Skip to main content
पडताळणी प्रलंबित

श्री सरस्वती सहस्रनामावली

ओं वाचे नमः ।

ओं वाण्यै नमः ।

ओं वरदायै नमः ।

ओं वन्द्यायै नमः ।

ओं वरारोहायै नमः ।

ओं वरप्रदायै नमः ।

ओं वृत्त्यै नमः ।

ओं वागीश्वर्यै नमः ।

ओं वार्तायै नमः ।

ओं वरायै नमः ।

ओं वागीशवल्लभायै नमः ।

ओं विश्वेश्वर्यै नमः ।

ओं विश्ववन्द्यायै नमः ।

ओं विश्वेशप्रियकारिण्यै नमः ।

ओं वाग्वादिन्यै नमः ।

ओं वाग्देव्यै नमः ।

ओं वृद्धिदायै नमः ।

ओं वृद्धिकारिण्यै नमः ।

ओं वृद्ध्यै नमः ।

ओं वृद्धायै नमः । २०

ओं विषघ्न्यै नमः ।

ओं वृष्ट्यै नमः ।

ओं वृष्टिप्रदायिन्यै नमः ।

ओं विश्वाराध्यायै नमः ।

ओं विश्वमात्रे नमः ।

ओं विश्वधात्र्यै नमः ।

ओं विनायकायै नमः ।

ओं विश्वशक्त्यै नमः ।

ओं विश्वसारायै नमः ।

ओं विश्वायै नमः ।

ओं विश्वविभावर्यै नमः ।

ओं वेदान्तवेदिन्यै नमः ।

ओं वेद्यायै नमः ।

ओं वित्तायै नमः ।

ओं वेदत्रयात्मिकायै नमः ।

ओं वेदज्ञायै नमः ।

ओं वेदजनन्यै नमः ।

ओं विश्वायै नमः ।

ओं विश्वविभावर्यै नमः ।

ओं वरेण्यायै नमः । ४०

ओं वाङ्मय्यै नमः ।

ओं वृद्धायै नमः ।

ओं विशिष्टप्रियकारिण्यै नमः ।

ओं विश्वतोवदनायै नमः ।

ओं व्याप्तायै नमः ।

ओं व्यापिन्यै नमः ।

ओं व्यापकात्मिकायै नमः ।

ओं व्यालघ्न्यै नमः ।

ओं व्यालभूषाङ्ग्यै नमः ।

ओं विरजायै नमः ।

ओं वेदनायिकायै नमः ।

ओं वेदवेदान्तसंवेद्यायै नमः ।

ओं वेदान्तज्ञानरूपिण्यै नमः ।

ओं विभावर्यै नमः ।

ओं विक्रान्तायै नमः ।

ओं विश्वामित्रायै नमः ।

ओं विधिप्रियायै नमः ।

ओं वरिष्ठायै नमः ।

ओं विप्रकृष्टायै नमः ।

ओं विप्रवर्यप्रपूजितायै नमः । ६०

ओं वेदरूपायै नमः ।

ओं वेदमय्यै नमः ।

ओं वेदमूर्त्यै नमः ।

ओं वल्लभायै नमः ।

ओं गौर्यै नमः ।

ओं गुणवत्यै नमः ।

ओं गोप्यायै नमः ।

ओं गन्धर्वनगरप्रियायै नमः ।

ओं गुणमात्रे नमः ।

ओं गुणान्तस्थायै नमः ।

ओं गुरुरूपायै नमः ।

ओं गुरुप्रियायै नमः ।

ओं गुरुविद्यायै नमः ।

ओं गानतुष्टायै नमः ।

ओं गायकप्रियकारिण्यै नमः ।

ओं गायत्र्यै नमः ।

ओं गिरीशाराध्यायै नमः ।

ओं गिरे नमः ।

ओं गिरीशप्रियङ्कर्यै नमः ।

ओं गिरिज्ञायै नमः । ८०

ओं ज्ञानविद्यायै नमः ।

ओं गिरिरूपायै नमः ।

ओं गिरीश्वर्यै नमः ।

ओं गीर्मात्रे नमः ।

ओं गणसंस्तुत्यायै नमः ।

ओं गणनीयगुणान्वितायै नमः ।

ओं गूढरूपायै नमः ।

ओं गुहायै नमः ।

ओं गोप्यायै नमः ।

ओं गोरूपायै नमः ।

ओं गवे नमः ।

ओं गुणात्मिकायै नमः ।

ओं गुर्व्यै नमः ।

ओं गुर्वम्बिकायै नमः ।

ओं गुह्यायै नमः ।

ओं गेयजायै नमः ।

ओं गृहनाशिन्यै नमः ।

ओं गृहिण्यै नमः ।

ओं गृहदोषघ्न्यै नमः ।

ओं गवघ्न्यै नमः । १००

ओं गुरुवत्सलायै नमः ।

ओं गृहात्मिकायै नमः ।

ओं गृहाराध्यायै नमः ।

ओं गृहबाधाविनाशिन्यै नमः ।

ओं गङ्गायै नमः ।

ओं गिरिसुतायै नमः ।

ओं गम्यायै नमः ।

ओं गजयानायै नमः ।

ओं गुहस्तुतायै नमः ।

ओं गरुडासनसंसेव्यायै नमः ।

ओं गोमत्यै नमः ।

ओं गुणशालिन्यै नमः ।

ओं शारदायै नमः ।

ओं शाश्वत्यै नमः ।

ओं शैव्यै नमः ।

ओं शाङ्कर्यै नमः ।

ओं शङ्करात्मिकायै नमः ।

ओं श्रियै नमः ।

ओं शर्वाण्यै नमः ।

ओं शतघ्न्यै नमः । १२०

ओं शरच्चन्द्रनिभाननायै नमः ।

ओं शर्मिष्ठायै नमः ।

ओं शमनघ्न्यै नमः ।

ओं शतसाहस्ररूपिण्यै नमः ।

ओं शिवायै नमः ।

ओं शम्भुप्रियायै नमः ।

ओं श्रद्धायै नमः ।

ओं श्रुतिरूपायै नमः ।

ओं श्रुतिप्रियायै नमः ।

ओं शुचिष्मत्यै नमः ।

ओं शर्मकर्यै नमः ।

ओं शुद्धिदायै नमः ।

ओं शुद्धिरूपिण्यै नमः ।

ओं शिवायै नमः ।

ओं शिवङ्कर्यै नमः ।

ओं शुद्धायै नमः ।

ओं शिवाराध्यायै नमः ।

ओं शिवात्मिकायै नमः ।

ओं श्रीमत्यै नमः ।

ओं श्रीमय्यै नमः । १४०

ओं श्राव्यायै नमः ।

ओं श्रुत्यै नमः ।

ओं श्रवणगोचरायै नमः ।

ओं शान्त्यै नमः ।

ओं शान्तिकर्यै नमः ।

ओं शान्तायै नमः ।

ओं शान्ताचारप्रियङ्कर्यै नमः ।

ओं शीललभ्यायै नमः ।

ओं शीलवत्यै नमः ।

ओं श्रीमात्रे नमः ।

ओं शुभकारिण्यै नमः ।

ओं शुभवाण्यै नमः ।

ओं शुद्धविद्यायै नमः ।

ओं शुद्धचित्तप्रपूजितायै नमः ।

ओं श्रीकर्यै नमः ।

ओं श्रुतपापघ्न्यै नमः ।

ओं शुभाक्ष्यै नमः ।

ओं शुचिवल्लभायै नमः ।

ओं शिवेतरघ्न्यै नमः ।

ओं शबर्यै नमः । १६० [शर्वर्यै]

