Skip to main content
पडताळणी प्रलंबित

श्री वासवीकन्यकापरमेश्वरी अष्टोत्तरशतनामावली

ओं श्रीवासवाम्बायै नमः ।

ओं श्रीकन्यकायै नमः ।

ओं जगन्मात्रे नमः ।

ओं आदिशक्त्यै नमः ।

ओं देव्यै नमः ।

ओं करुणायै नमः ।

ओं प्रकृतिस्वरूपिण्यै नमः ।

ओं विद्यायै नमः ।

ओं शुभायै नमः । ९

ओं धर्मस्वरूपिण्यै नमः ।

ओं वैश्यकुलोद्भवायै नमः ।

ओं सर्वस्यै नमः ।

ओं सर्वज्ञायै नमः ।

ओं नित्यायै नमः ।

ओं त्यागस्वरूपिण्यै नमः ।

ओं भद्रायै नमः ।

ओं वेदवेद्यायै नमः ।

ओं सर्वपूजितायै नमः । १८

ओं कुसुमपुत्रिकायै नमः ।

ओं कुसुमदन्तीवत्सलायै नमः ।

ओं शान्तायै नमः ।

ओं गम्भीरायै नमः ।

ओं शुभायै नमः ।

ओं सौन्दर्यनिलयायै नमः ।

ओं सर्वहितायै नमः ।

ओं शुभप्रदायै नमः ।

ओं नित्यमुक्तायै नमः । २७

ओं सर्वसौख्यप्रदायै नमः ।

ओं सकलधर्मोपदेशकारिण्यै नमः ।

ओं पापहरिण्यै नमः ।

ओं विमलायै नमः ।

ओं उदारायै नमः ।

ओं अग्निप्रविष्टायै नमः ।

ओं आदर्शवीरमात्रे नमः ।

ओं अहिंसास्वरूपिण्यै नमः ।

ओं आर्यवैश्यपूजितायै नमः । ३६

ओं भक्तरक्षणतत्परायै नमः ।

ओं दुष्टनिग्रहायै नमः ।

ओं निष्कलायै नमः ।

ओं सर्वसम्पत्प्रदायै नमः ।

ओं दारिद्र्यध्वंसिन्यै नमः ।

ओं त्रिकालज्ञानसम्पन्नायै नमः ।

ओं लीलामानुषविग्रहायै नमः ।

ओं विष्णुवर्धनसंहारिकायै नमः ।

ओं सुगुणरत्नायै नमः । ४५

ओं साहसौन्दर्यसम्पन्नायै नमः ।

ओं सच्चिदानन्दस्वरूपायै नमः ।

ओं विश्वरूपप्रदर्शिन्यै नमः ।

ओं निगमवेद्यायै नमः ।

ओं निष्कामायै नमः ।

ओं सर्वसौभाग्यदायिन्यै नमः ।

ओं धर्मसंस्थापनायै नमः ।

ओं नित्यसेवितायै नमः ।

ओं नित्यमङ्गलायै नमः । ५४

ओं नित्यवैभवायै नमः ।

ओं सर्वोपाधिविनिर्मुक्तायै नमः ।

ओं राजराजेश्वर्यै नमः ।

ओं उमायै नमः ।

ओं शिवपूजातत्परायै नमः ।

ओं पराशक्त्यै नमः ।

ओं भक्तकल्पकायै नमः ।

ओं ज्ञाननिलयायै नमः ।

ओं ब्रह्मविष्णुशिवात्मिकायै नमः । ६३

ओं शिवायै नमः ।

ओं भक्तिगम्यायै नमः ।

ओं भक्तिवश्यायै नमः ।

ओं नादबिन्दुकलातीतायै नमः ।

ओं सर्वोपद्रववारिण्यै नमः ।

ओं सर्वस्वरूपायै नमः ।

ओं सर्वशक्तिमय्यै नमः ।

ओं महाबुद्ध्यै नमः ।

ओं महासिद्ध्यै नमः । ७२

ओं सद्गतिदायिन्यै नमः ।

ओं अमृतायै नमः ।

ओं अनुग्रहप्रदायै नमः ।

ओं आर्यायै नमः ।

ओं वसुप्रदायै नमः ।

ओं कलावत्यै नमः ।

ओं कीर्तिवर्धिन्यै नमः ।

ओं कीर्तितगुणायै नमः ।

ओं चिदानन्दायै नमः । ८१

ओं चिदाधारायै नमः ।

ओं चिदाकारायै नमः ।

ओं चिदालयायै नमः ।

ओं चैतन्यरूपिण्यै नमः ।

ओं चैतन्यवर्धिन्यै नमः ।

ओं यज्ञरूपायै नमः ।

ओं यज्ञफलदायै नमः ।

ओं तापत्रयविनाशिन्यै नमः ।

ओं गुणातीतायै नमः । ९०

ओं विष्णुवर्धनमर्दिन्यै नमः ।

ओं तीर्थरूपायै नमः ।

ओं दीनवत्सलायै नमः ।

ओं दयापूर्णायै नमः ।

ओं तपोनिष्ठायै नमः ।

ओं श्रेष्ठायै नमः ।

ओं श्रीयुतायै नमः ।

ओं प्रमोददायिन्यै नमः ।

ओं भवबन्धविनाशिन्यै नमः । ९९

ओं भगवत्यै नमः ।

ओं इहपरसौख्यदायै नमः ।

ओं आश्रितवत्सलायै नमः ।

ओं महाव्रतायै नमः ।

ओं मनोरमायै नमः ।

ओं सकलाभीष्टप्रदायै नमः ।

ओं नित्यमङ्गलरूपिण्यै नमः ।

ओं नित्योत्सवायै नमः ।

ओं श्रीकन्यकापरमेश्वर्यै नमः । १०८

इति श्रीवासवीकन्यकापरमेश्वरी अष्टोत्तरशतनामावली ।

sri vasavi ashttotara shatanamavali in hindi