Skip to main content
पडताळणी प्रलंबित

श्री महागणपति सहस्रनामावली

ओं गणेश्वराय नमः ।

ओं गणक्रीडाय नमः ।

ओं गणनाथाय नमः ।

ओं गणाधिपाय नमः ।

ओं एकदंष्ट्राय नमः ।

ओं वक्रतुण्डाय नमः ।

ओं गजवक्त्राय नमः ।

ओं महोदराय नमः ।

ओं लम्बोदराय नमः ।

ओं धूम्रवर्णाय नमः ।

ओं विकटाय नमः ।

ओं विघ्ननायकाय नमः ।

ओं सुमुखाय नमः ।

ओं दुर्मुखाय नमः ।

ओं बुद्धाय नमः ।

ओं विघ्नराजाय नमः ।

ओं गजाननाय नमः ।

ओं भीमाय नमः ।

ओं प्रमोदाय नमः ।

ओं आमोदाय नमः ।

ओं सुरानन्दाय नमः ॥ २० ॥

ओं मदोत्कटाय नमः ।

ओं हेरम्बाय नमः ।

ओं शम्बराय नमः ।

ओं शम्भवे नमः ।

ओं लम्बकर्णाय नमः ।

ओं महाबलाय नमः ।

ओं नन्दनाय नमः ।

ओं अलम्पटाय नमः ।

ओं अभीरवे नमः ।

ओं मेघनादाय नमः ।

ओं गणञ्जयाय नमः ।

ओं विनायकाय नमः ।

ओं विरूपाक्षाय नमः ।

ओं धीरशूराय नमः ।

ओं वरप्रदाय नमः ।

ओं महागणपतये नमः ।

ओं बुद्धिप्रियाय नमः ।

ओं क्षिप्रप्रसादनाय नमः ।

ओं रुद्रप्रियाय नमः ॥ ४० ॥

ओं गणाध्यक्षाय नमः ।

ओं उमापुत्राय नमः ।

ओं अघनाशनाय नमः ।

ओं कुमारगुरवे नमः ।

ओं ईशानपुत्राय नमः ।

ओं मूषकवाहनाय नमः ।

ओं सिद्धिप्रियाय नमः ।

ओं सिद्धिपतये नमः ।

ओं सिद्धाय नमः ।

ओं सिद्धिविनायकाय नमः ।

ओं अविघ्नाय नमः ।

ओं तुम्बुरवे नमः ।

ओं सिंहवाहनाय नमः ।

ओं मोहिनीप्रियाय नमः ।

ओं कटङ्कटाय नमः ।

ओं राजपुत्राय नमः ।

ओं शालकाय नमः ।

ओं सम्मिताय नमः ।

ओं अमिताय नमः ।

ओं कूष्माण्डसामसम्भूतये नमः ॥ ६० ॥

ओं दुर्जयाय नमः ।

ओं धूर्जयाय नमः ।

ओं जयाय नमः ।

ओं भूपतये नमः ।

ओं भुवनपतये नमः ।

ओं भूतानां पतये नमः ।

ओं अव्ययाय नमः ।

ओं विश्वकर्त्रे नमः ।

ओं विश्वमुखाय नमः ।

ओं विश्वरूपाय नमः ।

ओं निधये नमः ।

ओं घृणये नमः ।

ओं कवये नमः ।

ओं कवीनामृषभाय नमः ।

ओं ब्रह्मण्याय नमः ।

ओं ब्रह्मणस्पतये नमः ।

ओं ज्येष्ठराजाय नमः ।

ओं निधिपतये नमः ।

ओं निधिप्रियपतिप्रियाय नमः ।

ओं हिरण्मयपुरान्तःस्थाय नमः ॥ ८० ॥

ओं सूर्यमण्डलमध्यगाय नमः ।

ओं कराहतिविध्वस्तसिन्धुसलिलाय नमः ।

ओं पूषदन्तभिदे नमः ।

ओं उमाङ्ककेलिकुतुकिने नमः ।

ओं मुक्तिदाय नमः ।

ओं कुलपालनाय नमः ।

ओं किरीटिने नमः ।

