Skip to main content
पडताळणी प्रलंबित

श्री बगलामुखी सहस्रनामावली

ओं ब्रह्मास्त्रब्रह्मविद्यायै नमः ।

ओं ब्रह्ममात्रे नमः ।

ओं सनातन्यै नमः ।

ओं ब्रह्मेश्यै नमः ।

ओं ब्रह्मकैवल्यबगलायै नमः ।

ओं ब्रह्मचारिण्यै नमः ।

ओं नित्यानन्दायै नमः ।

ओं नित्यसिद्धायै नमः ।

ओं नित्यरूपायै नमः ।

ओं निरामयायै नमः ।

ओं सन्धारिण्यै नमः ।

ओं महामायायै नमः ।

ओं कटाक्षक्षेमकारिण्यै नमः ।

ओं कमलायै नमः ।

ओं विमलायै नमः ।

ओं नीलरत्नकान्तिगुणाश्रितायै नमः ।

ओं कामप्रियायै नमः ।

ओं कामरतायै नमः ।

ओं कामकामस्वरूपिण्यै नमः ।

ओं मङ्गलायै नमः । २०

ओं विजयायै नमः ।

ओं जायायै नमः ।

ओं सर्वमङ्गलकारिण्यै नमः ।

ओं कामिन्यै नमः ।

ओं कामिनीकाम्यायै नमः ।

ओं कामुकायै नमः ।

ओं कामचारिण्यै नमः ।

ओं कामप्रियायै नमः ।

ओं कामरतायै नमः ।

ओं कामकामस्वरूपिण्यै नमः ।

ओं कामाख्यायै नमः ।

ओं कामबीजस्थायै नमः ।

ओं कामपीठनिवासिन्यै नमः ।

ओं कामदायै नमः ।

ओं कामहायै नमः ।

ओं काल्यै नमः ।

ओं कपाल्यै नमः ।

ओं करालिकायै नमः ।

ओं कंसार्यै नमः ।

ओं कमलायै नमः । ४०

ओं कामायै नमः ।

ओं कैलासेश्वरवल्लभायै नमः ।

ओं कात्यायन्यै नमः ।

ओं केशवायै नमः ।

ओं करुणायै नमः ।

ओं कामकेलिभुजे नमः ।

ओं क्रियाकीर्त्यै नमः ।

ओं कृत्तिकायै नमः ।

ओं काशिकायै नमः ।

ओं मथुरायै नमः ।

ओं शिवायै नमः ।

ओं कालाक्ष्यै नमः ।

ओं कालिका काल्यै नमः ।

ओं धवलाननसुन्दर्यै नमः ।

ओं खेचर्यै नमः ।

ओं खमूर्त्यै नमः ।

ओं क्षुद्राऽक्षुद्रक्षुधावरायै नमः ।

ओं खड्गहस्तायै नमः ।

ओं खड्गरतायै नमः ।

ओं खड्गिन्यै नमः । ६०

ओं खर्परप्रियायै नमः ।

ओं गङ्गायै नमः ।

ओं गौर्यै नमः ।

ओं गामिन्यै नमः ।

ओं गीतायै नमः ।

ओं गोत्रविवर्धिन्यै नमः ।

ओं गोधरायै नमः ।

ओं गोकरायै नमः ।

ओं गोधायै नमः ।

ओं गन्धर्वपुरवासिन्यै नमः ।

ओं गन्धर्वायै नमः ।

ओं गन्धर्वकलागोपन्यै नमः ।

ओं गरुडासनायै नमः ।

ओं गोविन्दभावायै नमः ।

ओं गोविन्दायै नमः ।

ओं गान्धार्यै नमः ।

ओं गन्धमादिन्यै नमः ।

ओं गौराङ्ग्यै नमः ।

ओं गोपिकामूर्तये नमः ।

ओं गोपीगोष्ठनिवासिन्यै नमः । ८०

ओं गन्धायै नमः ।

ओं गजेन्द्रगामान्यायै नमः ।

ओं गदाधरप्रियाग्रहायै नमः ।

ओं घोरघोरायै नमः ।

ओं घोररूपायै नमः ।

ओं घनश्रोण्यै नमः ।

ओं घनप्रभायै नमः ।

ओं दैत्येन्द्रप्रबलायै नमः ।

ओं घण्टावादिन्यै नमः ।

ओं घोरनिस्वनायै नमः ।

ओं डाकिन्यै नमः ।

ओं उमायै नमः ।

ओं उपेन्द्रायै नमः ।

ओं उर्वश्यै नमः ।

ओं उरगासनायै नमः ।

ओं उत्तमायै नमः ।

ओं उन्नतायै नमः ।

ओं उन्नायै नमः ।

ओं उत्तमस्थानवासिन्यै नमः ।

ओं चामुण्डायै नमः । १००

ओं मुण्डिकायै नमः ।

ओं चण्ड्यै नमः ।

ओं चण्डदर्पहरायै नमः ।

ओं उग्रचण्डायै नमः ।

ओं चण्डचण्डायै नमः ।

ओं चण्डदैत्यविनाशिन्यै नमः ।

ओं चण्डरूपायै नमः ।

ओं प्रचण्डायै नमः ।

ओं चण्डाचण्डशरीरिण्यै नमः ।

ओं चतुर्भुजायै नमः ।

ओं प्रचण्डायै नमः ।

ओं चराचरनिवासिन्यै नमः ।

ओं क्षत्रप्रायःशिरोवाहायै नमः ।

ओं छलाछलतरायै नमः ।

ओं छल्यै नमः ।

ओं क्षत्ररूपायै नमः ।

ओं क्षत्रधरायै नमः ।

ओं क्षत्रियक्षयकारिण्यै नमः ।

ओं जयायै नमः ।

ओं जयदुर्गायै नमः । १२०

ओं जयन्त्यै नमः ।

ओं परायै जयदायै नमः ।

ओं जायिनीजयिन्यै नमः ।

ओं ज्योत्स्नाजटाधरप्रियायै नमः ।

ओं अजितायै नमः ।

ओं जितेन्द्रियायै नमः ।

ओं जितक्रोधायै नमः ।

ओं जयमानायै नमः ।

ओं जनेश्वर्यै नमः ।

ओं जितमृत्यवे नमः ।

ओं जरातीतायै नमः ।

