त्रियः ॥ २० ॥

एष स्वभावो नारीणामनुभूय पुरा सुखम् ।

अल्पामप्यापदं प्राप्य दुष्यन्ति प्रजहत्यपि ॥ २१ ॥

असत्यशीला विकृता दुर्ग्राह्यहृदयाः सदा ।

युवत्यः पापसङ्कल्पाः क्षणमात्राद्विरागिणः ॥ २२ ॥

न कुलं न कृतं विद्यां न दत्तं नापि सङ्ग्रहम् ।

स्त्रीणां गृह्णाति हृदयमनित्यहृदया हि ताः ॥ २३ ॥

साध्वीनां हि स्थितानां तु शीले सत्ये श्रुते शमे ।

स्त्रीणां पवित्रं परमं पतिरेको विशिष्यते ॥ २४ ॥

स त्वया नावमन्तव्यः पुत्रः प्रव्राजितो मम ।

तव दैवतमस्त्वेषः निर्धनः सधनोऽपि वा ॥ २५ ॥

विज्ञाय वचनं सीता तस्या धर्मार्थसंहितम् ।

कृताञ्जलिरुवाचेदं श्वश्रूमभिमुखे स्थिताम् ॥ २६ ॥

करिष्ये सर्वमेवाहमार्या यदनुशास्ति माम् ।

अभिज्ञाऽस्मि यथा भर्तुः त्वर्तितव्यं श्रुतं च मे ॥ २७ ॥

न मामसज्जनेनार्या समानयितुमर्हति ।

धर्माद्विचलितुं नाहमलं चन्द्रादिव प्रभा ॥ २८ ॥

नातन्त्री वाद्यते वीणा नाचक्रो वर्तते रथः ।

नापतिः सुखमेधेत या स्यादपि शतात्मजा ॥ २९ ॥

मितं ददाति हि पिता मितं माता मितं सुतः ।

अमितस्य हि दातारं भर्तारं का न पूजयेत् ॥ ३० ॥

साऽहमेवङ्गता श्रेष्ठा श्रुतर्धर्मपरावरा ।

आर्ये किमवमन्येऽहं स्त्रीणां भर्ता हि दैवतम् ॥ ३१ ॥

सीताया वचनं श्रुत्वा कौसल्या हृदयङ्गमम् ।

शुद्धसत्त्वा मुमोचाश्रु सहसा दुःखहर्षजम् ॥ ३२ ॥

तां प्राञ्जलिरभिक्रम्य मातृमध्येऽतिसत्कृताम् ।

रामः परमधर्मात्मा मातरं वाक्यमब्रवीत् ॥ ३३ ॥

अम्ब मा दुःखिता भूस्त्वं पश्य त्वं पितरं मम ।

क्षयो हि वनवासस्य क्षिप्रमेव भविष्यति ॥ ३४ ॥

सुप्तायास्ते गमिष्यन्ति नव वर्षाणि पञ्च च ।

सा समग्रमिह प्राप्तं मां द्रक्ष्यसि सुहृद्वृतम् ॥ ३५ ॥

एतावदभिनीतार्थमुक्त्वा स जननीं वचः ।

त्रयः शतशतार्धाश्च ददर्शावेक्ष्य मातरः ॥ ३६ ॥

ताश्चापि स तथैवार्ता मातॄर्दशरथात्मजः ।

धर्मयुक्तमिदं वाक्यं निजगाद कृताञ्जलिः ॥ ३७ ॥

संवासात्परुषं किञ्चिदज्ञानाद्वाऽपि यत्कृतम् ।

तन्मे समनुजानीत सर्वाश्चामन्त्रयामि वः ॥ ३८ ॥

वचनं राघवस्यैतद्धर्मयुक्तं समाहितम् ।

शुश्रुवुस्ताः स्त्रियः सर्वाः शोकोपहतचेतसः ॥ ३९ ॥

जज्ञेऽथ तासां सन्नादः क्रौञ्चीनामिव निस्वनः ।

मानवेन्द्रस्य भार्याणामेवं वदति राघवे ॥ ४० ॥

मुरजपणवमेघघोषव-

-द्दशरथवेश्म बभूव यत्पुरा ।

विलपितपरिदेवनाकुलं

व्यसनगतं तदभूत्सुदुःखितम् ॥ ४१ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे एकोनचत्वारिंशः सर्गः ॥ ३९ ॥

valmiki ramayan ayodhyakand adhyay 39