Skip to main content
पडताळणी प्रलंबित

श्री ललिताष्टोत्तरशतनामावली

ओं ऐं ह्रीं श्रीम् ।

रजताचलशृङ्गाग्रमध्यस्थायै नमो नमः ।

हिमाचलमहावंशपावनायै नमो नमः ।

शङ्करार्धाङ्गसौन्दर्यशरीरायै नमो नमः ।

लसन्मरकतस्वच्छविग्रहायै नमो नमः ।

महातिशयसौन्दर्यलावण्यायै नमो नमः ।

शशाङ्कशेखरप्राणवल्लभायै नमो नमः ।

सदापञ्चदशात्मैक्यस्वरूपायै नमो नमः ।

वज्रमाणिक्यकटककिरीटायै नमो नमः ।

कस्तूरीतिलकोल्लासिनिटिलायै नमो नमः । ९

भस्मरेखाङ्कितलसन्मस्तकायै नमो नमः ।

विकचाम्भोरुहदललोचनायै नमो नमः ।

शरच्चाम्पेयपुष्पाभनासिकायै नमो नमः ।

लसत्काञ्चनताटङ्कयुगलायै नमो नमः ।

मणिदर्पणसङ्काशकपोलायै नमो नमः ।

ताम्बूलपूरितस्मेरवदनायै नमो नमः ।

सुपक्वदाडिमीबीजरदनायै नमो नमः ।

कम्बुपूगसमच्छायकन्धरायै नमो नमः ।

स्थूलमुक्ताफलोदारसुहारायै नमो नमः । १८

गिरीशबद्धमाङ्गल्यमङ्गलायै नमो नमः ।

पद्मपाशाङ्कुशलसत्कराब्जायै नमो नमः ।

पद्मकैरवमन्दारसुमालिन्यै नमो नमः ।

सुवर्णकुम्भयुग्माभसुकुचायै नमो नमः ।

रमणीयचतुर्बाहुसम्युक्तायै नमो नमः ।

कनकाङ्गदकेयूरभूषितायै नमो नमः ।

बृहत्सौवर्णसौन्दर्यवसनायै नमो नमः ।

बृहन्नितम्बविलसज्जघनायै नमो नमः ।

सौभाग्यजातशृङ्गारमध्यमायै नमो नमः । २७

दिव्यभूषणसन्दोहरञ्जितायै नमो नमः ।

पारिजातगुणाधिक्यपदाब्जायै नमो नमः ।

सुपद्मरागसङ्काशचरणायै नमो नमः ।

कामकोटिमहापद्मपीठस्थायै नमो नमः ।

श्रीकण्ठनेत्रकुमुदचन्द्रिकायै नमो नमः ।

सचामररमावाणीवीजितायै नमो नमः ।

भक्तरक्षणदाक्षिण्यकटाक्षायै नमो नमः ।

भूतेशालिङ्गनोद्भूतपुलकाङ्ग्यै नमो नमः ।

अनङ्गजनकापाङ्गवीक्षणायै नमो नमः । ३६

ब्रह्मोपेन्द्रशिरोरत्नरञ्जितायै नमो नमः ।

शचीमुख्यामरवधूसेवितायै नमो नमः ।

लीलाकल्पितब्रह्माण्डमण्डलायै नमो नमः ।

अमृतादिमहाशक्तिसंवृतायै नमो नमः ।

एकातपत्रसाम्राज्यदायिकायै नमो नमः ।

सनकादिसमाराध्यपादुकायै नमो नमः ।

देवर्षिभिःस्तूयमानवैभवायै नमो नमः ।

कलशोद्भवदुर्वासःपूजितायै नमो नमः ।

मत्तेभवक्त्रषड्वक्त्रवत्सलायै नमो नमः । ४५

चक्रराजमहायन्त्रमध्यवर्त्यै नमो नमः ।

चिदग्निकुण्डसम्भूतसुदेहायै नमो नमः ।

शशाङ्कखण्डसम्युक्तमकुटायै नमो नमः ।

मत्तहंसवधूमन्दगमनायै नमो नमः ।

वन्दारुजनसन्दोहवन्दितायै नमो नमः ।

अन्तर्मुखजनानन्दफलदायै नमो नमः ।

पतिव्रताङ्गनाभीष्टफलदायै नमो नमः ।

अव्याजकरुणापूरपूरितायै नमो नमः ।

नितान्तसच्चिदानन्दसम्युक्तायै नमो नमः । ५४

सहस्रसूर्यसम्युक्तप्रकाशायै नमो नमः ।

रत्नचिन्तामणिगृहमध्यस्थायै नमो नमः ।

