Skip to main content
पडताळणी प्रलंबित

श्री बटुक भैरव अष्टोत्तरशतनामावली

ओं भैरवाय नमः ।

ओं भूतनाथाय नमः ।

ओं भूतात्मने नमः ।

ओं भूतभावनाय नमः ।

ओं क्षेत्रदाय नमः ।

ओं क्षेत्रपालाय नमः ।

ओं क्षेत्रज्ञाय नमः ।

ओं क्षत्रियाय नमः ।

ओं विराजे नमः । ९

ओं श्मशानवासिने नमः ।

ओं मांसाशिने नमः ।

ओं खर्पराशिने नमः ।

ओं मखान्तकृते नमः । [स्मरान्तकाय]

ओं रक्तपाय नमः ।

ओं प्राणपाय नमः ।

ओं सिद्धाय नमः ।

ओं सिद्धिदाय नमः ।

ओं सिद्धसेविताय नमः । १८

ओं करालाय नमः ।

ओं कालशमनाय नमः ।

ओं कलाकाष्ठातनवे नमः ।

ओं कवये नमः ।

ओं त्रिनेत्राय नमः ।

ओं बहुनेत्राय नमः ।

ओं पिङ्गललोचनाय नमः ।

ओं शूलपाणये नमः ।

ओं खड्गपाणये नमः । २७

ओं कङ्कालिने नमः ।

ओं धूम्रलोचनाय नमः ।

ओं अभीरवे नमः ।

ओं भैरवाय नमः ।

ओं भैरवीपतये नमः । [भीरवे]

ओं भूतपाय नमः ।

ओं योगिनीपतये नमः ।

ओं धनदाय नमः ।

ओं धनहारिणे नमः । ३६

ओं धनपाय नमः ।

ओं प्रतिभाववते नमः । [प्रीतिवर्धनाय]

ओं नागहाराय नमः ।

ओं नागकेशाय नमः ।

ओं व्योमकेशाय नमः ।

ओं कपालभृते नमः ।

ओं कालाय नमः ।

ओं कपालमालिने नमः ।

ओं कमनीयाय नमः । ४५

ओं कलानिधये नमः ।

ओं त्रिलोचनाय नमः ।

ओं ज्वलन्नेत्राय नमः ।

ओं त्रिशिखिने नमः ।

ओं त्रिलोकभृते नमः ।

ओं त्रिवृत्तनयनाय नमः ।

ओं डिम्भाय नमः

ओं शान्ताय नमः ।

ओं शान्तजनप्रियाय नमः । ५४

ओं वटुकाय नमः ।

ओं वटुकेशाय नमः ।

ओं खट्वाङ्गवरधारकाय नमः ।

ओं भूताध्यक्षाय नमः ।

ओं पशुपतये नमः ।

ओं भिक्षुकाय नमः ।

ओं परिचारकाय नमः ।

ओं धूर्ताय नमः ।

ओं दिगम्बराय नमः । ६३

ओं सौरिणे नमः । [शूराय]

ओं हरिणे नमः ।

ओं पाण्डुलोचनाय नमः ।

ओं प्रशान्ताय नमः ।

ओं शान्तिदाय नमः ।

ओं शुद्धाय नमः ।

ओं शङ्करप्रियबान्धवाय नमः ।

ओं अष्टमूर्तये नमः ।

ओं निधीशाय नमः । ७२

ओं ज्ञानचक्षुषे नमः ।

ओं तमोमयाय नमः ।

ओं अष्टाधाराय नमः ।

ओं कलाधाराय नमः । [षडाधाराय]

ओं सर्पयुक्ताय नमः ।

ओं शशीशिखाय नमः । [शिखीसखाय]

ओं भूधराय नमः ।

ओं भूधराधीशाय नमः ।

ओं भूपतये नमः । ८१

ओं भूधरात्मकाय नमः ।

ओं कङ्कालधारिणे नमः ।

ओं मुण्डिने नमः ।

ओं व्यालयज्ञोपवीतवते नमः । [नाग]

ओं जृम्भणाय नमः ।

ओं मोहनाय नमः ।

ओं स्तम्भिने नमः ।

ओं मारणाय नमः ।

ओं क्षोभणाय नमः । ९०

ओं शुद्धनीलाञ्जनप्रख्यदेहाय नमः ।

ओं मुण्डविभूषिताय नमः ।

ओं बलिभुजे नमः ।

ओं बलिभुतात्मने नमः ।

ओं कामिने नमः । [बालाय]

ओं कामपराक्रमाय नमः । [बाल]

ओं सर्वापत्तारकाय नमः ।

ओं दुर्गाय नमः ।

ओं दुष्टभूतनिषेविताय नमः । ९९

ओं कामिने नमः ।

ओं कलानिधये नमः ।

ओं कान्ताय नमः ।

ओं कामिनीवशकृते नमः ।

ओं वशिने नमः ।

ओं सर्वसिद्धिप्रदाय नमः ।

ओं वैद्याय नमः ।

ओं प्रभविष्णवे नमः ।

ओं प्रभाववते नमः । १०८

इति श्री बटुकभैरवाष्टोत्तरशतनामावली ।

sri batuka bhairava ashtottara shatanamavali