Skip to main content
पडताळणी प्रलंबित

अयोध्याकाण्ड एकोनपञ्चाशः

॥ जानपदाक्रोशः ॥

रामोऽपि रात्रिशेषेण तेनैव महदन्तरम् ।

जगाम पुरुषव्याघ्रः पितुराज्ञामनुस्मरन् ॥ १ ॥

तथैव गच्छतस्तस्य व्यपायाद्रजनी शिवा ।

उपास्य स शिवां सन्ध्यां विषयान्तं व्यगाहत ॥ २ ॥

ग्रामान्विकृष्टसीमान्तान्पुष्पितानि वनानि च ।

पश्यन्नतिययौ शीघ्रं शनैरिव हयोत्तमैः ।

शृण्वन्वाचो मनुष्याणां ग्रामसंवासवासिनाम् ॥ ३ ॥

[* विगर्हितां हि कैकेयीं क्रूरां क्रूरेण कर्मणा । *]

राजानं धिग्दशरथं कामस्य वशमागतम् ॥ ४ ॥

हा नृशंसाऽद्य कैकेयी पापा पापानुबन्धिनी ।

तीक्ष्णा सम्भिन्नमर्यादा तीक्ष्णकर्मणि वर्तते ॥ ५ ॥

या पुत्रमीदृशं राज्ञः प्रवासयति धार्मिकम् ।

वनवासे महाप्राज्ञं सानुक्रोशं जितेन्द्रियम् ॥ ६ ॥

कथं नाम महाभागा सीता जनकनन्दिनी ।

सदा सुखेष्वभिरता दुःखान्यनुभविष्यति ॥ ७ ॥

अहो दशरथो राजा निस्स्नेहः स्वसुतं प्रियम् ।

प्रजानामनघं रामं परित्यक्तुमिहेच्छति ॥ ८ ॥

एता वाचो मनुष्याणां ग्रामसंवासवासिनाम् ।

शृण्वन्नतिययौ वीरः कोसलान्कोसलेश्वरः ॥ ९ ॥

ततः वेदश्रुतिं नाम शिववारिवहां नदीम् ।

उत्तीर्याभिमुखः प्रायादगस्त्याध्युषितां दिशम् ॥ १० ॥

गत्वा तु सुचिरं कालं ततः शिवजलां नदीम् ।

गोमतीं गोयुतानूपामतरत्सागरङ्गमाम् ॥ ११ ॥

गोमतीं चाप्यतिक्रम्य राघवः शीघ्रगैर्हयैः ।

मयूरहंसाभिरुतां ततार स्यन्दिकां नदीम् ॥ १२ ॥

स महीं मनुना राज्ञा दत्तामिक्ष्वाकवे पुरा ।

स्फीतां राष्ट्रावृतां रामः वैदेहीमन्वदर्शयत् ॥ १३ ॥

सूत इत्येव चाभाष्य सारथिं तमभीक्ष्णशः ।

हंसमत्तस्वरः श्रीमानुवाच पुरुषर्षभः ॥ १४ ॥

कदाऽहं पुनरागम्य सरय्वाः पुष्पिते वने ।

मृगयां पर्याटिष्यामि मात्रा पित्रा च सङ्गतः ॥ १५ ॥

राजर्षीणां हि लोकेऽस्मिन् रत्यर्थं मृगया वने ।

काले कृतां तां मनुजैर्धन्विनामभिकाङ्क्षिताम् ॥ १६ ॥

नात्यर्थमभिकाङ्क्षामि मृगयां सरयूवने ।

रतिर्ह्येषाऽतुला लोके राजर्षिगणसम्मता ॥ १७ ॥

स तमध्वानमैक्ष्वाकः सूतं मधुरया गिरा ।

तन्तमर्थमभिप्रेत्य ययौ वाक्यमुदीरयन् ॥ १८ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे एकोनपञ्चाशः सर्गः ॥ ४९ ॥

valmiki ramayan ayodhyakand adhyay 49