Skip to main content
पडताळणी प्रलंबित

श्री मेधादक्षिणामूर्ति त्रिशती नामावली

ओं ओङ्काररूपाय नमः ।

ओं ओङ्कारगृहकर्पूरदीपकाय नमः ।

ओं ओङ्कारशैलपञ्चास्याय नमः ।

ओं ओङ्कारसुमहत्पदाय नमः ।

ओं ओङ्कारपञ्जरशुकाय नमः ।

ओं ओङ्कारोद्यानकोकिलाय नमः ।

ओं ओङ्कारवनमायूराय नमः ।

ओं ओङ्कारकमलाकराय नमः ।

ओं ओङ्कारकूटनिलयाय नमः ।

ओं ओङ्कारतरुपल्लवाय नमः ।

ओं ओङ्कारचक्रमध्यस्थाय नमः ।

ओं ओङ्कारेश्वरपूजिताय नमः ।

ओं ओङ्कारपदसंवेद्याय नमः ।

ओं नन्दीशाय नमः ।

ओं नन्दिवाहनाय नमः ।

ओं नारायणाय नमः ।

ओं नराधाराय नमः ।

ओं नारीमानसमोहनाय नमः ।

ओं नान्दीश्राद्धप्रियाय नमः ।

ओं नाट्यतत्पराय नमः । २०

ओं नारदप्रियाय नमः ।

ओं नानाशास्त्ररहस्यज्ञाय नमः ।

ओं नदीपुलिनसंस्थिताय नमः ।

ओं नम्राय नमः ।

ओं नम्रप्रियाय नमः ।

ओं नागभूषणाय नमः ।

ओं मोहिनीप्रियाय नमः ।

ओं महामान्याय नमः ।

ओं महादेवाय नमः ।

ओं महाताण्डवपण्डिताय नमः ।

ओं माधवाय नमः ।

ओं मधुरालापाय नमः ।

ओं मीनाक्षीनायकाय नमः ।

ओं मुनये नमः ।

ओं मधुपुष्पप्रियाय नमः ।

ओं मानिने नमः ।

ओं माननीयाय नमः ।

ओं मतिप्रियाय नमः ।

ओं महायज्ञप्रियाय नमः ।

ओं भक्ताय नमः । ४०

ओं भक्तकल्पमहातरवे नमः ।

ओं भूतिदाय नमः ।

ओं भगवते नमः ।

ओं भक्तवत्सलाय नमः ।

ओं भवभैरवाय नमः ।

ओं भवाब्धितरणोपायाय नमः ।

ओं भाववेद्याय नमः ।

ओं भवापहाय नमः ।

ओं भवानीवल्लभाय नमः ।

ओं भानवे नमः ।

ओं भूतिभूषितविग्रहाय नमः ।

ओं गणाधिपाय नमः ।

ओं गणाराध्याय नमः ।

ओं गम्भीराय नमः ।

ओं गणभृते नमः ।

ओं गुरवे नमः ।

ओं गानप्रियाय नमः ।

ओं गुणाधाराय नमः ।

ओं गौरीमानसमोहनाय नमः ।

ओं गोपालपूजिताय नमः । ६०

ओं गोप्त्रे नमः ।

ओं गौराङ्गाय नमः ।

ओं गिरिशाय नमः ।

ओं गुहाय नमः ।

ओं वरिष्ठाय नमः ।

ओं वीर्यवते नमः ।

ओं विदुषे नमः ।

ओं विद्याधाराय नमः ।

ओं वनप्रियाय नमः ।

ओं वसन्तपुष्परुचिरमालालङ्कृतमूर्धजाय नमः ।

ओं विद्वत्प्रियाय नमः ।

ओं वीतिहोत्राय नमः ।

ओं विश्वामित्रवरप्रदाय नमः ।

ओं वाक्पतये नमः ।

ओं वरदाय नमः ।

ओं वायवे नमः ।

ओं वाराहीहृदयङ्गमाय नमः ।

ओं तेजःप्रदाय नमः ।

ओं तन्त्रमयाय नमः ।

ओं तारकासुरसङ्घहृते नमः । ८०