ओं श्रवणीयगुणान्वितायै नमः ।

ओं शार्यै नमः ।

ओं शिरीषपुष्पाभायै नमः ।

ओं शमनिष्ठायै नमः ।

ओं शमात्मिकायै नमः ।

ओं शमान्वितायै नमः ।

ओं शमाराध्यायै नमः ।

ओं शितिकण्ठप्रपूजितायै नमः ।

ओं शुद्ध्यै नमः ।

ओं शुद्धिकर्यै नमः ।

ओं श्रेष्ठायै नमः ।

ओं श्रुतानन्तायै नमः ।

ओं शुभावहायै नमः ।

ओं सरस्वत्यै नमः ।

ओं सर्वज्ञायै नमः ।

ओं सर्वसिद्धिप्रदायिन्यै नमः ।

ओं सरस्वत्यै नमः ।

ओं सावित्र्यै नमः ।

ओं सन्ध्यायै नमः ।

ओं सर्वेप्सितप्रदायै नमः । १८०

ओं सर्वार्तिघ्न्यै नमः ।

ओं सर्वमय्यै नमः ।

ओं सर्वविद्याप्रदायिन्यै नमः ।

ओं सर्वेश्वर्यै नमः ।

ओं सर्वपुण्यायै नमः ।

ओं सर्गस्थित्यन्तकारिण्यै नमः ।

ओं सर्वाराध्यायै नमः ।

ओं सर्वमात्रे नमः ।

ओं सर्वदेवनिषेवितायै नमः ।

ओं सर्वैश्वर्यप्रदायै नमः ।

ओं सत्यायै नमः ।

ओं सत्यै नमः ।

ओं सत्वगुणाश्रयायै नमः ।

ओं सर्वक्रमपदाकारायै नमः ।

ओं सर्वदोषनिषूदिन्यै नमः ।

ओं सहस्राक्ष्यै नमः ।

ओं सहस्रास्यायै नमः ।

ओं सहस्रपदसम्युतायै नमः ।

ओं सहस्रहस्तायै नमः ।

ओं सहस्रगुणालङ्कृतविग्रहायै नमः । २००

ओं सहस्रशीर्षायै नमः ।

ओं सद्रूपायै नमः ।

ओं स्वधायै नमः ।

ओं स्वाहायै नमः ।

ओं सुधामय्यै नमः ।

ओं षड्ग्रन्थिभेदिन्यै नमः ।

ओं सेव्यायै नमः ।

ओं सर्वलोकैकपूजितायै नमः ।

ओं स्तुत्यायै नमः ।

ओं स्तुतिमय्यै नमः ।

ओं साध्यायै नमः ।

ओं सवितृप्रियकारिण्यै नमः ।

ओं संशयच्छेदिन्यै नमः ।

ओं साङ्ख्यवेद्यायै नमः ।

ओं सङ्ख्यायै नमः ।

ओं सदीश्वर्यै नमः ।

ओं सिद्धिदायै नमः ।

ओं सिद्धसम्पूज्यायै नमः ।

ओं सर्वसिद्धिप्रदायिन्यै नमः ।

ओं सर्वज्ञायै नमः । २२०

ओं सर्वशक्त्यै नमः ।

ओं सर्वसम्पत्प्रदायिन्यै नमः ।

ओं सर्वाऽशुभघ्न्यै नमः ।

ओं सुखदायै नमः ।

ओं सुखयै नमः ।

ओं संवित्स्वरूपिण्यै नमः ।

ओं सर्वसम्भाषण्यै नमः ।

ओं सर्वजगत्सम्मोहिन्यै नमः ।

ओं सर्वप्रियङ्कर्यै नमः ।

ओं सर्वशुभदायै नमः ।

ओं सर्वमङ्गलायै नमः ।

ओं सर्वमन्त्रमय्यै नमः ।

ओं सर्वतीर्थपुण्यफलप्रदायै नमः ।

ओं सर्वपुण्यमय्यै नमः ।

ओं सर्वव्याधिघ्न्यै नमः ।

ओं सर्वकामदायै नमः ।

ओं सर्वविघ्नहर्यै नमः ।

ओं सर्ववन्दितायै नमः ।

ओं सर्वमङ्गलायै नमः ।

ओं सर्वमन्त्रकर्यै नमः । २४०

ओं सर्वलक्ष्म्यै नमः ।

ओं सर्वगुणान्वितायै नमः ।

ओं सर्वानन्दमय्यै नमः ।

ओं सर्वज्ञानदायै नमः ।

ओं सत्यनायिकायै नमः ।

ओं सर्वज्ञानमय्यै नमः ।

ओं सर्वराज्यदायै नमः ।

ओं सर्वमुक्तिदायै नमः ।

ओं सुप्रभायै नमः ।

ओं सर्वदायै नमः ।

ओं सर्वायै नमः ।

ओं सर्वलोकवशङ्कर्यै नमः ।

ओं सुभगायै नमः ।

ओं सुन्दर्यै नमः ।

ओं सिद्धायै नमः ।

ओं सिद्धाम्बायै नमः ।

ओं सिद्धमातृकायै नमः ।

ओं सिद्धमात्रे नमः ।

ओं सिद्धविद्यायै नमः ।

ओं सिद्धेश्यै नमः । २६०

ओं सिद्धरूपिण्यै नमः ।

ओं सुरूपिण्यै नमः ।

ओं सुखमय्यै नमः ।

ओं सेवकप्रियकारिण्यै नमः ।

ओं स्वामिन्यै नमः ।

ओं सर्वदायै नमः ।

ओं सेव्यायै नमः ।

ओं स्थूलसूक्ष्मापराम्बिकायै नमः ।

ओं साररूपायै नमः ।

ओं सरोरूपायै नमः ।

ओं सत्यभूतायै नमः ।

ओं समाश्रयायै नमः ।

ओं सिताऽसितायै नमः ।

ओं सरोजाक्ष्यै नमः ।

ओं सरोजासनवल्लभायै नमः ।

ओं सरोरुहाभायै नमः ।

ओं सर्वाङ्ग्यै नमः ।

ओं सुरेन्द्रादिप्रपूजितायै नमः ।

ओं महादेव्यै नमः ।

