Skip to main content
पडताळणी प्रलंबित

श्री मातङ्गी अष्टोत्तरशतनामावली

ओं महामत्तमातङ्गिनीसिद्धिरूपायै नमः ।

ओं योगिन्यै नमः ।

ओं भद्रकाल्यै नमः ।

ओं रमायै नमः ।

ओं भवान्यै नमः ।

ओं भवप्रीतिदायै नमः ।

ओं भूतियुक्तायै नमः ।

ओं भवाराधितायै नमः ।

ओं भूतिसम्पत्कर्यै नमः । ९

ओं धनाधीशमात्रे नमः ।

ओं धनागारदृष्ट्यै नमः ।

ओं धनेशार्चितायै नमः ।

ओं धीरवापीवराङ्ग्यै नमः ।

ओं प्रकृष्ट प्रभारूपिण्यै नमः ।

ओं कामरूप प्रहृष्टायै नमः ।

ओं महाकीर्तिदायै नमः ।

ओं कर्णनाल्यै नमः ।

ओं करालीभगाघोररूपायै नमः । १८

ओं भगाङ्ग्यै नमः ।

ओं भगाह्वायै नमः ।

ओं भगप्रीतिदायै नमः ।

ओं भीमरूपायै नमः ।

ओं भवान्यै नमः ।

ओं महाकौशिक्यै नमः ।

ओं कोशपूर्णायै नमः ।

ओं किशोरी किशोरप्रियानन्दईहायै नमः ।

ओं महाकारणाकारणायै नमः । २७

ओं कर्मशीलायै नमः ।

ओं कपालि प्रसिद्धायै नमः ।

ओं महासिद्धखण्डायै नमः ।

ओं मकारप्रियायै नमः ।

ओं मानरूपायै नमः ।

ओं महेश्यै नमः ।

ओं महोल्लासिनी लास्यलीला लयाङ्ग्यै नमः ।

ओं क्षमा क्षेमशीलायै नमः ।

ओं क्षपाकारिण्यै नमः । ३६

ओं अक्षयप्रीतिदायै नमः ।

ओं भूतियुक्ता भवान्यै नमः ।

ओं भवाराधितायै नमः ।

ओं भूतिसत्यात्मिकायै नमः ।

ओं प्रभोद्भासितायै नमः ।

ओं भानुभास्वत्करायै नमः ।

ओं धराधीशमात्रे नमः ।

ओं धरागारदृष्ट्यै नमः ।

ओं धरेशार्चितायै नमः । ४५

ओं धीवराधीवराङ्ग्यै नमः ।

ओं प्रकृष्टप्रभारूपिण्यै नमः ।

ओं प्राणरूप प्रकृष्टस्वरूपायै नमः ।

ओं स्वरूपप्रियाय नमः ।

ओं चलत्कुण्डलायै नमः ।

ओं कामिनीकान्तयुक्तायै नमः ।

ओं कपालाचलायै नमः ।

ओं कालकोद्धारिण्यै नमः ।

ओं कदम्बप्रियायै नमः । ५४

ओं कोटरी कोटदेहायै नमः ।

ओं क्रमायै नमः ।

ओं कीर्तिदायै नमः ।

ओं कर्णरूपायै नमः ।

ओं काक्ष्म्यै नमः ।

ओं क्षमाङ्ग्यै नमः ।

ओं क्षयप्रेमरूपायै नमः ।

ओं क्षपायै नमः ।

ओं क्षयाक्षायै नमः । ६३

ओं क्षयाह्वायै नमः ।

ओं क्षयप्रान्तरायै नमः ।

ओं क्षवत्कामिन्यै नमः ।

ओं क्षारिणी क्षीरपूर्णायै नमः ।

ओं शिवाङ्ग्यै नमः ।

ओं शाकम्भरी शाकदेहायै नमः ।

ओं महाशाकयज्ञायै नमः ।

ओं फलप्राशकायै नमः ।

ओं शकाह्वायै नमः । ७२

ओं अशकाह्वायै नमः ।

ओं शकाख्यायै नमः ।

ओं शकायै नमः ।

ओं शकाक्षान्तरोषायै नमः ।

ओं सुरोषायै नमः ।

ओं सुरेखायै नमः ।

ओं महाशेषयज्ञोपवीतप्रियायै नमः ।

ओं जयन्त्यै नमः ।

ओं जयायै नमः । ८१

ओं जाग्रती योग्यरूपायै नमः ।

ओं जयाङ्ग्यै नमः ।

ओं जपध्यानसन्तुष्टसञ्ज्ञायै नमः ।

ओं जयप्राणरूपायै नमः ।

ओं जयस्वर्णदेहायै नमः ।

ओं जयज्वालिनीयामिन्यै नमः ।

ओं याम्यरूपायै नमः ।

ओं जगन्मातृरूपायै नमः ।

ओं जगद्रक्षणायै नमः । ९०

ओं स्वधावौषडन्तायै नमः ।

ओं विलम्बाविलम्बायै नमः ।

ओं षडङ्गायै नमः ।

ओं महालम्बरूपासिहस्तायै नमः ।

ओं पदाहारिणीहारिण्यै नमः ।

ओं हारिण्यै नमः ।

ओं महामङ्गलायै नमः ।

ओं मङ्गलप्रेमकीर्तये नमः ।

ओं निशुम्भच्छिदायै नमः । ९९

ओं शुम्भदर्पापहायै नमः ।

ओं आनन्दबीजादिमुक्तिस्वरूपायै नमः ।

ओं चण्डमुण्डापदा मुख्यचण्डायै नमः ।

ओं प्रचण्डाप्रचण्डायै नमः ।

ओं महाचण्डवेगायै नमः ।

ओं चलच्चामरायै नमः ।

ओं चामराचन्द्रकीर्तये नमः ।

ओं सुचामीकरा चित्रभूषोज्ज्वलाङ्ग्यै नमः ।

ओं सुसङ्गीतगीतायै नमः । १०८

sri matangi ashtottara shatanamavali