ओं जाह्नव्यै नमः ।

ओं जनकात्मजायै नमः ।

ओं झङ्कारायै नमः ।

ओं झञ्झरीझण्टायै नमः ।

ओं झङ्कारीझकशोभिन्यै नमः ।

ओं झखाझमेशायै नमः ।

ओं झङ्कारीयोनिकल्याणदायिन्यै नमः ।

ओं झर्झरायै नमः ।

ओं झमुरीझारायै नमः । १४०

ओं झराझरतरायै परायै नमः ।

ओं झञ्झाझमेतायै नमः ।

ओं झङ्कारीझणाकल्याणदायिन्यै नमः ।

ओं ङमुनामानसीचिन्त्यायै नमः ।

ओं ङमुनाशङ्करप्रियायै नमः ।

ओं टङ्कारीटिटिकायै नमः ।

ओं टीकाटङ्किन्यै नमः ।

ओं टवर्गगायै नमः ।

ओं टापाटोपायै नमः ।

ओं टटपत्यै नमः ।

ओं टमन्यै नमः ।

ओं टमनप्रियायै नमः ।

ओं ठकारधारिण्यै नमः ।

ओं ठीकाठङ्कर्यै नमः ।

ओं ठिकरप्रियायै नमः ।

ओं ठेकठासायै नमः ।

ओं ठकरतीठामिन्यै नमः ।

ओं ठमनप्रियायै नमः ।

ओं डारहायै नमः ।

ओं डाकिन्यै नमः । १६०

ओं डाराडामरायै नमः ।

ओं डामरप्रियायै नमः ।

ओं डखिनीडडयुक्तायै नमः ।

ओं डमरूकरवल्लभायै नमः ।

ओं ढक्काढक्कीढक्कनादायै नमः ।

ओं ढोलशब्दप्रबोधिन्यै नमः ।

ओं ढामिनीढामनप्रीतायै नमः ।

ओं ढगतन्त्रप्रकाशिन्यै नमः ।

ओं अनेकरूपिण्यै नमः ।

ओं अम्बायै नमः ।

ओं अणिमासिद्धिदायिन्यै नमः ।

ओं आमन्त्रिण्यै नमः ।

ओं अणुकर्यै नमः ।

ओं अणुमद्भानुसंस्थितायै नमः ।

ओं तारातन्त्रवत्यै नमः ।

ओं तन्त्रतत्त्वरूपायै नमः ।

ओं तपस्विन्यै नमः ।

ओं तरङ्गिण्यै नमः ।

ओं तत्त्वपरायै नमः ।

ओं तन्त्रिकातन्त्रविग्रहायै नमः । १८०

ओं तपोरूपायै नमः ।

ओं तत्त्वदात्र्यै नमः ।

ओं तपःप्रीतिप्रधर्षिण्यै नमः ।

ओं तन्त्रयन्त्रार्चनपरायै नमः ।

ओं तलातलनिवासिन्यै नमः ।

ओं तल्पदायै नमः ।

ओं अल्पदायै नमः ।

ओं कामास्थिरायै नमः ।

ओं स्थिरतरायै नमः ।

ओं स्थित्यै नमः ।

ओं स्थाणुप्रियायै नमः ।

ओं स्थितिपरायै नमः ।

ओं स्थितास्थानप्रदायिन्यै नमः ।

ओं दिगम्बरायै नमः ।

ओं दयारूपायै नमः ।

ओं दावाग्निदमनीदमायै नमः ।

ओं दुर्गायै नमः ।

ओं दुर्गपरादेव्यै नमः ।

ओं दुष्टदैत्यविनाशिन्यै नमः ।

ओं दमनप्रमदायै नमः । २००

ओं दैत्यदयादानपरायणायै नमः ।

ओं दुर्गार्तिनाशिन्यै नमः ।

ओं दान्तायै नमः ।

ओं दम्भिन्यै नमः ।

ओं दम्भवर्जितायै नमः ।

ओं दिगम्बरप्रियायै नमः ।

ओं दम्भायै नमः ।

ओं दैत्यदम्भविदारिण्यै नमः ।

ओं दमनाशनसौन्दर्यायै नमः ।

ओं दानवेन्द्रविनाशिन्यै नमः ।

ओं दयाधरायै नमः ।

ओं दमन्यै नमः ।

ओं दर्भपत्रविलासिन्यै नमः ।

ओं धरणीधारिण्यै नमः ।

ओं धात्र्यै नमः ।

ओं धराधरधरप्रियायै नमः ।

ओं धराधरसुतायै देव्यै नमः ।

ओं सुधर्माधर्मचारिण्यै नमः ।

ओं धर्मज्ञायै नमः ।

ओं धवलाधूलायै नमः । २२०

ओं धनदायै नमः ।

ओं धनवर्धिन्यै नमः ।

ओं धीरायै नमः ।

ओं अधीरायै नमः ।

ओं धीरतरायै नमः ।

ओं धीरसिद्धिप्रदायिन्यै नमः ।

ओं धन्वन्तरिधराधीरायै नमः ।

ओं ध्येयध्यानस्वरूपिण्यै नमः ।

ओं नारायण्यै नमः ।

ओं नारसिंह्यै नमः ।

ओं नित्यानन्दनरोत्तमायै नमः ।

ओं नक्ताऽनक्तवत्यै नमः ।

ओं नित्यायै नमः ।

ओं नीलजीमूतसन्निभायै नमः ।

ओं नीलाङ्ग्यै नमः ।

ओं नीलवस्त्रायै नमः ।

ओं नीलपर्वतवासिन्यै नमः ।

ओं सुनीलपुष्पखचितायै नमः ।

ओं नीलजम्बूसमप्रभायै नमः ।

ओं नित्याख्यायै नमः । २४०

ओं षोडश्यै नमः ।

ओं विद्यायै नमः ।

ओं नित्यानित्यसुखावहायै नमः ।

ओं नर्मदायै नमः ।

ओं नन्दनानन्दायै नमः ।

ओं नन्दानन्दविवर्धिन्यै नमः ।

ओं यशोदानन्दतनयायै नमः ।

ओं नन्दनोद्यानवासिन्यै नमः ।

ओं नागान्तकायै नमः ।

ओं नागवृद्धायै नमः ।

ओं नागपत्न्यै नमः ।

ओं नागिन्यै नमः ।

ओं नमिताशेषजनतायै नमः ।

ओं नमस्कारवत्यै नमः ।