ओं महेशान्यै नमः । २८०

ओं महासारस्वतप्रदायै नमः ।

ओं महासरस्वत्यै नमः ।

ओं मुक्तायै नमः ।

ओं मुक्तिदायै नमः ।

ओं मोहनाशिन्यै नमः ।

ओं महेश्वर्यै नमः ।

ओं महानन्दायै नमः ।

ओं महामन्त्रमय्यै नमः ।

ओं मह्यै नमः ।

ओं महालक्ष्म्यै नमः ।

ओं महाविद्यायै नमः ।

ओं मात्रे नमः ।

ओं मन्दरवासिन्यै नमः ।

ओं मन्त्रगम्यायै नमः ।

ओं मन्त्रमात्रे नमः ।

ओं महामन्त्रफलप्रदायै नमः ।

ओं महामुक्त्यै नमः

ओं महानित्यायै नमः ।

ओं महासिद्धिप्रदायिन्यै नमः ।

ओं महासिद्धायै नमः । ३००

ओं महामात्रे नमः ।

ओं महदाकारसम्युतायै नमः ।

ओं मह्यै नमः ।

ओं महेश्वर्यै नमः ।

ओं मूर्त्यै नमः ।

ओं मोक्षदायै नमः ।

ओं मणिभूषणायै नमः ।

ओं मेनकायै नमः ।

ओं मानिन्यै नमः ।

ओं मान्यायै नमः ।

ओं मृत्युघ्न्यै नमः ।

ओं मेरुरूपिण्यै नमः ।

ओं मदिराक्ष्यै नमः ।

ओं मदावासायै नमः ।

ओं मखरूपायै नमः ।

ओं मखेश्वर्यै नमः ।

ओं महामोहायै नमः ।

ओं महामायायै नमः ।

ओं मातॄणां मूर्ध्निसंस्थितायै नमः ।

ओं महापुण्यायै नमः । ३२०

ओं मुदावासायै नमः ।

ओं महासम्पत्प्रदायिन्यै नमः ।

ओं मणिपूरैकनिलयायै नमः ।

ओं मधुरूपायै नमः ।

ओं मदोत्कटायै नमः ।

ओं महासूक्ष्मायै नमः ।

ओं महाशान्तायै नमः ।

ओं महाशान्तिप्रदायिन्यै नमः ।

ओं मुनिस्तुतायै नमः ।

ओं मोहहन्त्र्यै नमः ।

ओं माधव्यै नमः ।

ओं माधवप्रियायै नमः ।

ओं मायै नमः ।

ओं महादेवसंस्तुत्यायै नमः ।

ओं महिषीगणपूजितायै नमः ।

ओं मृष्टान्नदायै नमः ।

ओं माहेन्द्र्यै नमः ।

ओं महेन्द्रपददायिन्यै नमः ।

ओं मत्यै नमः ।

ओं मतिप्रदायै नमः । ३४०

ओं मेधायै नमः ।

ओं मर्त्यलोकनिवासिन्यै नमः ।

ओं मुख्यायै नमः ।

ओं महानिवासायै नमः ।

ओं महाभाग्यजनाश्रितायै नमः ।

ओं महिलायै नमः ।

ओं महिमायै नमः ।

ओं मृत्युहार्यै नमः ।

ओं मेधाप्रदायिन्यै नमः ।

ओं मेध्यायै नमः ।

ओं महावेगवत्यै नमः ।

ओं महामोक्षफलप्रदायै नमः ।

ओं महाप्रभाभायै नमः ।

ओं महत्यै नमः ।

ओं महादेवप्रियङ्कर्यै नमः ।

ओं महापोषायै नमः ।

ओं महर्थ्यै नमः ।

ओं मुक्ताहारविभूषणायै नमः ।

ओं माणिक्यभूषणायै नमः ।

ओं मन्त्रायै नमः । ३६०

ओं मुख्यचन्द्रार्धशेखरायै नमः ।

ओं मनोरूपायै नमः ।

ओं मनश्शुद्ध्यै नमः ।

ओं मनश्शुद्धिप्रदायिन्यै नमः ।

ओं महाकारुण्यसम्पूर्णायै नमः ।

ओं मनोनमनवन्दितायै नमः ।

ओं महापातकजालघ्न्यै नमः ।

ओं मुक्तिदायै नमः ।

ओं मुक्तभूषणायै नमः ।

ओं मनोन्मन्यै नमः ।

ओं महास्थूलायै नमः ।

ओं महाक्रतुफलप्रदायै नमः ।

ओं महापुण्यफलप्राप्यायै नमः ।

ओं मायात्रिपुरनाशिन्यै नमः ।

ओं महानसायै नमः ।

ओं महामेधायै नमः ।

ओं महामोदायै नमः ।

ओं महेश्वर्यै नमः ।

ओं मालाधर्यै नमः ।

ओं महोपायायै नमः । ३८०

ओं महातीर्थफलप्रदायै नमः ।

ओं महामङ्गलसम्पूर्णायै नमः ।

ओं महादारिद्र्यनाशिन्यै नमः ।

ओं महामखायै नमः ।

ओं महामेघायै नमः ।

ओं महाकाल्यै नमः ।

ओं महाप्रियायै नमः ।

ओं महाभूषायै नमः ।

ओं महादेहायै नमः ।

ओं महाराज्ञ्यै नमः ।

ओं मुदालयायै नमः ।

ओं भूरिदायै नमः ।

ओं भाग्यदायै नमः ।

ओं भोग्यायै नमः ।

ओं भोग्यदायै नमः ।

ओं भोगदायिन्यै नमः ।

ओं भवान्यै नमः ।

ओं भूतिदायै नमः ।

ओं भूत्यै नमः ।

ओं भूम्यै नमः । ४००

ओं भूमिसुनायिकायै नमः ।

ओं भूतधात्र्यै नमः ।

ओं भयहर्यै नमः ।

