Skip to main content
पडताळणी प्रलंबित

श्री दक्षिणामूर्त्यष्टोत्तरशतनामावली

ओं विद्यारूपिणे नमः ।

ओं महायोगिने नमः ।

ओं शुद्धज्ञानिने नमः ।

ओं पिनाकधृते नमः ।

ओं रत्नालङ्कृतसर्वाङ्गाय नमः ।

ओं रत्नमालिने नमः ।

ओं जटाधराय नमः ।

ओं गङ्गाधारिणे नमः ।

ओं अचलावासिने नमः । ९

ओं सर्वज्ञानिने नमः ।

ओं समाधिधृते नमः ।

ओं अप्रमेयाय नमः ।

ओं योगनिधये नमः ।

ओं तारकाय नमः ।

ओं भक्तवत्सलाय नमः ।

ओं ब्रह्मरूपिणे नमः ।

ओं जगद्व्यापिने नमः ।

ओं विष्णुमूर्तये नमः । १८

ओं पुरान्तकाय नमः ।

ओं उक्षवाहाय नमः ।

ओं चर्मवाससे नमः ।

ओं पीताम्बरविभूषणाय नमः ।

ओं मोक्षसिद्धये नमः ।

ओं मोक्षदायिने नमः ।

ओं दानवारये नमः ।

ओं जगत्पतये नमः ।

ओं विद्याधारिणे नमः । २७

ओं शुक्लतनवे नमः ।

ओं विद्यादायिने नमः ।

ओं गणाधिपाय नमः ।

ओं पापापस्मृतिसंहर्त्रे नमः ।

ओं शशिमौलये नमः ।

ओं महास्वनाय नमः ।

ओं सामप्रियाय नमः ।

ओं स्वयं साधवे नमः ।

ओं सर्वदेवैर्नमस्कृताय नमः । ३६

ओं हस्तवह्निधराय नमः ।

ओं श्रीमते नमः ।

ओं मृगधारिणे नमः ।

ओं शङ्कराय नमः ।

ओं यज्ञनाथाय नमः ।

ओं क्रतुध्वंसिने नमः ।

ओं यज्ञभोक्त्रे नमः ।

ओं यमान्तकाय नमः ।

ओं भक्तानुग्रहमूर्तये नमः । ४५

ओं भक्तसेव्याय नमः ।

ओं वृषध्वजाय नमः ।

ओं भस्मोद्धूलितसर्वाङ्गाय नमः ।

ओं अक्षमालाधराय नमः ।

ओं महते नमः ।

ओं त्रयीमूर्तये नमः ।

ओं परस्मै ब्रह्मणे नमः ।

ओं नागराजैरलङ्कृताय नमः ।

ओं शान्तरूपाय नमः । ५४

ओं महाज्ञानिने नमः ।

ओं सर्वलोकविभूषणाय नमः ।

ओं अर्धनारीश्वराय नमः ।

ओं देवाय नमः ।

ओं मुनिसेव्याय नमः ।

ओं सुरोत्तमाय नमः ।

ओं व्याख्यानदेवाय नमः ।

ओं भगवते नमः ।

ओं अग्निचन्द्रार्कलोचनाय नमः । ६३

ओं जगत्स्रष्ट्रे नमः ।

ओं जगद्गोप्त्रे नमः ।

ओं जगद्ध्वंसिने नमः ।

ओं त्रिलोचनाय नमः ।

ओं जगद्गुरवे नमः ।

ओं महादेवाय नमः ।

ओं महानन्दपरायणाय नमः ।

ओं जटाधारिणे नमः ।

ओं महावीराय नमः । ७२

ओं ज्ञानदेवैरलङ्कृताय नमः ।

ओं व्योमगङ्गाजलस्नाताय नमः ।

ओं सिद्धसङ्घसमर्चिताय नमः ।

ओं तत्त्वमूर्तये नमः ।

ओं महायोगिने नमः ।

ओं महासारस्वतप्रदाय नमः ।

ओं व्योममूर्तये नमः ।

ओं भक्तानामिष्टकामफलप्रदाय नमः ।

ओं वीरमूर्तये नमः । ८१

ओं विरूपिणे नमः ।

ओं तेजोमूर्तये नमः ।

ओं अनामयाय नमः ।

ओं वेदवेदाङ्गतत्त्वज्ञाय नमः ।

ओं चतुष्षष्टिकलानिधये नमः ।

ओं भवरोगभयध्वंसिने नमः ।

ओं भक्तानामभयप्रदाय नमः ।

ओं नीलग्रीवाय नमः ।

ओं ललाटाक्षाय नमः । ९०

ओं गजचर्मणे नमः ।

ओं ज्ञानदाय नमः ।

ओं अरोगिणे नमः ।

ओं कामदहनाय नमः ।

ओं तपस्विने नमः ।

ओं विष्णुवल्लभाय नमः ।

ओं ब्रह्मचारिणे नमः ।

ओं संन्यासिने नमः ।

ओं गृहस्थाश्रमकारणाय नमः । ९९

ओं दान्तशमवतां श्रेष्ठाय नमः ।

ओं सत्त्वरूपदयानिधये नमः ।

ओं योगपट्टाभिरामाय नमः ।

ओं वीणाधारिणे नमः ।

ओं विचेतनाय नमः ।

ओं मन्त्रप्रज्ञानुगाचाराय नमः ।

ओं मुद्रापुस्तकधारकाय नमः ।

ओं रागहिक्कादिरोगाणां विनिहन्त्रे नमः ।

ओं सुरेश्वराय नमः । १०८

इति श्री दक्षिणामूर्त्यष्टोत्तरशतनामावली ॥

sri dakshinamurthy ashtottara shatanamavali