ओं नमसे नमः ।

ओं पीताम्बरायै नमः ।

ओं पार्वत्यै नमः ।

ओं पीताम्बरविभूषितायै नमः ।

ओं पीतमाल्याम्बरधरायै नमः ।

ओं पीताभायै नमः । २६०

ओं पिङ्गमूर्धजायै नमः ।

ओं पीतपुष्पार्चनरतायै नमः ।

ओं पीतपुष्पसमर्चितायै नमः ।

ओं परप्रभायै नमः ।

ओं पितृपत्यै नमः ।

ओं परसैन्यविनाशिन्यै नमः ।

ओं परमायै नमः ।

ओं परतन्त्रायै नमः ।

ओं परमन्त्रायै नमः ।

ओं परात्परायै नमः ।

ओं परायै विद्यायै नमः ।

ओं परायै सिद्ध्यै नमः ।

ओं परास्थानप्रदायिन्यै नमः ।

ओं पुष्पायै नमः ।

ओं नित्यं पुष्पवत्यै नमः ।

ओं पुष्पमालाविभूषितायै नमः ।

ओं पुरातनायै नमः ।

ओं पूर्वपरायै नमः ।

ओं परसिद्धिप्रदायिन्यै नमः ।

ओं पीतानितम्बिन्यै नमः । २८०

ओं पीतापीनोन्नतपयस्तन्यै नमः ।

ओं प्रेमाप्रमध्यमाशेषायै नमः ।

ओं पद्मपत्रविलासिन्यै नमः ।

ओं पद्मावत्यै नमः ।

ओं पद्मनेत्रायै नमः ।

ओं पद्मायै नमः ।

ओं पद्ममुखीपरायै नमः ।

ओं पद्मासनायै नमः ।

ओं पद्मप्रियायै नमः ।

ओं पद्मरागस्वरूपिण्यै नमः ।

ओं पावन्यै नमः ।

ओं पालिकायै नमः ।

ओं पात्र्यै नमः ।

ओं परदायै नमः ।

ओं वरदायै नमः ।

ओं शिवायै नमः ।

ओं प्रेतसंस्थायै नमः ।

ओं परानन्दायै नमः ।

ओं परब्रह्मस्वरूपिण्यै नमः ।

ओं जिनेश्वरप्रियायै देव्यै नमः । ३००

ओं पशुरक्तरतप्रियायै नमः ।

ओं पशुमांसप्रियायै नमः ।

ओं अपर्णायै नमः ।

ओं परामृतपरायणायै नमः ।

ओं पाशिन्यै नमः ।

ओं पाशिकायै नमः ।

ओं पशुघ्न्यै नमः ।

ओं पशुभाषिण्यै नमः ।

ओं फुल्लारविन्दवदन्यै नमः ।

ओं फुल्लोत्पलशरीरिण्यै नमः ।

ओं परानन्दप्रदायै नमः ।

ओं वीणायै नमः ।

ओं पशुपाशविनाशिन्यै नमः ।

ओं फूत्कारायै नमः ।

ओं फूत्परायै नमः ।

ओं फेण्यै नमः ।

ओं फुल्लेन्दीवरलोचनायै नमः ।

ओं फट्मन्त्रायै नमः ।

ओं स्फटिकायै नमः ।

ओं स्वाहायै नमः । ३२०

ओं स्फोटायै नमः ।

ओं फट्स्वरूपिण्यै नमः ।

ओं स्फाटिकाघुटिकायै नमः ।

ओं घोरायै नमः ।

ओं स्फटिकाद्रिस्वरूपिण्यै नमः ।

ओं वराङ्गनायै नमः ।

ओं वरधरायै नमः ।

ओं वाराह्यै नमः ।

ओं वासुकीवरायै नमः ।

ओं बिन्दुस्थायै नमः ।

ओं बिन्दुनीवाण्यै नमः ।

ओं बिन्दुचक्रनिवासिन्यै नमः ।

ओं विद्याधर्यै नमः ।

ओं विशालाक्ष्यै नमः ।

ओं काशीवासिजनप्रियायै नमः ।

ओं वेदविद्यायै नमः ।

ओं विरूपाक्ष्यै नमः ।

ओं विश्वयुजे नमः ।

ओं बहुरूपिण्यै नमः ।

ओं ब्रह्मशक्त्यै नमः । ३४०

ओं विष्णुशक्त्यै नमः ।

ओं पञ्चवक्त्रायै नमः ।

ओं शिवप्रियायै नमः ।

ओं वैकुण्ठवासिन्यै देव्यै नमः ।

ओं वैकुण्ठपददायिन्यै नमः ।

ओं ब्रह्मरूपायै नमः ।

ओं विष्णुरूपायै नमः ।

ओं परब्रह्ममहेश्वर्यै नमः ।

ओं भवप्रियायै नमः ।

ओं भवोद्भवायै नमः ।

ओं भवरूपायै नमः ।

ओं भवोत्तमायै नमः ।

ओं भवपारायै नमः ।

ओं भवाधारायै नमः ।

ओं भाग्यवत्प्रियकारिण्यै नमः ।

ओं भद्रायै नमः ।

ओं सुभद्रायै नमः ।

ओं भवदायै नमः ।

ओं शुम्भदैत्यविनाशिन्यै नमः ।

ओं भवान्यै नमः । ३६०

ओं भैरव्यै नमः ।

ओं भीमायै नमः ।

ओं भद्रकाल्यै नमः ।

ओं सुभद्रिकायै नमः ।

ओं भगिन्यै नमः ।

ओं भगरूपायै नमः ।

ओं भगमानायै नमः ।

ओं भगोत्तमायै नमः ।

ओं भगप्रियायै नमः ।

ओं भगवत्यै नमः ।

ओं भगवासायै नमः ।

ओं भगाकरायै नमः ।

ओं भगसृष्टायै नमः ।

ओं भाग्यवत्यै नमः ।

ओं भगरूपायै नमः ।

ओं भगासिन्यै नमः ।

ओं भगलिङ्गप्रियायै देव्यै नमः ।

ओं भगलिङ्गपरायणायै नमः ।

ओं भगलिङ्गस्वरूपायै नमः ।

ओं भगलिङ्गविनोदिन्यै नमः । ३८०

ओं भगलिङ्गरतायै देव्यै नमः ।

ओं भगलिङ्गनिवासिन्यै नमः ।