ओं भक्तसारस्वतप्रदायै नमः ।

ओं भुक्त्यै नमः ।

ओं भुक्तिप्रदायै नमः ।

ओं भोक्त्र्यै नमः ।

ओं भक्त्यै नमः ।

ओं भक्तिप्रदायिन्यै नमः ।

ओं भक्तसायुज्यदायै नमः ।

ओं भक्तस्वर्गदायै नमः ।

ओं भक्तराज्यदायै नमः ।

ओं भागीरथ्यै नमः ।

ओं भवाराध्यायै नमः ।

ओं भाग्यासज्जनपूजितायै नमः ।

ओं भवस्तुत्यायै नमः ।

ओं भानुमत्यै नमः ।

ओं भवसागरतारिण्यै नमः ।

ओं भूत्यै नमः ।

ओं भूषायै नमः । ४२०

ओं भूतेश्यै नमः ।

ओं भाललोचनपूजितायै नमः ।

ओं भूतायै नमः ।

ओं भव्यायै नमः ।

ओं भविष्यायै नमः ।

ओं भवविद्यायै नमः ।

ओं भवात्मिकायै नमः ।

ओं बाधापहारिण्यै नमः ।

ओं बन्धुरूपायै नमः ।

ओं भुवनपूजितायै नमः ।

ओं भवघ्न्यै नमः ।

ओं भक्तिलभ्यायै नमः ।

ओं भक्तरक्षणतत्परायै नमः ।

ओं भक्तार्तिशमन्यै नमः ।

ओं भाग्यायै नमः ।

ओं भोगदानकृतोद्यमायै नमः ।

ओं भुजङ्गभूषणायै नमः ।

ओं भीमायै नमः ।

ओं भीमाक्ष्यै नमः ।

ओं भीमरूपिण्यै नमः । ४४०

ओं भाविन्यै नमः ।

ओं भ्रातृरूपायै नमः ।

ओं भारत्यै नमः ।

ओं भवनायिकायै नमः ।

ओं भाषायै नमः ।

ओं भाषावत्यै नमः ।

ओं भीष्मायै नमः ।

ओं भैरव्यै नमः ।

ओं भैरवप्रियायै नमः ।

ओं भूत्यै नमः ।

ओं भासितसर्वाङ्ग्यै नमः ।

ओं भूतिदायै नमः ।

ओं भूतिनायिकायै नमः ।

ओं भास्वत्यै नमः ।

ओं भगमालायै नमः ।

ओं भिक्षादानकृतोद्यमायै नमः ।

ओं भिक्षुरूपायै नमः ।

ओं भक्तिकर्यै नमः ।

ओं भक्तलक्ष्मीप्रदायिन्यै नमः ।

ओं भ्रान्तिघ्नायै नमः । ४६०

ओं भ्रान्तिरूपायै नमः ।

ओं भूतिदायै नमः ।

ओं भूतिकारिण्यै नमः ।

ओं भिक्षणीयायै नमः ।

ओं भिक्षुमात्रे नमः ।

ओं भाग्यवद्दृष्टिगोचरायै नमः ।

ओं भोगवत्यै नमः ।

ओं भोगरूपायै नमः ।

ओं भोगमोक्षफलप्रदायै नमः ।

ओं भोगश्रान्तायै नमः ।

ओं भाग्यवत्यै नमः ।

ओं भक्ताघौघविनाशिन्यै नमः ।

ओं ब्राह्म्यै नमः ।

ओं ब्रह्मस्वरूपायै नमः ।

ओं बृहत्यै नमः ।

ओं ब्रह्मवल्लभायै नमः ।

ओं ब्रह्मदायै नमः ।

ओं ब्रह्ममात्रे नमः ।

ओं ब्रह्माण्यै नमः ।

ओं ब्रह्मदायिन्यै नमः । ४८०

ओं ब्रह्मेश्यै नमः ।

ओं ब्रह्मसंस्तुत्यायै नमः ।

ओं ब्रह्मवेद्यायै नमः ।

ओं बुधप्रियायै नमः ।

ओं बालेन्दुशेखरायै नमः ।

ओं बालायै नमः ।

ओं बलिपूजाकरप्रियायै नमः ।

ओं बलदायै नमः ।

ओं बिन्दुरूपायै नमः ।

ओं बालसूर्यसमप्रभायै नमः ।

ओं ब्रह्मरूपायै नमः ।

ओं ब्रह्ममय्यै नमः ।

ओं ब्रध्नमण्डलमध्यगायै नमः ।

ओं ब्रह्माण्यै नमः ।

ओं बुद्धिदायै नमः ।

ओं बुद्ध्यै नमः ।

ओं बुद्धिरूपायै नमः ।

ओं बुधेश्वर्यै नमः ।

ओं बन्धक्षयकर्यै नमः ।

ओं बाधानाशिन्यै नमः । ५००

ओं बन्धुरूपिण्यै नमः ।

ओं बिन्द्वालयायै नमः ।

ओं बिन्दुभूषायै नमः ।

ओं बिन्दुनादसमन्वितायै नमः ।

ओं बीजरूपायै नमः ।

ओं बीजमात्रे नमः ।

ओं ब्रह्मण्यायै नमः ।

ओं ब्रह्मकारिण्यै नमः ।

ओं बहुरूपायै नमः ।

ओं बलवत्यै नमः ।

ओं ब्रह्मज्ञायै नमः ।

ओं ब्रह्मचारिण्यै नमः ।

ओं ब्रह्मस्तुत्यायै नमः ।

ओं ब्रह्मविद्यायै नमः ।

ओं ब्रह्माण्डाधिपवल्लभायै नमः ।

ओं ब्रह्मेशविष्णुरूपायै नमः ।

ओं ब्रह्मविष्ण्वीशसंस्थितायै नमः ।

ओं बुद्धिरूपायै नमः ।

ओं बुधेशान्यै नमः ।

ओं बन्ध्यै नमः । ५२०

ओं बन्धविमोचन्यै नमः ।

ओं अक्षमालायै नमः ।

ओं अक्षराकारायै नमः ।

ओं अक्षरायै नमः ।

ओं अक्षरफलप्रदायै नमः ।

ओं अनन्तायै नमः ।

