Skip to main content
पडताळणी प्रलंबित

श्री पद्मावती अष्टोत्तरशतनामावली

ओं पद्मावत्यै नमः ।

ओं देव्यै नमः ।

ओं पद्मोद्भवायै नमः ।

ओं करुणप्रदायिन्यै नमः ।

ओं सहृदयायै नमः ।

ओं तेजस्वरूपिण्यै नमः ।

ओं कमलमुखै नमः ।

ओं पद्मधरायै नमः ।

ओं श्रियै नमः । ९

ओं पद्मनेत्रे नमः ।

ओं पद्मकरायै नमः ।

ओं सुगुणायै नमः ।

ओं कुङ्कुमप्रियायै नमः ।

ओं हेमवर्णायै नमः ।

ओं चन्द्रवन्दितायै नमः ।

ओं धगधगप्रकाश शरीरधारिण्यै नमः ।

ओं विष्णुप्रियायै नमः ।

ओं नित्यकल्याण्यै नमः । १८

ओं कोटिसूर्यप्रकाशिन्यै नमः ।

ओं महासौन्दर्यरूपिण्यै नमः ।

ओं भक्तवत्सलायै नमः ।

ओं ब्रह्माण्डवासिन्यै नमः ।

ओं सर्ववाञ्छाफलदायिन्यै नमः ।

ओं धर्मसङ्कल्पायै नमः ।

ओं दाक्षिण्यकटाक्षिण्यै नमः ।

ओं भक्तिप्रदायिन्यै नमः ।

ओं गुणत्रयविवर्जितायै नमः । २७

ओं कलाषोडशसम्युतायै नमः ।

ओं सर्वलोकानां जनन्यै नमः ।

ओं मुक्तिदायिन्यै नमः ।

ओं दयामृतायै नमः ।

ओं प्राज्ञायै नमः ।

ओं महाधर्मायै नमः ।

ओं धर्मरूपिण्यै नमः ।

ओं अलङ्कार प्रियायै नमः ।

ओं सर्वदारिद्र्यध्वंसिन्यै नमः । ३६

ओं श्री वेङ्कटेशवक्षस्थलस्थितायै नमः ।

ओं लोकशोकविनाशिन्यै नमः ।

ओं वैष्णव्यै नमः ।

ओं तिरुचानूरुपुरवासिन्यै नमः ।

ओं वेदविद्याविशारदायै नमः ।

ओं विष्णुपादसेवितायै नमः ।

ओं रत्नप्रकाशकिरीटधारिण्यै नमः ।

ओं जगन्मोहिन्यै नमः ।

ओं शक्तिस्वरूपिण्यै नमः । ४५

ओं प्रसन्नोदयायै नमः ।

ओं इन्द्रादिदैवत यक्षकिन्नेरकिम्पुरुषपूजितायै नमः ।

ओं सर्वलोकनिवासिन्यै नमः ।

ओं भूजयायै नमः ।

ओं ऐश्वर्यप्रदायिन्यै नमः ।

ओं शान्तायै नमः ।

ओं उन्नतस्थानस्थितायै नमः ।

ओं मन्दारकामिन्यै नमः ।

ओं कमलाकरायै नमः । ५४

ओं वेदान्तज्ञानरूपिण्यै नमः ।

ओं सर्वसम्पत्तिरूपिण्यै नमः ।

ओं कोटिसूर्यसमप्रभायै नमः ।

ओं पूजफलदायिन्यै नमः ।

ओं कमलासनादि सर्वदेवतायै नमः ।

ओं वैकुण्ठवासिन्यै नमः ।

ओं अभयदायिन्यै नमः ।

ओं द्राक्षाफलपायसप्रियायै नमः ।

ओं नृत्यगीतप्रियायै नमः । ६३

ओं क्षीरसागरोद्भवायै नमः ।

ओं आकाशराजपुत्रिकायै नमः ।

ओं सुवर्णहस्तधारिण्यै नमः ।

ओं कामरूपिण्यै नमः ।

ओं करुणाकटाक्षधारिण्यै नमः ।

ओं अमृतासुजायै नमः ।

ओं भूलोकस्वर्गसुखदायिन्यै नमः ।

ओं अष्टदिक्पालकाधिपत्यै नमः ।

ओं मन्मधदर्पसंहार्यै नमः । ७२

ओं कमलार्धभागायै नमः ।

ओं स्वल्पापराध महापराध क्षमायै नमः ।

ओं षट्कोटितीर्थवासितायै नमः ।

ओं नारदादिमुनिश्रेष्ठपूजितायै नमः ।

ओं आदिशङ्करपूजितायै नमः ।

ओं प्रीतिदायिन्यै नमः ।

ओं सौभाग्यप्रदायिन्यै नमः ।

ओं महाकीर्तिप्रदायिन्यै नमः ।

ओं कृष्णातिप्रियायै नमः । ८१

ओं गन्धर्वशापविमोचकायै नमः ।

ओं कृष्णपत्न्यै नमः ।

ओं त्रिलोकपूजितायै नमः ।

ओं जगन्मोहिन्यै नमः ।

ओं सुलभायै नमः ।

ओं सुशीलायै नमः ।

ओं अञ्जनासुतानुग्रहप्रदायिन्यै नमः ।

ओं भक्त्यात्मनिवासिन्यै नमः ।

ओं सन्ध्यावन्दिन्यै नमः । ९०

ओं सर्वलोकमात्रे नमः ।

ओं अभिमतदायिन्यै नमः ।

ओं ललितावधूत्यै नमः ।

ओं समस्तशास्त्रविशारदायै नमः ।

ओं सुवर्णाभरणधारिण्यै नमः ।

ओं इहपरलोकसुखप्रदायिन्यै नमः ।

ओं करवीरनिवासिन्यै नमः ।

ओं नागलोकमणिसहा आकाशसिन्धुकमलेश्वरपूरित रथगमनायै नमः ।

ओं श्री श्रीनिवासप्रियायै नमः । ९९

ओं चन्द्रमण्डलस्थितायै नमः ।

ओं अलिवेलुमङ्गायै नमः ।

ओं दिव्यमङ्गलधारिण्यै नमः ।

ओं सुकल्याणपीठस्थायै नमः ।

ओं कामकवनपुष्पप्रियायै नमः ।

ओं कोटिमन्मधरूपिण्यै नमः ।

ओं भानुमण्डलरूपिण्यै नमः ।

ओं पद्मपादायै नमः ।

ओं रमायै नमः । १०८

ओं सर्वलोकसभान्तरधारिण्यै नमः ।

ओं सर्वमानसवासिन्यै नमः ।

ओं सर्वायै नमः ।

ओं विश्वरूपायै नमः ।

ओं दिव्यज्ञानायै नमः ।

ओं सर्वमङ्गलरूपिण्यै नमः ।

ओं सर्वानुग्रहप्रदायिन्यै नमः ।

ओं ओङ्कारस्वरूपिण्यै नमः ।

ओं ब्रह्मज्ञानसम्भूतायै नमः ।

ओं पद्मावत्यै नमः ।

ओं सद्योवेदवत्यै नमः ।

ओं श्री महालक्ष्मै नमः । १२०

sri padmavathi ashtottara satanamavali