ओं भगमालायै नमः ।

ओं भगकलायै नमः ।

ओं भगाधारायै नमः ।

ओं भगाम्बरायै नमः ।

ओं भगवेगायै नमः ।

ओं भगाभूषायै नमः ।

ओं भगेन्द्रायै नमः ।

ओं भाग्यरूपिण्यै नमः ।

ओं भगलिङ्गाङ्गसम्भोगायै नमः ।

ओं भगलिङ्गासवावहायै नमः ।

ओं भगलिङ्गसमाधुर्यायै नमः ।

ओं भगलिङ्गनिवेशितायै नमः ।

ओं भगलिङ्गसुपूजायै नमः ।

ओं भगलिङ्गसमन्वितायै नमः ।

ओं भगलिङ्गविरक्तायै नमः ।

ओं भगलिङ्गसमावृतायै नमः ।

ओं माधव्यै नमः ।

ओं माधवीमान्यायै नमः । ४००

ओं मधुरायै नमः ।

ओं मधुमानिन्यै नमः ।

ओं मन्दहासायै नमः ।

ओं महामायायै नमः ।

ओं मोहिन्यै नमः ।

ओं महदुत्तमायै नमः ।

ओं महामोहायै नमः ।

ओं महाविद्यायै नमः ।

ओं महाघोरायै नमः ।

ओं महास्मृत्यै नमः ।

ओं मनस्विन्यै नमः ।

ओं मानवत्यै नमः ।

ओं मोदिन्यै नमः ।

ओं मधुराननायै नमः ।

ओं मेनकायै नमः ।

ओं मानिनीमान्यायै नमः ।

ओं मणिरत्नविभूषणायै नमः ।

ओं मल्लिकामौलिकामालायै नमः ।

ओं मालाधरमदोत्तमायै नमः ।

ओं मदनासुन्दर्यै नमः । ४२०

ओं मेधायै नमः ।

ओं मधुमत्तायै नमः ।

ओं मधुप्रियायै नमः ।

ओं मत्तहंसासमोन्नासायै नमः ।

ओं मत्तसिंहमहासन्यै नमः ।

ओं महेन्द्रवल्लभायै नमः ।

ओं भीमायै नमः ।

ओं मौल्यं च मिथुनात्मजायै नमः ।

ओं महाकाल्या महाकाल्यै नमः ।

ओं महाबुद्ध्यै नमः ।

ओं महोत्कटायै नमः ।

ओं माहेश्वर्यै नमः ।

ओं महामायायै नमः ।

ओं महिषासुरघातिन्यै नमः ।

ओं मधुरायै कीर्तिमत्तायै नमः ।

ओं मत्तमातङ्गगामिन्यै नमः ।

ओं मदप्रियायै नमः ।

ओं मांसरतायै नमः ।

ओं मत्तयुक्कामकारिण्यै नमः ।

ओं मैथुन्यवल्लभायै देव्यै नमः । ४४०

ओं महानन्दायै नमः ।

ओं महोत्सवायै नमः ।

ओं मरीचये नमः ।

ओं मारत्यै नमः ।

ओं मायायै नमः ।

ओं मनोबुद्धिप्रदायिन्यै नमः ।

ओं मोहायै नमः ।

ओं मोक्षायै नमः ।

ओं महालक्ष्म्यै नमः ।

ओं महत्पदप्रदायिन्यै नमः ।

ओं यमरूपायै नमः ।

ओं यमुनायै नमः ।

ओं जयन्त्यै नमः ।

ओं जयप्रदायै नमः ।

ओं याम्यायै नमः ।

ओं यमवत्यै नमः ।

ओं युद्धायै नमः ।

ओं यदोः कुलविवर्धिन्यै नमः ।

ओं रमारामायै नमः ।

ओं रामपत्न्यै नमः । ४६०

ओं रत्नमालारतिप्रियायै नमः ।

ओं रत्नसिंहासनस्थायै नमः ।

ओं रत्नाभरणमण्डितायै नमः ।

ओं रमण्यै नमः ।

ओं रमणीयायै नमः ।

ओं रत्यारसपरायणायै नमः ।

ओं रतानन्दायै नमः ।

ओं रतवत्यै नमः ।

ओं रघूणां कुलवर्धिन्यै नमः ।

ओं रमणारिपरिभ्राज्यायै नमः ।

ओं रैधायै नमः ।

ओं राधिकरत्नजायै नमः ।

ओं रावीरसस्वरूपायै नमः ।

ओं रात्रिराजसुखावहायै नमः ।

ओं ऋतुजायै नमः ।

ओं ऋतुदायै नमः ।

ओं ऋद्धायै नमः ।

ओं ऋतुरूपायै नमः ।

ओं ऋतुप्रियायै नमः ।

ओं रक्तप्रियायै नमः । ४८०

ओं रक्तवत्यै नमः ।

ओं रङ्गिण्यै नमः ।

ओं रक्तदन्तिकायै नमः ।

ओं लक्ष्म्यै नमः ।

ओं लज्जायै नमः ।

ओं लतिकायै नमः ।

ओं लीलालग्नानिताक्षिण्यै नमः ।

ओं लीलायै नमः ।

ओं लीलावत्यै नमः ।

ओं लोमहर्षाह्लादनपट्‍टिकायै नमः ।

ओं ब्रह्मस्थितायै नमः ।

ओं ब्रह्मरूपायै नमः ।

ओं ब्रह्मणा वेदवन्दितायै नमः ।

ओं ब्रह्मोद्भवायै नमः ।

ओं ब्रह्मकलायै नमः ।

ओं ब्रह्माण्यै नमः ।

ओं ब्रह्मबोधिन्यै नमः ।

ओं वेदाङ्गनायै नमः ।

ओं वेदरूपायै नमः ।

ओं वनितायै नमः । ५००

ओं विनतावसायै नमः ।

ओं बालायै नमः ।

ओं युवत्यै नमः ।

ओं वृद्धायै नमः ।

ओं ब्रह्मकर्मपरायणायै नमः ।

ओं विन्ध्यस्थायै नमः ।

ओं विन्ध्यवास्यै नमः ।

ओं बिन्दुयुक् बिन्दुभूषणायै नमः ।

ओं विद्यावत्यै नमः ।

ओं वेदधार्यै नमः ।

ओं व्यापिकायै नमः ।