हानिवृद्धिगुणाधिक्यरहितायै नमो नमः ।

महापद्माटवीमध्यनिवासायै नमो नमः ।

जाग्रत्स्वप्नसुषुप्तीनां साक्षिभूत्यै नमो नमः ।

महापापौघपापानां विनाशिन्यै नमो नमः ।

दुष्टभीतिमहाभीतिभञ्जनायै नमो नमः ।

समस्तदेवदनुजप्रेरकायै नमो नमः ।

समस्तहृदयाम्भोजनिलयायै नमो नमः । ६३

अनाहतमहापद्ममन्दिरायै नमो नमः ।

सहस्रारसरोजातवासितायै नमो नमः ।

पुनरावृत्तिरहितपुरस्थायै नमो नमः ।

वाणीगायत्रीसावित्रीसन्नुतायै नमो नमः ।

रमाभूमिसुताराध्यपदाब्जायै नमो नमः ।

लोपामुद्रार्चितश्रीमच्चरणायै नमो नमः ।

सहस्ररतिसौन्दर्यशरीरायै नमो नमः ।

भावनामात्रसन्तुष्टहृदयायै नमो नमः ।

सत्यसम्पूर्णविज्ञानसिद्धिदायै नमो नमः । ७२

श्रीलोचनकृतोल्लासफलदायै नमो नमः ।

श्रीसुधाब्धिमणिद्वीपमध्यगायै नमो नमः ।

दक्षाध्वरविनिर्भेदसाधनायै नमो नमः ।

श्रीनाथसोदरीभूतशोभितायै नमो नमः ।

चन्द्रशेखरभक्तार्तिभञ्जनायै नमो नमः ।

सर्वोपाधिविनिर्मुक्तचैतन्यायै नमो नमः ।

नामपारायणाभीष्टफलदायै नमो नमः ।

सृष्टिस्थितितिरोधानसङ्कल्पायै नमो नमः ।

श्रीषोडशाक्षरीमन्त्रमध्यगायै नमो नमः । ८१

अनाद्यन्तस्वयम्भूतदिव्यमूर्त्यै नमो नमः ।

भक्तहंसपरीमुख्यवियोगायै नमो नमः ।

मातृमण्डलसम्युक्तललितायै नमो नमः ।

भण्डदैत्यमहासत्त्वनाशनायै नमो नमः ।

क्रूरभण्डशिरश्छेदनिपुणायै नमो नमः ।

धात्र्यच्युतसुराधीशसुखदायै नमो नमः ।

चण्डमुण्डनिशुम्भादिखण्डनायै नमो नमः ।

रक्ताक्षरक्तजिह्वादिशिक्षणायै नमो नमः ।

महिषासुरदोर्वीर्यनिग्रहायै नमो नमः । ९०

अभ्रकेशमहोत्साहकारणायै नमो नमः ।

महेशयुक्तनटनतत्परायै नमो नमः ।

निजभर्तृमुखाम्भोजचिन्तनायै नमो नमः ।

वृषभध्वजविज्ञानभावनायै नमो नमः ।

जन्ममृत्युजरारोगभञ्जनायै नमो नमः ।

विधेयमुक्तविज्ञानसिद्धिदायै नमो नमः ।

कामक्रोधादिषड्वर्गनाशनायै नमो नमः ।

राजराजार्चितपदसरोजायै नमो नमः ।

सर्ववेदान्तसंसिद्धसुतत्त्वायै नमो नमः । ९९

श्रीवीरभक्तविज्ञाननिधानायै नमो नमः ।

अशेषदुष्टदनुजसूदनायै नमो नमः ।

साक्षाच्छ्रीदक्षिणामूर्तिमनोज्ञायै नमो नमः ।

हयमेधाग्रसम्पूज्यमहिमायै नमो नमः ।

दक्षप्रजापतिसुतावेषाढ्यायै नमो नमः ।

सुमबाणेक्षुकोदण्डमण्डितायै नमो नमः ।

नित्ययौवनमाङ्गल्यमङ्गलायै नमो नमः ।

महादेवसमायुक्तशरीरायै नमो नमः ।

महादेवरतौत्सुक्यमहादेव्यै नमो नमः । १०८

इति श्रीललिताष्टोत्तरशतनामावली ।

टिप्पणि: ऊपर दिया गया स्तोत्र इस पुस्तक में उपलब्ध है ।

( पारायण ग्रन्थम् )

sri lalitha ashtottara satanamavali in hindi