ओं ताटकान्तकसम्पूज्याय नमः ।

ओं तारकाधिपभूषणाय नमः ।

ओं त्रैयम्बकाय नमः ।

ओं त्रिकालज्ञाय नमः ।

ओं तुषाराचलमन्दिराय नमः ।

ओं तपनाग्निशशाङ्काक्षाय नमः ।

ओं तीर्थाटनपरायणाय नमः ।

ओं त्रिपुण्ड्रविलसत्फालफलकाय नमः ।

ओं तरुणाय नमः ।

ओं तरवे नमः ।

ओं दयालवे नमः ।

ओं दक्षिणामूर्तये नमः ।

ओं दानवान्तकपूजिताय नमः ।

ओं दारिद्र्यनाशकाय नमः ।

ओं दीनरक्षकाय नमः ।

ओं दिव्यलोचनाय नमः ।

ओं दिव्यरत्नसमाकीर्णकण्ठाभरणभूषिताय नमः ।

ओं दुष्टराक्षसदर्पघ्नाय नमः ।

ओं दुराराध्याय नमः ।

ओं दिगम्बराय नमः । १००

ओं दिक्पालकसमाराध्यचरणाय नमः ।

ओं दीनवल्लभाय नमः ।

ओं दम्भाचारहराय नमः ।

ओं क्षिप्रकारिणे नमः ।

ओं क्षत्रियपूजिताय नमः ।

ओं क्षेत्रज्ञाय नमः ।

ओं क्षामरहिताय नमः ।

ओं क्षौमाम्बरविभूषिताय नमः ।

ओं क्षेत्रपालार्चिताय नमः ।

ओं क्षेमकारिणे नमः ।

ओं क्षीरोपमाकृतये नमः ।

ओं क्षीराब्धिजामनोनाथपूजिताय नमः ।

ओं क्षयरोगहृते नमः ।

ओं क्षपाकरधराय नमः ।

ओं क्षोभवर्जिताय नमः ।

ओं क्षितिसौख्यदाय नमः ।

ओं नानारूपधराय नमः ।

ओं नामरहिताय नमः ।

ओं नादतत्पराय नमः ।

ओं नरनाथप्रियाय नमः । १२०

ओं नग्नाय नमः ।

ओं नानालोकसमर्चिताय नमः ।

ओं नौकारूढाय नमः ।

ओं नदीभर्त्रे नमः ।

ओं निगमाश्वाय नमः ।

ओं निरञ्जनाय नमः ।

ओं नानाजिनधराय नमः ।

ओं नीललोहिताय नमः ।

ओं नित्ययौवनाय नमः ।

ओं मूलाधारादिचक्रस्थाय नमः ।

ओं महादेवीमनोहराय नमः ।

ओं माधवार्चितपादाब्जाय नमः ।

ओं माख्यपुष्पार्चनप्रियाय नमः ।

ओं मन्मथान्तकराय नमः ।

ओं मित्रमहामण्डलसंस्थिताय नमः ।

ओं मित्रप्रियाय नमः ।

ओं मित्रदन्तहराय नमः ।

ओं मङ्गलवर्धनाय नमः ।

ओं मन्मथानेकधिक्कारिलावण्याञ्चितविग्रहाय नमः ।

ओं मित्रेन्दुकृतचक्राढ्यमेदिनीरथनायकाय नमः । १४०

ओं मधुवैरिणे नमः ।

ओं महाबाणाय नमः ।

ओं मन्दराचलमन्दिराय नमः ।

ओं तन्वीसहायाय नमः ।

ओं त्रैलोक्यमोहनास्त्रकलामयाय नमः ।

ओं त्रिकालज्ञानसम्पन्नाय नमः ।

ओं त्रिकालज्ञानदायकाय नमः ।

ओं त्रयीनिपुणसंसेव्याय नमः ।

ओं त्रिशक्तिपरिसेविताय नमः ।

ओं त्रिणेत्राय नमः ।

ओं तीर्थफलकाय नमः ।

ओं तन्त्रमार्गप्रवर्तकाय नमः ।

ओं तृप्तिप्रदाय नमः ।