ओं बर्हिण्यै कलायै नमः ।

ओं वामाचारप्रियायै नमः ।

ओं वह्नये नमः ।

ओं वामाचारपरायणायै नमः ।

ओं वामाचाररतायै देव्यै नमः ।

ओं वामदेवप्रियोत्तमायै नमः ।

ओं बुद्धेन्द्रियायै नमः ।

ओं विबुद्धायै नमः ।

ओं बुद्धाचरणमालिन्यै नमः । ५२०

ओं बन्धमोचनकर्त्र्यै नमः ।

ओं वारुणायै नमः ।

ओं वरुणालयायै नमः ।

ओं शिवायै नमः ।

ओं शिवप्रियायै नमः ।

ओं शुद्धायै नमः ।

ओं शुद्धाङ्ग्यै नमः ।

ओं शुक्लवर्णिकायै नमः ।

ओं शुक्लपुष्पप्रियायै नमः ।

ओं शुक्लायै नमः ।

ओं शिवधर्मपरायणायै नमः ।

ओं शुक्लस्थायै नमः ।

ओं शुक्लिन्यै नमः ।

ओं शुक्लरूपशुक्लपशुप्रियायै नमः ।

ओं शुक्रस्थायै नमः ।

ओं शुक्रिण्यै नमः ।

ओं शुक्रायै नमः ।

ओं शुक्ररूपायै नमः ।

ओं शुक्रिकायै नमः ।

ओं षण्मुख्यै नमः । ५४०

ओं षडङ्गायै नमः ।

ओं षट्चक्रविनिवासिन्यै नमः ।

ओं षड्ग्रन्थियुक्तायै नमः ।

ओं षोढायै नमः ।

ओं षण्मात्रे नमः ।

ओं षडात्मिकायै नमः ।

ओं षडङ्गयुवत्यै देव्यै नमः ।

ओं षडङ्गप्रकृत्यै नमः ।

ओं वश्यै नमः ।

ओं षडाननायै नमः ।

ओं षड्रसायै नमः ।

ओं षष्ठीषष्ठेश्वरीप्रियायै नमः ।

ओं षड्जवादायै नमः ।

ओं षोडश्यै नमः ।

ओं षोढान्यासस्वरूपिण्यै नमः ।

ओं षट्चक्रभेदनकर्यै नमः ।

ओं षट्चक्रस्थस्वरूपिण्यै नमः ।

ओं षोडशस्वररूपायै नमः ।

ओं षण्मुख्यै नमः ।

ओं षट्पदान्वितायै नमः । ५६०

ओं सनकादिस्वरूपायै नमः ।

ओं शिवधर्मपरायणायै नमः ।

ओं सिद्धसप्तस्वर्यै नमः ।

ओं शुद्धायै नमः ।

ओं सुरमात्रे नमः ।

ओं सुरोत्तमायै नमः ।

ओं सिद्धविद्यायै नमः ।

ओं सिद्धमात्रे नमः ।

ओं सिद्धाऽसिद्धस्वरूपिण्यै नमः ।

ओं हरायै नमः ।

ओं हरिप्रियाहारायै नमः ।

ओं हरिणीहारयुजे नमः ।

ओं हरिरूपायै नमः ।

ओं हरिधरायै नमः ।

ओं हरिणाक्ष्यै नमः ।

ओं हरिप्रियायै नमः ।

ओं हेतुप्रियायै नमः ।

ओं हेतुरतायै नमः ।

ओं हिताऽहितस्वरूपिण्यै नमः ।

ओं क्षमायै नमः । ५८०

ओं क्षमावत्यै नमः ।

ओं क्षीतायै नमः ।

ओं क्षुद्रघण्टाविभूषणायै नमः ।

ओं क्षयङ्कर्यै नमः ।

ओं क्षितीशायै नमः ।

ओं क्षीणमध्यसुशोभनायै नमः ।

ओं अजायै नमः ।

ओं अनन्तायै नमः ।

ओं अपर्णायै नमः ।

ओं अहल्याशेषशायिन्यै नमः ।

ओं साधूनां स्वान्तर्गतायै नमः ।

ओं अन्तरानन्दरूपिण्यै नमः ।

ओं अरूपायै नमः ।

ओं अमलायै नमः ।

ओं अर्धायै नमः ।

ओं अनन्तगुणशालिन्यै नमः ।

ओं स्वविद्यायै नमः ।

ओं विद्यकाविद्यायै नमः ।

ओं विद्यायै नमः ।

ओं चार्वीन्दुलोचनायै नमः । ६००

ओं अपराजितायै नमः ।

ओं जातवेदायै नमः ।

ओं अजपायै नमः ।

ओं अमरावत्यै नमः ।

ओं अल्पायै नमः ।

ओं स्वल्पायै नमः ।

ओं अनल्पाद्यायै नमः ।

ओं अणिमासिद्धिदायिन्यै नमः ।

ओं अष्टसिद्धिप्रदायै देव्यै नमः ।

ओं रूपलक्षणसम्युतायै नमः ।

ओं अरविन्दमुखायै देव्यै नमः ।

ओं भोगसौख्यप्रदायिन्यै नमः ।

ओं आदिविद्यायै नमः ।

ओं आदिभूतायै नमः ।

ओं आदिसिद्धिप्रदायिन्यै नमः ।

ओं सीत्काररूपिण्यै देव्यै नमः ।

ओं सर्वासनविभूषितायै नमः ।

ओं इन्द्रप्रियायै नमः ।

ओं इन्द्राण्यै नमः ।

ओं इन्द्रप्रस्थनिवासिन्यै नमः । ६२०

ओं इन्द्राक्ष्यै नमः ।

ओं इन्द्रवज्रायै नमः ।

ओं इन्द्रमद्योक्षण्यै नमः ।

ओं ईलाकामनिवासायै नमः ।

ओं ईश्वर्यै नमः ।

ओं ईश्वरवल्लभायै नमः ।

ओं जनन्यै नमः ।

ओं ईश्वर्यै नमः ।

ओं दीनाभेदायै नमः ।

ओं ईश्वरकर्मकृते नमः ।

ओं उमायै नमः ।

ओं कात्यायन्यै नमः ।

ओं ऊर्ध्वायै नमः ।

ओं मीनायै नमः ।

ओं उत्तरवासिन्यै नमः ।

ओं उमापतिप्रियायै देव्यै नमः ।

ओं शिवायै नमः ।