ओं आनन्दसुखदायै नमः ।

ओं अनन्तचन्द्रनिभाननायै नमः ।

ओं अनन्तमहिमायै नमः ।

ओं अघोरायै नमः ।

ओं अनन्तगम्भीरसम्मितायै नमः ।

ओं अदृष्टायै नमः ।

ओं अदृष्टदायै नमः ।

ओं अनन्तायै नमः ।

ओं अदृष्टभाग्यफलप्रदायै नमः ।

ओं अरुन्धत्यै नमः ।

ओं अव्ययीनाथायै नमः ।

ओं अनेकसद्गुणसम्युतायै नमः ।

ओं अनेकभूषणायै नमः ।

ओं अदृश्यायै नमः । ५४०

ओं अनेकलेखनिषेवितायै नमः ।

ओं अनन्तायै नमः ।

ओं अनन्तसुखदायै नमः ।

ओं अघोरायै नमः ।

ओं अघोरस्वरूपिण्यै नमः ।

ओं अशेषदेवतारूपायै नमः ।

ओं अमृतरूपायै नमः ।

ओं अमृतेश्वर्यै नमः ।

ओं अनवद्यायै नमः ।

ओं अनेकहस्तायै नमः ।

ओं अनेकमाणिक्यभूषणायै नमः ।

ओं अनेकविघ्नसंहर्त्र्यै नमः ।

ओं अनेकाभरणान्वितायै नमः ।

ओं अविद्याज्ञानसंहर्त्र्यै नमः ।

ओं अविद्याजालनाशिन्यै नमः ।

ओं अभिरूपायै नमः ।

ओं अनवद्याङ्ग्यै नमः ।

ओं अप्रतर्क्यगतिप्रदायै नमः ।

ओं अकलङ्करूपिण्यै नमः ।

ओं अनुग्रहपरायणायै नमः । ५६०

ओं अम्बरस्थायै नमः ।

ओं अम्बरमयायै नमः ।

ओं अम्बरमालायै नमः ।

ओं अम्बुजेक्षणायै नमः ।

ओं अम्बिकायै नमः ।

ओं अब्जकरायै नमः ।

ओं अब्जस्थायै नमः ।

ओं अंशुमत्यै नमः ।

ओं अंशुशतान्वितायै नमः ।

ओं अम्बुजायै नमः ।

ओं अनवरायै नमः ।

ओं अखण्डायै नमः ।

ओं अम्बुजासनमहाप्रियायै नमः ।

ओं अजरायै नमः ।

ओं अमरसंसेव्यायै नमः ।

ओं अजरसेवितपद्युगायै नमः ।

ओं अतुलार्थप्रदायै नमः ।

ओं अर्थैक्यायै नमः ।

ओं अत्युदारायै नमः ।

ओं अभयान्वितायै नमः । ५८०

ओं अनाथवत्सलायै नमः ।

ओं अनन्तप्रियायै नमः ।

ओं अनन्तेप्सितप्रदायै नमः ।

ओं अम्बुजाक्ष्यै नमः ।

ओं अम्बुरूपायै नमः ।

ओं अम्बुजातोद्भवमहाप्रियायै नमः ।

ओं अखण्डायै नमः ।

ओं अमरस्तुत्यायै नमः ।

ओं अमरनायकपूजितायै नमः ।

ओं अजेयायै नमः ।

ओं अजसङ्काशायै नमः ।

ओं अज्ञाननाशिन्यै नमः ।

ओं अभीष्टदायै नमः ।

ओं अक्तायै नमः ।

ओं अघनेनायै नमः ।

ओं अस्त्रेश्यै नमः ।

ओं अलक्ष्मीनाशिन्यै नमः ।

ओं अनन्तसारायै नमः ।

ओं अनन्तश्रियै नमः ।

ओं अनन्तविधिपूजितायै नमः । ६००

ओं अभीष्टायै नमः ।

ओं अमर्त्यसम्पूज्यायै नमः ।

ओं अस्तोदयविवर्जितायै नमः ।

ओं आस्तिकस्वान्तनिलयायै नमः ।

ओं अस्त्ररूपायै नमः ।

ओं अस्त्रवत्यै नमः ।

ओं अस्खलत्यै नमः ।

ओं अस्खलद्रूपायै नमः ।

ओं अस्खलद्विद्याप्रदायिन्यै नमः ।

ओं अस्खलत्सिद्धिदायै नमः ।

ओं आनन्दायै नमः ।

ओं अम्बुजातायै नमः ।

ओं अमरनायिकायै नमः ।

ओं अमेयायै नमः ।

ओं अशेषपापघ्न्यै नमः ।

ओं अक्षयसारस्वतप्रदायै नमः ।

ओं जयायै नमः ।

ओं जयन्त्यै नमः ।

ओं जयदायै नमः ।

ओं जन्मकर्मविवर्जितायै नमः । ६२०

ओं जगत्प्रियायै नमः ।

ओं जगन्मात्रे नमः ।

ओं जगदीश्वरवल्लभायै नमः ।

ओं जात्यै नमः ।

ओं जयायै नमः ।

ओं जितामित्रायै नमः ।

ओं जप्यायै नमः ।

ओं जपनकारिण्यै नमः ।

ओं जीवन्यै नमः ।

ओं जीवनिलयायै नमः ।

ओं जीवाख्यायै नमः ।

ओं जीवधारिण्यै नमः ।

ओं जाह्नव्यै नमः ।

ओं ज्यायै नमः ।

ओं जपवत्यै नमः ।

ओं जातिरूपायै नमः ।

ओं जयप्रदायै नमः ।

ओं जनार्दनप्रियकर्यै नमः ।

ओं जोषनीयायै नमः ।

ओं जगत्स्थितायै नमः । ६४०

ओं जगज्ज्येष्ठायै नमः ।

ओं जगन्मायायै नमः ।

ओं जीवनत्राणकारिण्यै नमः ।

ओं जीवातुलतिकायै नमः ।

ओं जीवजन्म्यै नमः ।

ओं जन्मनिबर्हण्यै नमः ।

ओं जाड्यविध्वंसनकर्यै नमः ।

