Skip to main content
पडताळणी प्रलंबित

अयोध्याकाण्ड षट्त्रिंशः

॥ सिद्धार्थप्रतिबोधनम् ॥

ततः सुमन्त्रमैक्ष्वाकः पीडितोऽत्र प्रतिज्ञया ।

सबाष्पमतिनिश्वस्य जगादेदं पुनः पुनः ॥ १ ॥

सूत रत्नसुसम्पूर्णा चतुर्विधबला चमूः ।

राघवस्यानुयात्रार्थं क्षिप्रं प्रतिविधीयताम् ॥ २ ॥

रूपाजीवाश्च वादिन्यो वणिजश्च महाधनाः ।

शोभयन्तु कुमारस्य वाहिनीं सुप्रसारिताः ॥ ३ ॥

ये चैनमुपजीवन्ति रमते यैश्च वीर्यतः ।

तेषां बहुविधं दत्त्वा तानप्यत्र नियोजय ॥ ४ ॥

आयुधानि च मुख्यानि नागराः शकटानि च ।

अनुगच्छन्तु काकुत्थ्सं व्याधाश्चारण्यगोचराः ॥ ५ ॥

निघ्नन्मृगान्कुञ्जरांश्च पिबंश्चारण्यकं मधु ।

नदीश्च विविधाः पश्यन्न राज्यस्य स्मरिष्यति ॥ ६ ॥

धान्यकोशश्च यः कश्चिद्धनकोशश्च मामकः ।

तौ राममनुगच्छेतां वसन्तं निर्जने वने ॥ ७ ॥

यजन्पुण्येषु देशेषु विसृजंश्चाप्तदक्षिणाः ।

ऋषिभिश्च समागम्य प्रवत्स्यति सुखं वने ॥ ८ ॥

भरतश्च महाबाहुः अयोध्यां पालयिष्यति ।

सर्वकामैः पुनः श्रीमान्रामः संसाध्यतामिति ॥ ९ ॥ [सह]

एवं ब्रुवति काकुत्स्थे कैकेय्या भयमागतम् ।

मुखं चाप्यगमच्छोषं स्वरश्चापि न्यरुध्यत ॥ १० ॥

सा विषण्णा च सन्त्रस्ता मुखेन परिशुष्यता ।

राजानमेवाभिमुखी कैकेयी वाक्यमब्रवीत् ॥ ११ ॥

राज्यं गतजनं साधो पीतमण्डां सुरामिव ।

निरास्वाद्यतमं शून्यं भरतो नाभिपत्स्यते ॥ १२ ॥

कैकेय्यां मुक्तलज्जायां वदन्त्यामतिदारुणम् ।

राजा दशरथो वाक्यमुवाचायतलोचनाम् ॥ १३ ॥

वहन्तं किं तुदसि मां नियुज्य धुरि माऽहिते ।

अनार्ये कृत्यमारब्धं किं न पूर्वमुपारुधः ॥ १४ ॥

तस्यैतत्क्रोधसम्युक्तंमुक्तं श्रुत्वा वराङ्गना ।

कैकेयी द्विगुणं क्रुद्धा राजानमिदमब्रवीत् ॥ १५ ॥

तवैव वंशे सगरो ज्येष्ठपुत्रमुपारुधत् ।

असमञ्ज इति ख्यातं तथाऽयं गन्तुमर्हति ॥ १६ ॥

एवमुक्तोधिगित्येव राजा दशरथोऽब्रवीत् ।

व्रीडितश्च जनः सर्वः सा च तं नावबुध्यत ॥ १७ ॥

तत्र वृद्धो महामात्रः सिद्धार्थो नाम नामतः ।

शुचिर्बहुमतो राज्ञः कैकेयीमिदमब्रवीत् ॥ १८ ॥

असमञ्जो गृहीत्वा तु क्रीडितः पथि दारकान् ।

सरय्वाः प्रक्षिपन्नप्सु रमते तेन दुर्मतिः ॥ १९ ॥

तं दृष्ट्वा नागराः सर्वे क्रुद्धा राजानमब्रुवन् ।

असमञ्जं वृणीष्वैकमस्मान्वा राष्ट्रवर्धन ॥ २० ॥

तानुवाच ततो राजा किं निमित्तमिदं भयम् ।

ताश्चापि राज्ञा सम्पृष्टा वाक्यं प्रकृतयोऽब्रुवन् ॥ २१ ॥

क्रीडतस्त्वेष नः पुत्रान्बालानुद्भ्रान्तचेतनः ।

सरय्वां प्रक्षिपन्मौर्ख्यादतुलां प्रीतिमश्नुते ॥ २२ ॥

स तासां वचनं श्रुत्वा प्रकृतीनां नराधिपः ।

तं तत्याजाहितं पुत्रं तेषां प्रियचिकीर्षया ॥ २३ ॥ [तासां]

तं यानं शीघ्रमारोप्य सभार्यं सपरिच्छदम् ।

यावज्जीवं विवास्योऽयमिति स्वानन्वशात्पिता ॥ २४ ॥

स फालपिटकं गृह्य गिरिदुर्गाण्यलोलयत् ।

दिशः सर्वास्त्वनुचरन्स यथा पापकर्मकृत् ॥ २५ ॥

इत्येवमत्यजद्राजा सगरो वै सुधार्मिकः ।

रामः किमकरोत्पापं येनैवमुपरुध्यते ॥ २६ ॥

न हि कञ्चन पश्यामो राघवस्यागुणं वयम् ।

दुर्लभो ह्यस्य निरयः शशाङ्कस्येव कल्मषम् ॥ २७ ॥

अथवा देवि दोषं त्वं कञ्चित्पश्यसि राघवे ।

तमद्य ब्रूहि तत्वेन ततो रामो विवास्यताम् ॥ २८ ॥

अदुष्टस्य हि सन्त्यागः सत्पथे निरतस्य च ।

निर्दहेदपि शक्रस्य द्युतिं धर्मनिरोधनात् ॥ २९ ॥

तदलं देवि रामस्य श्रिया विहतया त्वया ।

लोकतोऽपि हि ते रक्ष्यः परिवादः शुभानने ॥ ३० ॥

श्रुत्वा तु सिद्धार्थवचो राजा श्रान्ततरस्वनः ।

शोकोपहतया वाचा कैकेयीमिदमब्रवीत् ॥ ३१ ॥

एतद्वचो नेच्छसि पापवृत्ते

हितं न जानासि ममात्मनो वा ।

आस्थाय मार्गं कृपणं कुचेष्टा

चेष्टा हि ते साधुपथादपेता ॥ ३२ ॥

अनुव्रजिष्याम्यहमद्य रामं

राज्यं परित्यज्य धनं सुखं च ।

सहैव राज्ञा भरतेन च त्वं

यथा सुखं भुङ्क्ष्व चिराय राज्यम् ॥ ३३ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे षट्त्रिंशः सर्गः ॥ ३६ ॥

valmiki ramayan ayodhyakand adhyay 36