ओं ओङ्काररूपिण्यै नमः ।

ओं उरगेन्द्रशिरोरत्नायै नमः ।

ओं उरगाय नमः । ६४०

ओं उरगवल्लभायै नमः ।

ओं उद्यानवासिनीमालायै नमः ।

ओं प्रशस्तमणिभूषणायै नमः ।

ओं ऊर्ध्वदन्तायै नमः ।

ओं उत्तमाङ्ग्यै नमः ।

ओं उत्तमायै नमः ।

ओं ऊर्ध्वकेशिन्यै नमः ।

ओं उमासिद्धिप्रदायै नमः ।

ओं उरगासनसंस्थितायै नमः ।

ओं ऋषिपुत्र्यै नमः ।

ओं ऋषिच्छन्दायै नमः ।

ओं ऋषिसिद्धिप्रदायिन्यै नमः ।

ओं उत्सवोत्सवसीमन्तायै नमः ।

ओं कामिकायै नमः ।

ओं गुणान्वितायै नमः ।

ओं एलायै नमः ।

ओं एकारविद्यायै नमः ।

ओं एणीविद्याधरायै नमः ।

ओं ओङ्कारवलयोपेतायै नमः ।

ओं ओङ्कारपरमायै कलायै नमः । ६६०

ओं ओंवदवदवाण्यै नमः ।

ओं ओङ्काराक्षरमण्डितायै नमः ।

ओं ऐन्द्र्यै नमः ।

ओं कुलिशहस्तायै नमः ।

ओं ओंलोकपरवासिन्यै नमः ।

ओं ओङ्कारमध्यबीजायै नमः ।

ओं ओंनमोरूपधारिण्यै नमः ।

ओं परब्रह्मस्वरूपायै नमः ।

ओं अंशुकायै नमः ।

ओं अंशुकवल्लभायै नमः ।

ओं ओङ्कारायै नमः ।

ओं अःफट् मन्त्रायै नमः ।

ओं अक्षाक्षरविभूषितायै नमः ।

ओं अमन्त्रायै नमः ।

ओं मन्त्ररूपायै नमः ।

ओं पदशोभासमन्वितायै नमः ।

ओं प्रणवोङ्काररूपायै नमः ।

ओं प्रणवोच्चारभाजे नमः ।

ओं ह्रीङ्काररूपायै नमः ।

ओं ह्रीङ्कार्यै नमः । ६८०

ओं वाग्बीजाक्षरभूषणायै नमः ।

ओं हृल्लेखासिद्धियोगायै नमः ।

ओं हृत्पद्मासनसंस्थितायै नमः ।

ओं बीजाख्यायै नमः ।

ओं नेत्रहृदयायै नमः ।

ओं ह्रीम्बीजायै नमः ।

ओं भुवनेश्वर्यै नमः ।

ओं क्लीङ्कामराजायै नमः ।

ओं क्लिन्नायै नमः ।

ओं चतुर्वर्गफलप्रदायै नमः ।

ओं क्लीङ्क्लीङ्क्लींरूपिकायै देव्यै नमः ।

ओं क्रीङ्क्रीङ्क्रींनामधारिण्यै नमः ।

ओं कमलाशक्तिबीजायै नमः ।

ओं पाशाङ्कुशविभूषितायै नमः ।

ओं श्रींश्रीङ्कारायै नमः ।

ओं महाविद्यायै नमः ।

ओं श्रद्धायै नमः ।

ओं श्रद्धावत्यै नमः ।

ओं ओं‍ऐं‍क्लीं‍ह्रीं‍श्रीं‍परायै नमः ।

ओं क्लीङ्कार्यै नमः । ७००

ओं परमायै कलायै नमः ।

ओं ह्रीं‍क्लीं‍श्रीङ्कारस्वरूपायै नमः ।

ओं सर्वकर्मफलप्रदायै नमः ।

ओं सर्वाढ्यायै नमः ।

ओं सर्वदेव्यै नमः ।

ओं सर्वसिद्धिप्रदायै नमः ।

ओं सर्वज्ञायै नमः ।

ओं सर्वशक्त्यै नमः ।

ओं वाग्विभूतिप्रदायिन्यै नमः ।

ओं सर्वमोक्षप्रदायै देव्यै नमः ।

ओं सर्वभोगप्रदायिन्यै नमः ।

ओं गुणेन्द्रवल्लभायै वामायै नमः ।

ओं सर्वशक्तिप्रदायिन्यै नमः ।

ओं सर्वानन्दमय्यै नमः ।

ओं सर्वसिद्धिप्रदायिन्यै नमः ।

ओं सर्वचक्रेश्वर्यै देव्यै नमः ।

ओं सर्वसिद्धेश्वर्यै नमः ।

ओं सर्वप्रियङ्कर्यै नमः ।

ओं सर्वसौख्यप्रदायिन्यै नमः ।

ओं सर्वानन्दप्रदायै देव्यै नमः । ७२०

ओं ब्रह्मानन्दप्रदायिन्यै नमः ।

ओं मनोवाञ्छितदात्र्यै नमः ।

ओं मनोबुद्धिसमन्वितायै नमः ।

ओं अकारादिक्षकारान्तायै नमः ।

ओं दुर्गायै नमः ।

ओं दुर्गार्तिनाशिन्यै नमः ।

ओं पद्मनेत्रायै नमः ।

ओं सुनेत्रायै नमः ।

ओं स्वधास्वाहावषट्कर्यै नमः ।

ओं स्ववर्गायै नमः ।

ओं देववर्गायै नमः ।

ओं तवर्गायै नमः ।

ओं समन्वितायै नमः ।

ओं अन्तस्थायै नमः ।

ओं वेश्मरूपायै नमः ।

ओं नवदुर्गायै नमः ।

ओं नरोत्तमायै नमः ।

ओं तत्त्वसिद्धिप्रदायै नमः ।

ओं नीलायै नमः ।

ओं नीलपताकिन्यै नमः । ७४०

ओं नित्यरूपायै नमः ।

ओं निशाकार्यै नमः ।

ओं स्तम्भिन्यै नमः ।

ओं मोहिन्यै नमः ।

ओं वशङ्कर्यै नमः ।

ओं उच्चाट्यै नमः ।

ओं उन्माद्यै नमः ।

ओं कर्षिण्यै नमः ।

ओं मातङ्ग्यै नमः ।

ओं मधुमत्तायै नमः ।

ओं अणिमायै नमः ।

ओं लघिमायै नमः ।

ओं सिद्धायै नमः ।

ओं मोक्षप्रदायै नित्यायै नमः ।