ओं जगद्योन्यै नमः ।

ओं जयात्मिकायै नमः ।

ओं जगदानन्दजनन्यै नमः ।

ओं जम्ब्व्यै नमः ।

ओं जलजेक्षणायै नमः ।

ओं जयन्त्यै नमः ।

ओं जङ्गपूगघ्न्यै नमः ।

ओं जनितज्ञानविग्रहायै नमः ।

ओं जटायै नमः ।

ओं जटावत्यै नमः ।

ओं जप्यायै नमः ।

ओं जपकर्तृप्रियङ्कर्यै नमः ।

ओं जपकृत्पापसंहर्त्र्यै नमः । ६६०

ओं जपकृत्फलदायिन्यै नमः ।

ओं जपापुष्पसमप्रख्यायै नमः ।

ओं जपाकुसुमधारिण्यै नमः ।

ओं जनन्यै नमः ।

ओं जन्मरहितायै नमः ।

ओं ज्योतिर्वृत्यभिदायिन्यै नमः ।

ओं जटाजूटनचन्द्रार्धायै नमः ।

ओं जगत्सृष्टिकर्यै नमः ।

ओं जगत्त्राणकर्यै नमः ।

ओं जाड्यध्वंसकर्त्र्यै नमः ।

ओं जयेश्वर्यै नमः ।

ओं जगद्बीजायै नमः ।

ओं जयावासायै नमः ।

ओं जन्मभुवे नमः ।

ओं जन्मनाशिन्यै नमः ।

ओं जन्मान्त्यरहितायै नमः ।

ओं जैत्र्यै नमः ।

ओं जगद्योन्यै नमः ।

ओं जपात्मिकायै नमः ।

ओं जयलक्षणसम्पूर्णायै नमः । ६८०

ओं जयदानकृतोद्यमायै नमः ।

ओं जम्भराद्यादिसंस्तुत्यायै नमः ।

ओं जम्भारिफलदायिन्यै नमः ।

ओं जगत्त्रयहितायै नमः ।

ओं ज्येष्ठायै नमः ।

ओं जगत्त्रयवशङ्कर्यै नमः ।

ओं जगत्त्रयाम्बायै नमः ।

ओं जगत्यै नमः ।

ओं ज्वालायै नमः ।

ओं ज्वालितलोचनायै नमः ।

ओं ज्वालिन्यै नमः ।

ओं ज्वलनाभासायै नमः ।

ओं ज्वलन्त्यै नमः ।

ओं ज्वलनात्मिकायै नमः ।

ओं जितारातिसुरस्तुत्यायै नमः ।

ओं जितक्रोधायै नमः ।

ओं जितेन्द्रियायै नमः ।

ओं जरामरणशून्यायै नमः ।

ओं जनित्र्यै नमः ।

ओं जन्मनाशिन्यै नमः । ७००

ओं जलजाभायै नमः ।

ओं जलमय्यै नमः ।

ओं जलजासनवल्लभायै नमः ।

ओं जलजस्थायै नमः ।

ओं जपाराध्यायै नमः ।

ओं जनमङ्गलकारिण्यै नमः ।

ओं कामिन्यै नमः ।

ओं कामरूपायै नमः ।

ओं काम्यायै नमः ।

ओं काम्यप्रदायिन्यै नमः ।

ओं कमौल्यै नमः ।

ओं कामदायै नमः ।

ओं कर्त्र्यै नमः ।

ओं क्रतुकर्मफलप्रदायै नमः ।

ओं कृतघ्नघ्न्यै नमः ।

ओं क्रियारूपायै नमः ।

ओं कार्यकारणरूपिण्यै नमः ।

ओं कञ्जाक्ष्यै नमः ।

ओं करुणारूपायै नमः ।

ओं केवलामरसेवितायै नमः । ७२०

ओं कल्याणकारिण्यै नमः ।

ओं कान्तायै नमः ।

ओं कान्तिदायै नमः ।

ओं कान्तिरूपिण्यै नमः ।

ओं कमलायै नमः ।

ओं कमलावासायै नमः ।

ओं कमलोत्पलमालिन्यै नमः ।

ओं कुमुद्वत्यै नमः ।

ओं कल्याण्यै नमः ।

ओं कान्त्यै नमः ।

ओं कामेशवल्लभायै नमः ।

ओं कामेश्वर्यै नमः ।

ओं कमलिन्यै नमः ।

ओं कामदायै नमः ।

ओं कामबन्धिन्यै नमः ।

ओं कामधेनवे नमः ।

ओं काञ्चनाक्ष्यै नमः ।

ओं काञ्चनाभायै नमः ।

ओं कलानिधये नमः ।

ओं क्रियायै नमः । ७४०

ओं कीर्तिकर्यै नमः ।

ओं कीर्त्यै नमः ।

ओं क्रतुश्रेष्ठायै नमः ।

ओं कृतेश्वर्यै नमः ।

ओं क्रतुसर्वक्रियास्तुत्यायै नमः ।

ओं क्रतुकृत्प्रियकारिण्यै नमः ।

ओं क्लेशनाशकर्यै नमः ।

ओं कर्त्र्यै नमः ।

ओं कर्मदायै नमः ।

ओं कर्मबन्धिन्यै नमः ।

ओं कर्मबन्धहर्यै नमः ।

ओं कृष्टायै नमः ।

ओं क्लमघ्न्यै नमः ।

ओं कञ्जलोचनायै नमः ।

ओं कन्दर्पजनन्यै नमः ।

ओं कान्तायै नमः ।

ओं करुणायै नमः ।

ओं करुणावत्यै नमः ।

ओं क्लीङ्कारिण्यै नमः ।

ओं कृपाकारायै नमः । ७६०

ओं कृपासिन्धवे नमः ।

ओं कृपावत्यै नमः ।

ओं करुणार्द्रायै नमः ।

ओं कीर्तिकर्यै नमः ।

ओं कल्मषघ्न्यै नमः ।

ओं क्रियाकर्यै नमः ।

ओं क्रियाशक्त्यै नमः ।

ओं कामरूपायै नमः ।

ओं कमलोत्पलगन्धिन्यै नमः ।

