Skip to main content
पडताळणी प्रलंबित

अयोध्याकाण्ड एकाशीतितमः

॥ सभास्तानम् ॥

ततो नान्दीमुखीं रात्रिं भरतं सूतमागधाः ।

तुष्टुवुर्वाग्विशेषज्ञाः स्तवैः मङ्गलसंहितैः ॥ १ ॥

सुवर्ण कोणाभिहतः प्राणदद्यामदुन्दुभिः ।

दध्मुः शङ्खांश्च शतशो नादांश्चोच्चावचस्वरान् ॥ २ ॥

स तूर्यघोषः सुमहान् दिवमापूरयन्निव ।

भरतं शोकसन्तप्तं भूयः शोकैररन्ध्रयत् ॥ ३ ॥

ततः प्रबुद्धो भरतस्तं घोषं संनिवर्त्य च ।

नाहं राजेति चाप्युक्त्वा शत्रुघ्नमिदमब्रवीत् ॥ ४ ॥

पश्य शत्रुघ्न कैकेय्या लोकस्यापकृतं महत् ।

विसृज्य मयि दुःखानि राजा दशरथो गतः ॥ ५ ॥

तस्यैषा धर्मराजस्य धर्ममूला महात्मनः ।

परिभ्रमति राजश्रीः नौरिवाकर्णिका जले ॥ ६ ॥

यो हि नः सुमहान्नाथः सोऽपि प्रव्राजितो वनम् ।

अनया धर्ममुत्सृज्य मात्रा मे राघवः स्वयम् ॥ ७ ॥

इत्येवं भरतं प्रेक्ष्य विलपन्तं विचेतनम् ।

कृपणं रुरुदुः सर्वाः सस्वरं योषितस्तदा ॥ ८ ॥

तथा तस्मिन्विलपति वसिष्ठो राजधर्मवित् ।

सभामिक्ष्वाकुनाथस्य प्रविवेश महायशाः ॥ ९ ॥

शातकुम्भमयीं रम्यां मणिरत्नसमाकुलाम् ।

सुधर्मामिव धर्मात्मा सगणः प्रत्यपद्यत ॥ १० ॥

स काञ्चनमयं पीठं सुखास्तरणसंवृतम् ।

अध्यास्त सर्ववेदज्ञो दूताननुशशास च ॥ ११ ॥

ब्राह्मणान् क्षत्रियान् वैश्यान् अमात्यान् गणवल्लभान् ।

क्षिप्रमानयताव्यग्राः कृत्यमात्ययिकं हि नः ॥ १२ ॥

सराजभृत्यं शत्रुघ्नं भरतं च यशस्विनम् ।

युधाजितं सुमन्त्रं च ये च तत्र हिता जनाः ॥ १३ ॥

ततः हलहलाशब्दो महान्समुदपद्यत ।

रथैरश्वैः गजैश्चापि जनानामुपगच्छताम् ॥ १४ ॥

ततः भरतमायान्तं शतक्रतुमिवामराः ।

प्रत्यनन्दन् प्रकृतयो यथा दशरथं तथा ॥ १५ ॥

ह्रदैव तिमिनागसंवृतः

स्तिमितजलो मणिशङ्खशर्करः ।

दशरथसुतशोभिता सभा

सदशरथेव बभौ यथा पुरा ॥ १६ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे एकाशीतितमः सर्गः ॥ ८१ ॥

valmiki ramayan ayodhyakand adhyay 81