ओं नित्यानन्दप्रदायिन्यै नमः ।

ओं रक्ताङ्ग्यै नमः ।

ओं रक्तनेत्रायै नमः ।

ओं रक्तचन्दनभूषितायै नमः ।

ओं स्वल्पसिद्ध्यै नमः ।

ओं सुकल्पायै नमः । ७६०

ओं दिव्यचारणशुक्रभायै नमः ।

ओं सङ्क्रान्त्यै नमः ।

ओं सर्वविद्यायै नमः ।

ओं सप्तवासरभूषितायै नमः ।

ओं प्रथमायै नमः ।

ओं द्वितीयायै नमः ।

ओं तृतीयायै नमः ।

ओं चतुर्थिकायै नमः ।

ओं पञ्चम्यै नमः ।

ओं षष्ठ्यै नमः ।

ओं विशुद्धायै सप्तम्यै नमः ।

ओं अष्टम्यै नमः ।

ओं नवम्यै नमः ।

ओं दशम्यै नमः ।

ओं एकादश्यै नमः ।

ओं द्वादश्यै नमः ।

ओं त्रयोदश्यै नमः ।

ओं चतुर्दश्यै नमः ।

ओं पूर्णिमायै नमः ।

ओं अमावास्यायै नमः । ७८०

ओं पूर्वायै नमः ।

ओं उत्तरायै नमः ।

ओं परिपूर्णिमायै नमः ।

ओं खड्गिन्यै नमः ।

ओं चक्रिण्यै नमः ।

ओं घोरायै नमः ।

ओं गदिन्यै नमः ।

ओं शूलिन्यै नमः ।

ओं भुशुण्ड्यै नमः ।

ओं चापिन्यै नमः ।

ओं बाणायै नमः ।

ओं सर्वायुधविभूषणायै नमः ।

ओं कुलेश्वर्यै नमः ।

ओं कुलवत्यै नमः ।

ओं कुलाचारपरायणायै नमः ।

ओं कुलकर्मसुरक्तायै नमः ।

ओं कुलाचारप्रवर्धिन्यै नमः ।

ओं कीर्त्यै नमः ।

ओं श्रिये नमः ।

ओं रमायै नमः । ८००

ओं रामायै नमः ।

ओं धर्मायै नमः ।

ओं क्षमायै नमः ।

ओं धृत्यै नमः ।

ओं स्मृत्यै नमः ।

ओं मेधायै नमः ।

ओं कल्पवृक्षनिवासिन्यै नमः ।

ओं उग्रायै नमः ।

ओं उग्रप्रभायै नमः ।

ओं गौर्यै नमः ।

ओं वेदविद्याविबोधिन्यै नमः ।

ओं साध्यायै नमः ।

ओं सिद्धायै नमः ।

ओं सुसिद्धायै नमः ।

ओं विप्ररूपायै नमः ।

ओं काल्यै नमः ।

ओं कराल्यै काल्यायै नमः ।

ओं कालदैत्यविनाशिन्यै नमः ।

ओं कौलिन्यै नमः ।

ओं कालिक्यै नमः । ८२०

ओं कचटतपवर्गिकायै नमः ।

ओं जयिन्यै नमः ।

ओं जययुक्तायै नमः ।

ओं जयदायै नमः ।

ओं जृम्भिण्यै नमः ।

ओं स्राविण्यै नमः ।

ओं द्राविण्यै देव्यै नमः ।

ओं भेरुण्डायै नमः ।

ओं विन्ध्यवासिन्यै नमः ।

ओं ज्योतिर्भूतायै नमः ।

ओं जयदायै नमः ।

ओं ज्वालामालासमाकुलायै नमः ।

ओं भिन्नाभिन्नप्रकाशायै नमः ।

ओं विभिन्नाभिन्नरूपिण्यै नमः ।

ओं अश्विन्यै नमः ।

ओं भरण्यै नमः ।

ओं नक्षत्रसम्भवानिलायै नमः ।

ओं काश्यप्यै नमः ।

ओं विनताख्यातायै नमः ।

ओं दितिजायै नमः । ८४०

ओं अदित्यै नमः ।

ओं कीर्त्यै नमः ।

ओं कामप्रियायै देव्यै नमः ।

ओं कीर्त्यकीर्तिविवर्धिन्यै नमः ।

ओं सद्योमांससमालब्धायै नमः ।

ओं सद्यश्छिन्नासिशङ्करायै नमः ।

ओं दक्षिणायै दिशे नमः ।

ओं उत्तरायै दिशे नमः ।

ओं पूर्वायै दिशे नमः ।

ओं पश्चिमायै दिशे नमः ।

ओं अग्निनैरृतिवायव्येशान्यादिशे नमः ।

ओं ऊर्ध्वाङ्गायै नमः ।

ओं अधोगतायै नमः ।

ओं श्वेतायै नमः ।

ओं कृष्णायै नमः ।

ओं रक्तायै नमः ।

ओं पीतकायै नमः ।

ओं चतुर्वर्गायै नमः ।

ओं चतुर्वर्णायै नमः ।

ओं चतुर्मात्रात्मिकाक्षरायै नमः । ८६०

ओं चतुर्मुख्यै नमः ।

ओं चतुर्वेदायै नमः ।

ओं चतुर्विद्यायै नमः ।

ओं चतुर्मुखायै नमः ।

ओं चतुर्गणायै नमः ।

ओं चतुर्मात्रे नमः ।

ओं चतुर्वर्गफलप्रदायै नमः ।

ओं धात्रीविधात्रीमिथुनायै नमः ।

ओं नारीनायकवासिन्यै नमः ।

ओं सुरामुदामुदवत्यै नमः ।

ओं मोदिन्यै नमः ।

ओं मेनकात्मजायै नमः ।

ओं ऊर्ध्वकाल्यै नमः ।

ओं सिद्धिकाल्यै नमः ।

ओं दक्षिणाकालिकायै नमः ।

ओं शिवायै नमः ।

ओं नीलसरस्वत्यै नमः ।

ओं बगलायै नमः ।

ओं छिन्नमस्तकायै नमः ।

ओं सर्वेश्वर्यै नमः । ८८०

ओं सिद्धविद्यायै परायै नमः ।

ओं परमदेवतायै नमः ।

ओं हिङ्गुलायै नमः ।

ओं हिङ्गुलाङ्ग्यै नमः ।

ओं हिङ्गुलाधरवासिन्यै नमः ।

