Skip to main content
पडताळणी प्रलंबित

श्री राजराजेश्वर्यष्टोत्तरशतनामावली

ओं भुवनेश्वर्यै नमः ।

ओं राजेश्वर्यै नमः ।

ओं राजराजेश्वर्यै नमः ।

ओं कामेश्वर्यै नमः ।

ओं बालात्रिपुरसुन्दर्यै नमः ।

ओं सर्वेश्वर्यै नमः ।

ओं कल्याण्यै नमः ।

ओं सर्वसङ्क्षोभिण्यै नमः ।

ओं सर्वलोकशरीरिण्यै नमः । ९

ओं सौगन्धिकपरिमलायै नमः ।

ओं मन्त्रिणे नमः ।

ओं मन्त्ररूपिण्यै नमः ।

ओं प्रकृत्यै नमः ।

ओं विकृत्यै नमः ।

ओं अदित्यै नमः ।

ओं सौभाग्यवत्यै नमः ।

ओं पद्मावत्यै नमः ।

ओं भगवत्यै नमः । १८

ओं श्रीमत्यै नमः ।

ओं सत्यवत्यै नमः ।

ओं प्रियकृत्यै नमः ।

ओं मायायै नमः ।

ओं सर्वमङ्गलायै नमः ।

ओं सर्वलोकमोहाधीशान्यै नमः ।

ओं किङ्करीभूतगीर्वाण्यै नमः ।

ओं परब्रह्मस्वरूपिण्यै नमः ।

ओं पुराणागमरूपिण्यै नमः । २७

ओं पञ्चप्रणवरूपिण्यै नमः ।

ओं सर्वग्रहरूपिण्यै नमः ।

ओं रक्तगन्धकस्तुरीविलेप्यै नमः ।

ओं नायिकायै नमः ।

ओं शरण्यायै नमः ।

ओं निखिलविद्येश्वर्यै नमः ।

ओं जनेश्वर्यै नमः ।

ओं भूतेश्वर्यै नमः ।

ओं सर्वसाक्षिण्यै नमः । ३६

ओं क्षेमकारिण्यै नमः ।

ओं पुण्यायै नमः ।

ओं सर्वरक्षिण्यै नमः ।

ओं सकलधर्मिण्यै नमः ।

ओं विश्वकर्मिण्यै नमः ।

ओं सुरमुनिदेवनुतायै नमः ।

ओं सर्वलोकाराध्यायै नमः ।

ओं पद्मासनासीनायै नमः ।

ओं योगीश्वरमनोध्येयायै नमः । ४५

ओं चतुर्भुजायै नमः ।

ओं सर्वार्थसाधनाधीशायै नमः ।

ओं पूर्वायै नमः ।

ओं नित्यायै नमः ।

ओं परमानन्दायै नमः ।

ओं कलायै नमः ।

ओं अनङ्गायै नमः ।

ओं वसुन्धरायै नमः ।

ओं शुभदायै नमः । ५४

ओं त्रिकालज्ञानसम्पन्नायै नमः ।

ओं पीताम्बरधरायै नमः ।

ओं अनन्तायै नमः ।

ओं भक्तवत्सलायै नमः ।

ओं पादपद्मायै नमः ।

ओं जगत्कारिण्यै नमः ।

ओं अव्ययायै नमः ।

ओं लीलामानुषविग्रहायै नमः ।

ओं सर्वमायायै नमः । ६३

ओं मृत्युञ्जयायै नमः ।

ओं कोटिसूर्यसमप्रभायै नमः ।

ओं पवित्रायै नमः ।

ओं प्राणदायै नमः ।

ओं विमलायै नमः ।

ओं महाभूषायै नमः ।

ओं सर्वभूतहितप्रदायै नमः ।

ओं पद्मालयायै नमः ।

ओं सुधायै नमः । ७२

ओं स्वाङ्गायै नमः ।

ओं पद्मरागकिरीटिण्यै नमः ।

ओं सर्वपापविनाशिन्यै नमः ।

ओं सकलसम्पत्प्रदायिन्यै नमः ।

ओं पद्मगन्धिन्यै नमः ।

ओं सर्वविघ्नक्लेशध्वंसिन्यै नमः ।

ओं हेममालिन्यै नमः ।

ओं विश्वमूर्त्यै नमः ।

ओं अग्निकल्पायै नमः । ८१

ओं पुण्डरीकाक्षिण्यै नमः ।

ओं महाशक्त्यै नमः ।

ओं बुद्ध्यै नमः ।

ओं भूतेश्वर्यै नमः ।

ओं अदृश्यायै नमः ।

ओं शुभेक्षणायै नमः ।

ओं सर्वधर्मिण्यै नमः ।

ओं प्राणायै नमः ।

ओं श्रेष्ठायै नमः । ९०

ओं शान्तायै नमः ।

ओं तत्त्वायै नमः ।

ओं सर्वजनन्यै नमः ।

ओं सर्वलोकवासिन्यै नमः ।

ओं कैवल्यरेखिन्यै नमः ।

ओं भक्तपोषणविनोदिन्यै नमः ।

ओं दारिद्र्यनाशिन्यै नमः ।

ओं सर्वोपद्रववारिण्यै नमः ।

ओं संहृदानन्दलहर्यै नमः । ९९

ओं चतुर्दशान्तकोणस्थायै नमः ।

ओं सर्वात्मायै नमः ।

ओं सत्यवक्त्रे नमः ।

ओं न्यायायै नमः ।

ओं धनधान्यनिध्यै नमः ।

ओं कायकृत्यै नमः ।

ओं अनन्तजित्यै नमः ।

ओं अनन्तगुणरूपिण्यै नमः ।

ओं स्थिरेश्वर्यै नमः । १०८

इति श्री राजराजेश्वर्यष्टोत्तरशतनामावली ॥

sri rajarajeshwari ashtottara satanamavali