ओं कलायै नमः ।

ओं कलावत्यै नमः ।

ओं कूर्म्यै नमः । *

ओं कूटस्थायै नमः ।

ओं कञ्जसंस्थितायै नमः ।

ओं कालिकायै नमः ।

ओं कल्मषघ्न्यै नमः ।

ओं कमनीयजटान्वितायै नमः ।

ओं करपद्मायै नमः ।

ओं कराभीष्टप्रदायै नमः ।

ओं क्रतुफलप्रदायै नमः । ७८०

ओं कौशिक्यै नमः ।

ओं कोशदायै नमः ।

ओं काव्यायै नमः ।

ओं कर्त्र्यै नमः ।

ओं कोशेश्वर्यै नमः ।

ओं कृशायै नमः ।

ओं कूर्मयानायै नमः ।

ओं कल्पलतायै नमः ।

ओं कालकूटविनाशिन्यै नमः ।

ओं कल्पोद्यानवत्यै नमः ।

ओं कल्पवनस्थायै नमः ।

ओं कल्पकारिण्यै नमः ।

ओं कदम्बकुसुमाभासायै नमः ।

ओं कदम्बकुसुमप्रियायै नमः ।

ओं कदम्बोद्यानमध्यस्थायै नमः ।

ओं कीर्तिदायै नमः ।

ओं कीर्तिभूषणायै नमः ।

ओं कुलमात्रे नमः ।

ओं कुलावासायै नमः ।

ओं कुलाचारप्रियङ्कर्यै नमः । ८००

ओं कुलनाथायै नमः ।

ओं कामकलायै नमः ।

ओं कलानाथायै नमः ।

ओं कलेश्वर्यै नमः ।

ओं कुन्दमन्दारपुष्पाभायै नमः ।

ओं कपर्दस्थितचन्द्रिकायै नमः ।

ओं कवित्वदायै नमः ।

ओं काम्यमात्रे नमः ।

ओं कविमात्रे नमः ।

ओं कलाप्रदायै नमः ।

ओं तरुण्यै नमः ।

ओं तरुणीतातायै नमः ।

ओं ताराधिपसमाननायै नमः ।

ओं तृप्तये नमः ।

ओं तृप्तिप्रदायै नमः ।

ओं तर्क्यायै नमः ।

ओं तपन्यै नमः ।

ओं तापिन्यै नमः ।

ओं तर्पण्यै नमः ।

ओं तीर्थरूपायै नमः । ८२०

ओं त्रिपदायै नमः ।

ओं त्रिदशेश्वर्यै नमः ।

ओं त्रिदिवेश्यै नमः ।

ओं त्रिजनन्यै नमः ।

ओं त्रिमात्रे नमः ।

ओं त्र्यम्बकेश्वर्यै नमः ।

ओं त्रिपुरायै नमः ।

ओं त्रिपुरेशान्यै नमः ।

ओं त्र्यम्बकायै नमः ।

ओं त्रिपुराम्बिकायै नमः ।

ओं त्रिपुरश्रियै नमः ।

ओं त्रयीरूपायै नमः ।

ओं त्रयीवेद्यायै नमः ।

ओं त्रयीश्वर्यै नमः ।

ओं त्रय्यन्तवेदिन्यै नमः ।

ओं ताम्रायै नमः ।

ओं तापत्रितयहारिण्यै नमः ।

ओं तमालसदृश्यै नमः ।

ओं त्रात्रे नमः ।

ओं तरुणादित्यसन्निभायै नमः । ८४०

ओं त्रैलोक्यव्यापिन्यै नमः ।

ओं तृप्तायै नमः ।

ओं तृप्तिकृते नमः ।

ओं तत्त्वरूपिण्यै नमः ।

ओं तुर्यायै नमः ।

ओं त्रैलोक्यसंस्तुत्यायै नमः ।

ओं त्रिगुणायै नमः ।

ओं त्रिगुणेश्वर्यै नमः ।

ओं त्रिपुरघ्न्यै नमः ।

ओं त्रिमात्रे नमः ।

ओं त्र्यम्बकायै नमः ।

ओं त्रिगुणान्वितायै नमः ।

ओं तृष्णाच्छेदकर्यै नमः ।

ओं तृप्तायै नमः ।

ओं तीक्ष्णायै नमः ।

ओं तीक्ष्णस्वरूपिण्यै नमः ।

ओं तुलायै नमः ।

ओं तुलादिरहितायै नमः ।

ओं तत्तद्ब्रह्मस्वरूपिण्यै नमः ।

ओं त्राणकर्त्र्यै नमः । ८६०

ओं त्रिपापघ्न्यै नमः ।

ओं त्रिदशायै नमः ।

ओं त्रिदशान्वितायै नमः ।

ओं तथ्यायै नमः ।

ओं त्रिशक्त्यै नमः ।

ओं त्रिपदायै नमः ।

ओं तुर्यायै नमः ।

ओं त्रैलोक्यसुन्दर्यै नमः ।

ओं तेजस्कर्यै नमः ।

ओं त्रिमूर्त्याद्यायै नमः ।

ओं तेजोरूपायै नमः ।

ओं त्रिधामतायै नमः ।

ओं त्रिचक्रकर्त्र्यै नमः ।

ओं त्रिभगायै नमः ।

ओं तुर्यातीतफलप्रदायै नमः ।

ओं तेजस्विन्यै नमः ।

ओं तापहार्यै नमः ।

ओं तापोपप्लवनाशिन्यै नमः ।

ओं तेजोगर्भायै नमः ।

ओं तपस्सारायै नमः । ८८०

ओं त्रिपुरारिप्रियङ्कर्यै नमः ।

ओं तन्व्यै नमः ।

ओं तापससन्तुष्टायै नमः ।

ओं तपनाङ्गजभीतिनुते नमः ।

ओं त्रिलोचनायै नमः ।

ओं त्रिमार्गायै नमः ।

ओं तृतीयायै नमः ।

ओं त्रिदशस्तुतायै नमः ।

ओं त्रिसुन्दर्यै नमः ।

ओं त्रिपथगायै नमः ।

