Skip to main content
पडताळणी प्रलंबित

श्री बगलामुखी अष्टोत्तरशतनामावली – २ (विष्णुयामले)

ओं बगलायै नमः ।

ओं विष्णुवनितायै नमः ।

ओं विष्णुशङ्करभामिन्यै नमः ।

ओं बहुलायै नमः ।

ओं वेदमात्रे नमः ।

ओं महाविष्णुप्रस्वै नमः ।

ओं महामत्स्यायै नमः ।

ओं महाकूर्मायै नमः ।

ओं महावाराहरूपिण्यै नमः । ९

ओं नरसिंहप्रियायै नमः ।

ओं रम्यायै नमः ।

ओं वामनायै नमः ।

ओं बटुरूपिण्यै नमः ।

ओं जामदग्न्यस्वरूपायै नमः ।

ओं रामायै नमः ।

ओं रामप्रपूजितायै नमः ।

ओं कृष्णायै नमः ।

ओं कपर्दिन्यै नमः । १८

ओं कृत्यायै नमः ।

ओं कलहायै नमः ।

ओं कलकारिण्यै नमः ।

ओं बुद्धिरूपायै नमः ।

ओं बुद्धभार्यायै नमः ।

ओं बौद्धपाखण्डखण्डिन्यै नमः ।

ओं कल्किरूपायै नमः ।

ओं कलिहरायै नमः ।

ओं कलिदुर्गतिनाशिन्यै नमः । २७

ओं कोटिसूर्यप्रतीकाशायै नमः ।

ओं कोटिकन्दर्पमोहिन्यै नमः ।

ओं केवलायै नमः ।

ओं कठिनायै नमः ।

ओं काल्यै नमः ।

ओं कलायै नमः ।

ओं कैवल्यदायिन्यै नमः ।

ओं केशव्यै नमः ।

ओं केशवाराध्यायै नमः । ३६

ओं किशोर्यै नमः ।

ओं केशवस्तुतायै नमः ।

ओं रुद्ररूपायै नमः ।

ओं रुद्रमूर्त्यै नमः ।

ओं रुद्राण्यै नमः ।

ओं रुद्रदेवतायै नमः ।

ओं नक्षत्ररूपायै नमः ।

ओं नक्षत्रायै नमः ।

ओं नक्षत्रेशप्रपूजितायै नमः । ४५

ओं नक्षत्रेशप्रियायै नमः ।

ओं नित्यायै नमः ।

ओं नक्षत्रपतिवन्दितायै नमः ।

ओं नागिन्यै नमः ।

ओं नागजनन्यै नमः ।

ओं नागराजप्रवन्दितायै नमः ।

ओं नागेश्वर्यै नमः ।

ओं नागकन्यायै नमः ।

ओं नागर्यै नमः । ५४

ओं नगात्मजायै नमः ।

ओं नगाधिराजतनयायै नमः ।

ओं नगराजप्रपूजितायै नमः ।

ओं नवीनायै नमः ।

ओं नीरदायै नमः ।

ओं पीतायै नमः ।

ओं श्यामायै नमः ।

ओं सौन्दर्यकारिण्यै नमः ।

ओं रक्तायै नमः । ६३

ओं नीलायै नमः ।

ओं घनायै नमः ।

ओं शुभ्रायै नमः ।

ओं श्वेतायै नमः ।

ओं सौभाग्यदायिन्यै नमः ।

ओं सुन्दर्यै नमः ।

ओं सौभगायै नमः ।

ओं सौम्यायै नमः ।

ओं स्वर्णभायै नमः । ७२

ओं स्वर्गतिप्रदायै नमः ।

ओं रिपुत्रासकर्यै नमः ।

ओं रेखायै नमः ।

ओं शत्रुसंहारकारिण्यै नमः ।

ओं भामिन्यै नमः ।

ओं मायायै नमः ।

ओं स्तम्भिन्यै नमः ।

ओं मोहिन्यै नमः ।

ओं शुभायै नमः । ८१

ओं रागद्वेषकर्यै नमः ।

ओं रात्र्यै नमः ।

ओं रौरवध्वंसकारिण्यै नमः ।

ओं यक्षिण्यै नमः ।

ओं सिद्धनिवहायै नमः ।

ओं सिद्धेशायै नमः ।

ओं सिद्धिरूपिण्यै नमः ।

ओं लङ्कापतिध्वंसकर्यै नमः ।

ओं लङ्केशरिपुवन्दितायै नमः । ९०

ओं लङ्कानाथकुलहरायै नमः ।

ओं महारावणहारिण्यै नमः ।

ओं देवदानवसिद्धौघपूजितायै नमः ।

ओं परमेश्वर्यै नमः ।

ओं पराणुरूपायै नमः ।

ओं परमायै नमः ।

ओं परतन्त्रविनाशिन्यै नमः ।

ओं वरदायै नमः ।

ओं वरदाराध्यायै नमः । ९९

ओं वरदानपरायणायै नमः ।

ओं वरदेशप्रियायै नमः ।

ओं वीरायै नमः ।

ओं वीरभूषणभूषितायै नमः ।

ओं वसुदायै नमः ।

ओं बहुदायै नमः ।

ओं वाण्यै नमः ।

ओं ब्रह्मरूपायै नमः ।

ओं वराननायै नमः । १०८

ओं बलदायै नमः ।

ओं पीतवसनायै नमः ।

ओं पीतभूषणभूषितायै नमः ।

ओं पीतपुष्पप्रियायै नमः ।

ओं पीतहारायै नमः ।

ओं पीतस्वरूपिण्यै नमः । ११४

इति श्री बगला अष्टोत्तरशतनामावली ॥

sri bagalamukhi ashtottara shatanamavali