Skip to main content
पडताळणी प्रलंबित

श्री ललिताष्टोत्तरशतनामावली २

ओं शिवायै नमः ।

ओं भवान्यै नमः ।

ओं कल्याण्यै नमः ।

ओं गौर्यै नमः ।

ओं काल्यै नमः ।

ओं शिवप्रियायै नमः ।

ओं कात्यायन्यै नमः ।

ओं महादेव्यै नमः ।

ओं दुर्गायै नमः । ९

ओं आर्यायै नमः ।

ओं चण्डिकायै नमः ।

ओं भवायै नमः ।

ओं चन्द्रचूडायै नमः ।

ओं चन्द्रमुख्यै नमः ।

ओं चन्द्रमण्डलवासिन्यै नमः ।

ओं चन्द्रहासकरायै नमः ।

ओं चन्द्रहासिन्यै नमः ।

ओं चन्द्रकोटिभायै नमः । १८

ओं चिद्रूपायै नमः ।

ओं चित्कलायै नमः ।

ओं नित्यायै नमः ।

ओं निर्मलायै नमः ।

ओं निष्कलायै नमः ।

ओं कलायै नमः ।

ओं भव्यायै नमः ।

ओं भवप्रियायै नमः ।

ओं भव्यरूपिण्यै नमः । २७

ओं कलभाषिण्यै नमः ।

ओं कविप्रियायै नमः ।

ओं कामकलायै नमः ।

ओं कामदायै नमः ।

ओं कामरूपिण्यै नमः ।

ओं कारुण्यसागरायै नमः ।

ओं काल्यै नमः ।

ओं संसारार्णवतारकायै नमः ।

ओं दूर्वाभायै नमः । ३६

ओं दुष्टभयदायै नमः ।

ओं दुर्जयायै नमः ।

ओं दुरितापहायै नमः ।

ओं ललितायै नमः ।

ओं राज्यदायै नमः ।

ओं सिद्धायै नमः ।

ओं सिद्धेश्यै नमः ।

ओं सिद्धिदायिन्यै नमः ।

ओं शर्मदायै नमः । ४५

ओं शान्त्यै नमः ।

ओं अव्यक्तायै नमः ।

ओं शङ्खकुण्डलमण्डितायै नमः ।

ओं शारदायै नमः ।

ओं शाङ्कर्यै नमः ।

ओं साध्व्यै नमः ।

ओं श्यामलायै नमः ।

ओं कोमलाकृत्यै नमः ।

ओं पुष्पिण्यै नमः । ५४

ओं पुष्पबाणाम्बायै नमः ।

ओं कमलायै नमः ।

ओं कमलासनायै नमः ।

ओं पञ्चबाणस्तुतायै नमः ।

ओं पञ्चवर्णरूपायै नमः ।

ओं सरस्वत्यै नमः ।

ओं पञ्चम्यै नमः ।

ओं परमायै नमः ।

ओं लक्ष्म्यै नमः । ६३

ओं पावन्यै नमः ।

ओं पापहारिण्यै नमः ।

ओं सर्वज्ञायै नमः ।

ओं वृषभारूढायै नमः ।

ओं सर्वलोकवशङ्कर्यै नमः ।

ओं सर्वस्वतन्त्रायै नमः ।

ओं सर्वेश्यै नमः ।

ओं सर्वमङ्गलकारिण्यै नमः ।

ओं निरवद्यायै नमः । ७२

ओं नीरदाभायै नमः ।

ओं निर्मलायै नमः ।

ओं निश्चयात्मिकायै नमः ।

ओं निर्मदायै नमः ।

ओं नियताचारायै नमः ।

ओं निष्कामायै नमः ।

ओं निगमालयायै नमः ।

ओं अनादिबोधायै नमः ।

ओं ब्रह्माण्यै नमः । ८१

ओं कौमार्यै नमः ।

ओं गुरुरूपिण्यै नमः ।

ओं वैष्णव्यै नमः ।

ओं समयाचारायै नमः ।

ओं कौलिन्यै नमः ।

ओं कुलदेवतायै नमः ।

ओं सामगानप्रियायै नमः ।

ओं सर्ववेदरूपायै नमः ।

ओं सरस्वत्यै नमः । ९०

ओं अन्तर्यागप्रियायै नमः ।

ओं आनन्दायै नमः ।

ओं बहिर्यागपरार्चितायै नमः ।

ओं वीणागानरसानन्दायै नमः ।

ओं अर्धोन्मीलितलोचनायै नमः ।

ओं दिव्यचन्दनदिग्धाङ्ग्यै नमः ।

ओं सर्वसाम्राज्यरूपिण्यै नमः ।

ओं तरङ्गीकृतस्वापाङ्गवीक्षारक्षितसज्जनायै नमः ।

ओं सुधापानसमुद्वेलहेलामोहितधूर्जटये नमः । ९९

ओं मतङ्गमुनिसम्पूज्यायै नमः ।

ओं मतङ्गकुलभूषणायै नमः ।

ओं मकुटाङ्गदमञ्जीरमेखलादामभूषितायै नमः ।

ओं ऊर्मिकाकिङ्किणीरत्नकङ्कणादिपरिष्कृतायै नमः ।

ओं मल्लिकामालतीकुन्दमन्दाराञ्चितमस्तकायै नमः ।

ओं ताम्बूलकवलोदञ्चत्कपोलतलशोभिन्यै नमः ।

ओं त्रिमूर्तिरूपायै नमः ।

ओं त्रैलोक्यसुमोहनतनुप्रभायै नमः ।

ओं श्रीमच्चक्राधिनगरीसाम्राज्यश्रीस्वरूपिण्यै नमः । १०८

इति श्री ललिताष्टोत्तरशतनामावली ।

sri lalitha ashtottara shatanamavali 2