Skip to main content
पडताळणी प्रलंबित

अष्टलक्ष्मी अष्टोत्तरशतनामावली

ओं श्रीमात्रे नमः ।

ओं श्रीमहाराज्ञै नमः ।

ओं श्रीमत्सिंहासनेश्वर्यै नमः ।

ओं श्रीमन्नारायणप्रीतायै नमः ।

ओं स्निग्धायै नमः ।

ओं श्रीमत्यै नमः ।

ओं श्रीपतिप्रियायै नमः ।

ओं क्षीरसागरसम्भूतायै नमः ।

ओं नारायणहृदयालयायै नमः । ९

ओं ऐरावणादिसम्पूज्यायै नमः ।

ओं दिग्गजावां सहोदर्यै नमः ।

ओं उच्छैश्रवः सहोद्भूतायै नमः ।

ओं हस्तिनादप्रबोधिन्यै नमः ।

ओं साम्राज्यदायिन्यै नमः ।

ओं देव्यै नमः ।

ओं गजलक्ष्मीस्वरूपिण्यै नमः ।

ओं सुवर्णादिप्रदात्र्यै नमः ।

ओं सुवर्णादिस्वरूपिण्यै नमः । १८

ओं धनलक्ष्मै नमः ।

ओं महोदारायै नमः ।

ओं प्रभूतैश्वर्यदायिन्यै नमः ।

ओं नवधान्यस्वरूपायै नमः ।

ओं लतापादपरूपिण्यै नमः ।

ओं मूलिकादिमहारूपायै नमः ।

ओं धान्यलक्ष्मी महाभिदायै नमः ।

ओं पशुसम्पत्स्वरूपायै नमः ।

ओं धनधान्यविवर्धिन्यै नमः । २७

ओं मात्सर्यनाशिन्यै नमः ।

ओं क्रोधभीतिविनाशिन्यै नमः ।

ओं भेदबुद्धिहरायै नमः ।

ओं सौम्यायै नमः ।

ओं विनयादिकवर्धिन्यै नमः ।

ओं विनयादिप्रदायै नमः ।

ओं धीरायै नमः ।

ओं विनीतार्चानुतोषिण्यै नमः ।

ओं धैर्यप्रदायै नमः । ३६

ओं धैर्यलक्ष्म्यै नमः ।

ओं धीरत्वगुणवर्धिन्यै नमः ।

ओं पुत्रपौत्रप्रदायै नमः ।

ओं स्निग्धायै नमः ।

ओं भृत्यादिकविवर्धिन्यै नमः ।

ओं दाम्पत्यदायिन्यै नमः ।

ओं पूर्णायै नमः ।

ओं पतिपत्नीसुताकृत्यै नमः ।

ओं बहुबान्धव्यदायिन्यै नमः । ४५

ओं सन्तानलक्ष्मीरूपायै नमः ।

ओं मनोविकासदात्र्यै नमः ।

ओं बुद्धेरैकाग्र्यदायिन्यै नमः ।

ओं विद्याकौशलसन्धात्र्यै नमः ।

ओं नानाविज्ञानवर्धिन्यै नमः ।

ओं बुद्धिशुद्धिप्रदात्र्यै नमः ।

ओं महादेव्यै नमः ।

ओं सर्वसम्पूज्यतादात्र्यै नमः ।

ओं विद्यामङ्गलदायिन्यै नमः । ५४

ओं भोगविद्याप्रदात्र्यै नमः ।

ओं योगविद्याप्रदायिन्यै नमः ।

ओं बहिरन्तः समाराध्यायै नमः ।

ओं ज्ञानविद्यासुदायिन्यै नमः ।

ओं विद्यालक्ष्मै नमः ।

ओं विद्यागौरवदायिन्यै नमः ।

ओं विद्यानामाकृत्यै शुभायै नमः ।

ओं सौभाग्यभाग्यदायै नमः ।

ओं भाग्यभोगविधायिन्यै नमः । ६३

ओं प्रसन्नायै नमः ।

ओं परमायै नमः ।

ओं आराध्यायै नमः ।

ओं सौशील्यगुणवर्धिन्यै नमः ।

ओं वरसन्तानप्रदायै नमः ।

ओं पुण्यायै नमः ।

ओं सन्तानवरदायिन्यै नमः ।

ओं जगत्कुटुम्बिन्यै नमः ।

ओं आदिलक्ष्म्यै नमः । ७२

ओं वरसौभाग्यदायिन्यै नमः ।

ओं वरलक्ष्म्यै नमः ।

ओं भक्तरक्षणतत्परायै नमः ।

ओं सर्वशक्तिस्वरूपायै नमः ।

ओं सर्वसिद्धिप्रादायिन्यै नमः ।

ओं सर्वेश्वर्यै नमः ।

ओं सर्वपूज्यायै नमः ।

ओं सर्वलोकप्रपूजितायै नमः ।

ओं दाक्षिण्यपरवशायै नमः । ८१

ओं लक्ष्म्यै नमः ।

ओं कृपापूर्णायै नमः ।

ओं दयानिधये नमः ।

ओं सर्वलोकसमर्च्यायै नमः ।

ओं सर्वलोकेश्वरेश्वर्यै नमः ।

ओं सर्वौन्नत्यप्रदायै नमः ।

ओं श्रिये नमः ।

ओं सर्वत्रविजयङ्कर्यै नमः ।

ओं सर्वश्रियै नमः । ९०

ओं विजयलक्ष्म्यै नमः ।

ओं शुभावहायै नमः ।

ओं सर्वलक्ष्म्यै नमः ।

ओं अष्टलक्ष्मीस्वरूपायै नमः ।

ओं सर्वदिक्पालपूजितायै नमः ।

ओं दारिद्र्यदुःखहन्त्र्यै नमः ।

ओं सम्पदां समृद्ध्यै नमः ।

ओं अष्टलक्ष्मीसमाहारायै नमः ।

ओं भक्तानुग्रहकारिण्यै नमः । ९९

ओं पद्मालयायै नमः ।

ओं पादपद्मायै नमः ।

ओं करपद्मायै नमः ।

ओं मुखाम्बुजायै नमः ।

ओं पद्मेक्षणायै नमः ।

ओं पद्मगन्धायै नमः ।

ओं पद्मनाभहृदीश्वर्यै नमः ।

ओं पद्मासनस्यजनन्यै नमः ।

ओं हृदम्बुजविकासन्यै नमः । १०८

इति अष्टलक्ष्मी अष्टोत्तरशतनामावली ॥

ashtalakshmi ashtottara shatanamavali