Skip to main content
पडताळणी प्रलंबित

अयोध्याकाण्ड पञ्चचत्वारिंशः

॥ पौरयाचनम् ॥

अनुरक्ता महात्मानं रामं सत्यपराक्रमम् ।

अनुजग्मुः प्रयान्तं तं वनवासाय मानवाः ॥ १ ॥

निवर्तितेऽपि च बलात्सुहृद्वर्गे च राजनि ।

नैव ते संन्यवर्तन्त रामस्यानुगता रथम् ॥ २ ॥

अयोध्यानिलयानां हि पुरुषाणां महायशाः ।

बभूव गुणसम्पन्नः पूर्णचन्द्र इव प्रियः ॥ ३ ॥

स याच्यमानः काकुत्स्थः स्वाभिः प्रकृतिभिस्तदा ।

कुर्वाणः पितरं सत्यं वनमेवान्वपद्यत ॥ ४ ॥

अवेक्षमाणः सस्नेहं चक्षुषा प्रपिबन्निव ।

उवाच रामः स्नेहेन ताः प्रजास्स्वाः प्रजा इव ॥ ५ ॥

या प्रीतिर्बहुमानश्च मय्ययोध्यानिवासिनाम् ।

मत्प्रियार्थं विशेषेण भरते सा निवेश्यताम् ॥ ६ ॥

स हि कल्याणचारित्रः कैकेय्यानन्दवर्धनः ।

करिष्यति यथावद्वः प्रियाणि च हितानि च ॥ ७ ॥

ज्ञानवृद्धो वयोबालो मृदुर्वीर्यगुणान्वितः ।

अनुरूपः स वो भर्ता भविष्यति भयापहः ॥ ८ ॥

स हि राजगुणैर्युक्तो युवराजः समीक्षितः ।

अपि चापि मया शिष्टैः कार्यं वो भर्तृशासनम् ॥ ९ ॥

न च तप्येद्यथा चासौ वनवासं गते मयि ।

महाराजस्तथा कार्यो मम प्रियचिकीर्षया ॥ १० ॥

यथायथा दाशरथिर्धर्म एव स्थितोऽभवत् ।

तथातथा प्रकृतयो रामं पतिमकामयन् ॥ ११ ॥

बाष्पेण पिहितं दीनं रामः सौमित्रिणा सह ।

चकर्षेव गुणैर्बद्ध्वा जनं पुनरिवासिनम् ॥ १२ ॥

ते द्विजास्त्रिविधं वृद्धाः ज्ञानेन वयसौजसा ।

वयः प्रकम्पशिरसो दूरादूचुरिदं वचः ॥ १३ ॥

वहन्तः जवना रामं भोभो जात्यास्तुरङ्गमाः ।

निवर्तध्वं न गन्तव्यं हिता भवत भर्तरि ॥ १४ ॥

कर्णवन्ति हि भूतानि विशेषेण तुरङ्गमाः ।

यूयं तस्मान्निवर्तध्वं याचनां प्रतिवेदिताः ॥ १५ ॥

धर्मतः स विशुद्धात्मा वीरः शुभदृढव्रतः ।

उपवाह्यस्तु वो भर्ता नापवाह्यः पुराद्वनम् ॥ १६ ॥

एवमार्तप्रलापांस्तान्वृद्धान्प्रलपतो द्विजान् ।

अवेक्ष्य सहसा रामः रथादवततार ह ॥ १७ ॥

पद्भ्यामेव जगामाथ ससीतः सहलक्ष्मणः ।

सन्निकृष्टपदन्यासो रामः वनपरायणः ॥ १८ ॥

द्विजातींस्तु पदातींस्तान्रामश्चारित्रवत्सलः ।

न शशाक घृणाचक्षुः परिमोक्तुं रथेन सः ॥ १९ ॥

गच्छन्तमेव तं दृष्ट्वा रामं सम्भ्रान्तचेतसः ।

ऊचुः परमसन्तप्ता रामं वाक्यमिदं द्विजाः ॥ २० ॥

ब्राह्मण्यं कृत्स्नमेतत्त्वां ब्रह्मण्यमनुगच्छति ।

द्विजस्कन्धाधिरूढास्त्वाम् अग्नयोऽप्यनुयान्त्यमी ॥ २१ ॥

वाजपेयसमुत्थानि छत्राण्येतानि पश्य नः ।

पृष्ठतोनुप्रयातानि मेघानिव जलात्यये ॥ २२ ॥

अनवाप्तातपत्रस्य रश्मिसन्तापितस्य ते ।

एभिश्छायां करिष्यामः स्वैश्छत्रैर्वाजपेयिकैः ॥ २३ ॥

या हि नः सततं बुद्धिर्वेदमन्त्रानुसारिणी ।

त्वत्कृते सा कृता वत्स वनवासानुसारिणी ॥ २४ ॥

हृदयेष्वेव तिष्ठन्ति वेदा ये नः परं धनम् ।

वत्स्यन्त्यपि गृहेष्वेव दाराश्चारित्ररक्षिताः ॥ २५ ॥

न पुनर्निश्चयः कार्यस्त्वद्गतौ सुकृता मतिः ।

त्वयि धर्मव्यपेक्षे तु किं स्याद्धर्ममपेक्षितुम् ॥ २६ ॥ [पथेस्थितम्]

याचितो नो निवर्तस्व हंसशुक्लशिरोरुहैः ।

शिरोभिर्निभृताचार महीपतनपांसुलैः ॥ २७ ॥

बहूनां वितता यज्ञा द्विजानां य इहागताः ।

तेषां समाप्तिरायत्ता तव वत्स निवर्तने ॥ २८ ॥

भक्तिमन्ति हि भूतानि जङ्गमाऽजङ्गमानि च ।

याचमानेषु राम त्वं भक्तिं भक्तेषु दर्शय ॥ २९ ॥

अनुगन्तुमशक्तास्त्वां मूलैरुद्धतवेगिनः ।

उन्नता वायुवेगेन विक्रोशन्तीव पादपाः ॥ ३० ॥

निश्चेष्टाहारसञ्चारा वृक्षैकस्थानविष्ठिताः ।

पक्षिणोऽपि प्रयाचन्ते सर्वभूतानुकम्पिनम् ॥ ३१ ॥

एवं विक्रोशतां तेषां द्विजातीनां निवर्तने ।

ददृशे तमसा तत्र वारयन्तीव राघवम् ॥ ३२ ॥

ततः सुमन्त्रोऽपि रथाद्विमुच्य

श्रान्तान्हयान्सम्परिवर्त्य श्रीघ्रम् ।

पीतोदकांस्तोयपरिप्लुताङ्गान्

अचारयद्वै तमसाविदूरे ॥ ३३ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे पञ्चचत्वारिंशः सर्गः ॥ ४५ ॥

valmiki ramayan ayodhyakand adhyay 45