ओं हिङ्गुलोत्तमवर्णाभायै नमः ।

ओं हिङ्गुलाभरणायै नमः ।

ओं जाग्रत्यै नमः ।

ओं जगन्मात्रे नमः ।

ओं जगदीश्वरवल्लभायै नमः ।

ओं जनार्दनप्रियायै देव्यै नमः ।

ओं जययुक्तायै नमः ।

ओं जयप्रदायै नमः ।

ओं जगदानन्दकर्यै नमः ।

ओं जगदाह्लादकारिण्यै नमः ।

ओं ज्ञानदानकर्यै नमः ।

ओं यज्ञायै नमः ।

ओं जानक्यै नमः ।

ओं जनकप्रियायै नमः ।

ओं जयन्त्यै नमः । ९००

ओं जयदायै नित्यायै नमः ।

ओं ज्वलदग्निसमप्रभायै नमः ।

ओं विद्याधरायै नमः ।

ओं बिम्बोष्ठ्यै नमः ।

ओं कैलासाचलवासिन्यै नमः ।

ओं विभवायै नमः ।

ओं वडवाग्न्यै नमः ।

ओं अग्निहोत्रफलप्रदायै नमः ।

ओं मन्त्ररूपायै परायै देव्यै नमः ।

ओं गुरुरूपिण्यै नमः ।

ओं गयायै नमः ।

ओं गङ्गायै नमः ।

ओं गोमत्यै नमः ।

ओं प्रभासायै नमः ।

ओं पुष्करायै नमः ।

ओं विन्ध्याचलरतायै देव्यै नमः ।

ओं विन्ध्याचलनिवासिन्यै नमः ।

ओं बह्वै नमः ।

ओं बहुसुन्दर्यै नमः ।

ओं कंसासुरविनाशिन्यै नमः । ९२०

ओं शूलिन्यै नमः ।

ओं शूलहस्तायै नमः ।

ओं वज्रायै नमः ।

ओं वज्रहरायै नमः ।

ओं दुर्गायै नमः ।

ओं शिवायै नमः ।

ओं शान्तिकर्यै नमः ।

ओं ब्रह्माण्यै नमः ।

ओं ब्राह्मणप्रियायै नमः ।

ओं सर्वलोकप्रणेत्र्यै नमः ।

ओं सर्वरोगहरायै नमः ।

ओं मङ्गलायै नमः ।

ओं शोभनायै नमः ।

ओं शुद्धायै नमः ।

ओं निष्कलायै नमः ।

ओं परमायै कलायै नमः ।

ओं विश्वेश्वर्यै नमः ।

ओं विश्वमात्रे नमः ।

ओं ललितावासिताननायै नमः ।

ओं सदाशिवायै नमः । ९४०

ओं उमायै नमः ।

ओं क्षेमायै नमः ।

ओं चण्डिकायै नमः ।

ओं चण्डविक्रमायै नमः ।

ओं सर्वदेवमय्यै देव्यै नमः ।

ओं सर्वागमभयापहायै नमः ।

ओं ब्रह्मेशविष्णुनमितायै नमः ।

ओं सर्वकल्याणकारिण्यै नमः ।

ओं योगिन्यै नमः ।

ओं योगमात्रे नमः ।

ओं योगीन्द्रहृदयस्थितायै नमः ।

ओं योगिजायायै नमः ।

ओं योगवत्यै नमः ।

ओं योगीन्द्रानन्दयोगिन्यै नमः ।

ओं इन्द्रादिनमितायै देव्यै नमः ।

ओं ईश्वर्यै नमः ।

ओं ईश्वरप्रियायै नमः ।

ओं विशुद्धिदायै नमः ।

ओं भयहरायै नमः ।

ओं भक्तद्वेषिभयङ्कर्यै नमः । ९६०

ओं भववेषायै नमः ।

ओं कामिन्यै नमः ।

ओं भेरुण्डायै नमः ।

ओं भयकारिण्यै नमः ।

ओं बलभद्रप्रियाकारायै नमः ।

ओं संसारार्णवतारिण्यै नमः ।

ओं पञ्चभूतायै नमः ।

ओं सर्वभूतायै नमः ।

ओं विभूत्यै नमः ।

ओं भूतिधारिण्यै नमः ।

ओं सिंहवाहायै नमः ।

ओं महामोहायै नमः ।

ओं मोहपाशविनाशिन्यै नमः ।

ओं मन्दुरायै नमः ।

ओं मदिरायै नमः ।

ओं मुद्राऽमुद्रायै नमः ।

ओं मुद्गरधारिण्यै नमः ।

ओं सावित्र्यै नमः ।

ओं महादेव्यै नमः ।

ओं परप्रियविनायिकायै नमः । ९८०

ओं यमदूत्यै नमः ।

ओं पिङ्गाक्ष्यै नमः ।

ओं वैष्णव्यै नमः ।

ओं शङ्कर्यै नमः ।

ओं चन्द्रप्रियायै नमः ।

ओं चन्द्ररतायै नमः ।

ओं चन्दनारण्यवासिन्यै नमः ।

ओं चन्दनेन्द्रसमायुक्तायै नमः ।

ओं चण्डदैत्यविनाशिन्यै नमः ।

ओं सर्वेश्वर्यै नमः ।

ओं यक्षिण्यै नमः ।

ओं किरात्यै नमः ।

ओं राक्षस्यै नमः ।

ओं महाभोगवत्यै देव्यै नमः ।

ओं महामोक्षप्रदायिन्यै नमः ।

ओं विश्वहन्त्र्यै नमः ।

ओं विश्वरूपायै नमः ।

ओं विश्वसंहारकारिण्यै नमः ।

ओं सर्वलोकानां धात्र्यै नमः ।

ओं हितकारणकामिन्यै नमः । १०००

ओं कमलायै नमः ।

ओं सूक्ष्मदायै देव्यै नमः ।

ओं धात्र्यै नमः ।

ओं हरविनाशिन्यै नमः ।

ओं सुरेन्द्रपूजिता सिद्धायै नमः ।

ओं महातेजोवत्यै नमः ।

ओं परारूपवत्यै देव्यै नमः ।

ओं त्रैलोक्याकर्षकारिण्यै नमः । १००८

इति श्री बगलामुखी सहस्रनामावली ॥

sri bagalamukhi sahasranamavali