ओं तुरीयपददायिन्यै नमः ।

ओं शुभायै नमः ।

ओं शुभावत्यै नमः ।

ओं शान्तायै नमः ।

ओं शान्तिदायै नमः ।

ओं शुभदायिन्यै नमः ।

ओं शीतलायै नमः ।

ओं शूलिन्यै नमः ।

ओं शीतायै नमः ।

ओं श्रीमत्यै नमः । ९००

ओं शुभान्वितायै नमः ।

ओं योगसिद्धिप्रदायै नमः ।

ओं योग्यायै नमः ।

ओं यज्ञेनपरिपूरितायै नमः ।

ओं यज्ञायै नमः ।

ओं यज्ञमय्यै नमः ।

ओं यक्ष्यै नमः ।

ओं यक्षिण्यै नमः ।

ओं यक्षिवल्लभायै नमः ।

ओं यज्ञप्रियायै नमः ।

ओं यज्ञपूज्यायै नमः ।

ओं यज्ञतुष्टायै नमः ।

ओं यमस्तुतायै नमः ।

ओं यामिनीयप्रभायै नमः ।

ओं याम्यायै नमः ।

ओं यजनीयायै नमः ।

ओं यशस्कर्यै नमः ।

ओं यज्ञकर्त्र्यै नमः ।

ओं यज्ञरूपायै नमः ।

ओं यशोदायै नमः । ९२०

ओं यज्ञसंस्तुतायै नमः ।

ओं यज्ञेश्यै नमः ।

ओं यज्ञफलदायै नमः ।

ओं योगयोन्यै नमः ।

ओं यजुस्स्तुतायै नमः ।

ओं यमिसेव्यायै नमः ।

ओं यमाराध्यायै नमः ।

ओं यमिपूज्यायै नमः ।

ओं यमीश्वर्यै नमः ।

ओं योगिन्यै नमः ।

ओं योगरूपायै नमः ।

ओं योगकर्तृप्रियङ्कर्यै नमः ।

ओं योगयुक्तायै नमः ।

ओं योगमय्यै नमः ।

ओं योगयोगीश्वराम्बिकायै नमः ।

ओं योगज्ञानमय्यै नमः ।

ओं योनये नमः ।

ओं यमाद्यष्टाङ्गयोगतायै नमः ।

ओं यन्त्रिताघौघसंहारायै नमः ।

ओं यमलोकनिवारिण्यै नमः । ९४०

ओं यष्टिव्यष्टीशसंस्तुत्यायै नमः ।

ओं यमाद्यष्टाङ्गयोगयुजे नमः

ओं योगीश्वर्यै नमः ।

ओं योगमात्रे नमः ।

ओं योगसिद्धायै नमः ।

ओं योगदायै नमः ।

ओं योगारूढायै नमः ।

ओं योगमय्यै नमः ।

ओं योगरूपायै नमः ।

ओं यवीयस्यै नमः ।

ओं यन्त्ररूपायै नमः ।

ओं यन्त्रस्थायै नमः ।

ओं यन्त्रपूज्यायै नमः ।

ओं यन्त्रिकायै नमः ।

ओं युगकर्त्र्यै नमः ।

ओं युगमय्यै नमः ।

ओं युगधर्मविवर्जितायै नमः ।

ओं यमुनायै नमः ।

ओं यामिन्यै नमः ।

ओं याम्यायै नमः । ९६०

ओं यमुनाजलमध्यगायै नमः ।

ओं यातायातप्रशमन्यै नमः ।

ओं यातनानांनिकृन्तन्यै नमः ।

ओं योगावासायै नमः ।

ओं योगिवन्द्यायै नमः ।

ओं यत्तच्छब्दस्वरूपिण्यै नमः ।

ओं योगक्षेममय्यै नमः ।

ओं यन्त्रायै नमः ।

ओं यावदक्षरमातृकायै नमः ।

ओं यावत्पदमय्यै नमः ।

ओं यावच्छब्दरूपायै नमः ।

ओं यथेश्वर्यै नमः ।

ओं यत्तदीयायै नमः ।

ओं यक्षवन्द्यायै नमः ।

ओं यद्विद्यायै नमः ।

ओं यतिसंस्तुतायै नमः ।

ओं यावद्विद्यामय्यै नमः ।

ओं यावद्विद्याबृन्दसुवन्दितायै नमः ।

ओं योगिहृत्पद्मनिलयायै नमः ।

ओं योगिवर्यप्रियङ्कर्यै नमः । ९८०

ओं योगिवन्द्यायै नमः ।

ओं योगिमात्रे नमः ।

ओं योगीशफलदायिन्यै नमः ।

ओं यक्षवन्द्यायै नमः ।

ओं यक्षपूज्यायै नमः ।

ओं यक्षराजसुपूजितायै नमः ।

ओं यज्ञरूपायै नमः ।

ओं यज्ञतुष्टायै नमः ।

ओं यायजूकस्वरूपिण्यै नमः ।

ओं यन्त्राराध्यायै नमः ।

ओं यन्त्रमध्यायै नमः ।

ओं यन्त्रकर्तृप्रियङ्कर्यै नमः ।

ओं यन्त्रारूढायै नमः ।

ओं यन्त्रपूज्यायै नमः ।

ओं योगिध्यानपरायणायै नमः ।

ओं यजनीयायै नमः ।

ओं यमस्तुत्यायै नमः ।

ओं योगयुक्तायै नमः ।

ओं यशस्कर्यै नमः ।

ओं योगबद्धायै नमः । १०००

ओं यतिस्तुत्यायै नमः ।

ओं योगज्ञायै नमः ।

ओं योगनायक्यै नमः ।

ओं योगिज्ञानप्रदायै नमः ।

ओं यक्ष्यै नमः ।

ओं यमबाधाविनाशिन्यै नमः ।

ओं योगिकाम्यप्रदात्र्यै नमः ।

ओं योगिमोक्षप्रदायिन्यै नमः । १००८

इति श्री सरस्वती सहस्रनामावली ॥

sri saraswati sahasranamavali