ओं तन्त्रयन्त्रमन्त्रतत्परसेविताय नमः ।

ओं त्रयीशिखामयाय नमः ।

ओं यक्षकिन्नराद्यमरार्चिताय नमः ।

ओं यमबाधाहराय नमः ।

ओं यज्ञनायकाय नमः ।

ओं यज्ञमूर्तिभृते नमः ।

ओं यज्ञेशाय नमः । १६०

ओं यज्ञकर्त्रे नमः ।

ओं यज्ञविघ्नविनाशनाय नमः ।

ओं यज्ञकर्मफलाध्याक्षाय नमः ।

ओं यज्ञभोक्त्रे नमः ।

ओं युगावहाय नमः ।

ओं युगाधीशाय नमः ।

ओं यदुपतिसेविताय नमः ।

ओं महदाश्रयाय नमः ।

ओं माणिक्यकंणकराय नमः ।

ओं मुक्ताहारविभूषिताय नमः ।

ओं मणिमञ्जीरचरणाय नमः ।

ओं मलयाचलनायकाय नमः ।

ओं मृत्युञ्जयाय नमः ।

ओं मृत्तिकराय नमः ।

ओं मुदिताय नमः ।

ओं मुनिसत्तमाय नमः ।

ओं मोहिनीनायकाय नमः ।

ओं मायापत्यै नमः ।

ओं मोहनरूपधृते नमः ।

ओं हरिप्रियाय नमः । १८०

ओं हविष्याशाय नमः ।

ओं हरिमानसगोचराय नमः ।

ओं हराय नमः ।

ओं हर्षप्रदाय नमः ।

ओं हालाहलभोजनतत्पराय नमः ।

ओं हरिध्वजसमाराध्याय नमः ।

ओं हरिब्रह्मेन्द्रपूजिताय नमः ।

ओं हारीतवरदाय नमः ।

ओं हासजितराक्षससंहतये नमः ।

ओं हृत्पुण्डरीकनिलयाय नमः ।

ओं हतभक्तविपद्गणाय नमः ।

ओं मेरुशैलकृतावासाय नमः ।

ओं मन्त्रिणीपरिसेविताय नमः ।

ओं मन्त्रज्ञाय नमः ।

ओं मन्त्रतत्त्वार्थपरिज्ञानिने नमः ।

ओं मदालसाय नमः ।

ओं महादेवीसमाराध्यदिव्यपादुकरञ्जिताय नमः ।

ओं मन्त्रात्मकाय नमः ।

ओं मन्त्रमयाय नमः ।

ओं महालक्ष्मीसमर्चिताय नमः । २००

ओं महाभूतमयाय नमः ।

ओं मायापूजिताय नमः ।

ओं मधुरस्वनाय नमः ।

ओं धाराधरोपमगलाय नमः ।

ओं धरास्यन्दनसंस्थिताय नमः ।

ओं ध्रुवसम्पूजिताय नमः ।

ओं धात्रीनाथभक्तवरप्रदाय नमः ।

ओं ध्यानगम्याय नमः ।

ओं ध्याननिष्ठहृत्पद्मान्तरपूजिताय नमः ।

ओं धर्माधीनाय नमः ।

ओं धर्मरताय नमः ।

ओं धनदाय नमः ।

ओं धनदप्रियाय नमः ।

ओं धनाध्यक्षार्चनप्रीताय नमः ।

ओं धीरविद्वज्जनाश्रयाय नमः ।

ओं प्रणवाक्षरमध्यस्थाय नमः ।

ओं प्रभवे नमः ।

ओं पौराणिकोत्तमाय नमः ।

ओं पद्मालयापतिनुताय नमः ।

ओं परस्त्रीविमुखप्रियाय नमः । २२०

ओं पञ्चब्रह्ममयाय नमः ।

ओं पञ्चमुखाय नमः ।

ओं परमपावनाय नमः ।

ओं पञ्चबाणप्रमथनाय नमः ।

ओं पुरारातये नमः ।

ओं परात्पराय नमः ।

ओं पुराणन्यायमीमांसधर्मशास्त्रप्रवर्तकाय नमः ।

ओं ज्ञानप्रदाय नमः ।

ओं ज्ञानगम्याय नमः ।

ओं ज्ञानतत्परपूजिताय नमः ।

ओं ज्ञानवेद्याय नमः ।

ओं ज्ञातिहीनाय नमः ।

ओं ज्ञेयमूर्तिस्वरूपधृते नमः ।

ओं ज्ञानदात्रे नमः ।

ओं ज्ञानशीलाय नमः ।

ओं ज्ञानवैराग्यसम्युताय नमः ।

ओं ज्ञानमुद्राञ्चितकराय नमः ।

ओं ज्ञातमन्त्रकदम्बकाय नमः ।

ओं ज्ञानवैराग्यसम्पन्नवरदाय नमः ।

ओं प्रकृतिप्रियाय नमः । २४०

ओं पद्मासनसमाराध्याय नमः ।

ओं पद्मपत्रायतेक्षणाय नमः ।

ओं परस्मै ज्योतिषे नमः ।

ओं परस्मै धाम्ने नमः ।

ओं प्रधानपुरुषाय नमः ।

ओं परस्मै नमः ।

ओं प्रावृड्विवर्धनाय नमः ।

ओं प्रावृण्णिधये नमः ।

ओं प्रावृट्खगेश्वराय नमः ।

ओं पिनाकपाणये नमः ।

ओं पक्षीन्द्रवाहनाराध्यपादुकाय नमः ।

ओं यजमानप्रियाय नमः ।

ओं यज्ञपतये नमः ।

ओं यज्ञफलप्रदाय नमः ।

ओं यागाराध्याय नमः ।

ओं योगगम्याय नमः ।

ओं यमपीडाहराय नमः ।

ओं यतये नमः ।

ओं यातायातादिरहिताय नमः ।

ओं यतिधर्मपरायणाय नमः । २६०

ओं यादोनिधये नमः ।

ओं यादवेन्द्राय नमः ।

ओं यक्षकिन्नरसेविताय नमः ।

ओं छन्दोमयाय नमः ।

ओं छत्रपतये नमः ।

ओं छत्रपालनतत्पराय नमः ।

ओं छन्दः शास्त्रादिनिपुणाय नमः ।

ओं छान्दोग्यपरिपूरिताय नमः ।

ओं छिन्नाप्रियाय नमः ।

ओं छत्रहस्ताय नमः ।

ओं छिन्नामन्त्रजपप्रियाय नमः ।

ओं छायापतये नमः ।

ओं छद्मगारये नमः ।

ओं छलजात्यादिदूरगाय नमः ।

ओं छाद्यमानमहाभूतपञ्चकाय नमः ।

ओं स्वादु तत्पराय नमः ।

ओं सुराराध्याय नमः ।

ओं सुरपतये नमः ।

ओं सुन्दराय नमः ।

ओं सुन्दरीप्रियाय नमः । २८०

ओं सुमुखाय नमः ।

ओं सुभगाय नमः ।

ओं सौम्याय नमः ।

ओं सिद्धमार्गप्रवर्तकाय नमः ।

ओं सर्वशास्त्ररहस्यज्ञाय नमः ।

ओं सोमाय नमः ।

ओं सोमविभूषणाय नमः ।

ओं हाटकाभजटाजूटाय नमः ।

ओं हाटकाय नमः ।

ओं हाटकप्रियाय नमः ।

ओं हरिद्राकुङ्कुमोपेतदिव्यगन्धप्रियाय नमः ।

ओं हरये नमः ।

ओं हाटकाभरणोपेतरुद्राक्षकृतभूषणाय नमः ।

ओं हैहयेशाय नमः ।

ओं हतरिपवे नमः ।

ओं हरिमानसतोषणाय नमः ।

ओं हयग्रीवसमाराध्याय नमः ।

ओं हयग्रीववरप्रदाय नमः ।

ओं हारायितमहाभक्तसुरनाथमहोहराय नमः ।

ओं दक्षिणामूर्तये नमः । ३००

इति श्री मेधादक्षिणामूर्ति त्रिशती नामावली ॥

sri medha dakshinamurthy trishati namavali