ओं कुण्डलिने नमः ।

ओं हारिणे नमः ।

ओं वनमालिने नमः ।

ओं मनोमयाय नमः ।

ओं वैमुख्यहतदैत्यश्रिये नमः ।

ओं पादाहतिजितक्षितये नमः ।

ओं सद्योजातस्वर्णमुञ्जमेखलिने नमः ।

ओं दुर्निमित्तहृते नमः ।

ओं दुःस्वप्नहृते नमः ।

ओं प्रसहनाय नमः ।

ओं गुणिने नमः ।

ओं नादप्रतिष्ठिताय नमः ।

ओं सुरूपाय नमः ॥ १०० ॥

ओं सर्वनेत्राधिवासाय नमः ।

ओं वीरासनाश्रयाय नमः ।

ओं पीताम्बराय नमः ।

ओं खण्डरदाय नमः ।

ओं खण्डेन्दुकृतशेखराय नमः ।

ओं चित्राङ्कश्यामदशनाय नमः ।

ओं फालचन्द्राय नमः ।

ओं चतुर्भुजाय नमः ।

ओं योगाधिपाय नमः ।

ओं तारकस्थाय नमः ।

ओं पुरुषाय नमः ।

ओं गजकर्णकाय नमः ।

ओं गणाधिराजाय नमः ।

ओं विजयस्थिराय नमः ।

ओं गजपतिध्वजिने नमः ।

ओं देवदेवाय नमः ।

ओं स्मरप्राणदीपकाय नमः ।

ओं वायुकीलकाय नमः ।

ओं विपश्चिद्वरदाय नमः ।

ओं नादोन्नादभिन्नबलाहकाय नमः ॥ १२० ॥

ओं वराहरदनाय नमः ।

ओं मृत्युञ्जयाय नमः ।

ओं व्याघ्राजिनाम्बराय नमः ।

ओं इच्छाशक्तिधराय नमः ।

ओं देवत्रात्रे नमः ।

ओं दैत्यविमर्दनाय नमः ।

ओं शम्भुवक्त्रोद्भवाय नमः ।

ओं शम्भुकोपघ्ने नमः ।

ओं शम्भुहास्यभुवे नमः ।

ओं शम्भुतेजसे नमः ।

ओं शिवाशोकहारिणे नमः ।

ओं गौरीसुखावहाय नमः ।

ओं उमाङ्गमलजाय नमः ।

ओं गौरीतेजोभुवे नमः ।

ओं स्वर्धुनीभवाय नमः ।

ओं यज्ञकायाय नमः ।

ओं महानादाय नमः ।

ओं गिरिवर्ष्मणे नमः ।

ओं शुभाननाय नमः ।

ओं सर्वात्मने नमः ॥ १४० ॥

ओं सर्वदेवात्मने नमः ।

ओं ब्रह्ममूर्ध्ने नमः ।

ओं ककुप्छ्रुतये नमः ।

ओं ब्रह्माण्डकुम्भाय नमः ।

ओं चिद्व्योमफालाय नमः ।

ओं सत्यशिरोरुहाय नमः ।

ओं जगज्जन्मलयोन्मेषनिमेषाय नमः ।

ओं अग्न्यर्कसोमदृशे नमः ।

ओं गिरीन्द्रैकरदाय नमः ।

ओं धर्माधर्मोष्ठाय नमः ।

ओं सामबृंहिताय नमः ।

ओं ग्रहर्क्षदशनाय नमः ।

ओं वाणीजिह्वाय नमः ।

ओं वासवनासिकाय नमः ।

ओं कुलाचलांसाय नमः ।

ओं सोमार्कघण्टाय नमः ।

ओं रुद्रशिरोधराय नमः ।

ओं नदीनदभुजाय नमः ।

ओं सर्पाङ्गुलीकाय नमः ।

ओं तारकानखाय नमः ॥ १६० ॥

ओं भ्रूमध्यसंस्थितकराय नमः ।

ओं ब्रह्मविद्यामदोत्कटाय नमः ।

ओं व्योमनाभये नमः ।

ओं श्रीहृदयाय नमः ।

ओं मेरुपृष्ठाय नमः ।

ओं अर्णवोदराय नमः ।

ओं कुक्षिस्थयक्षगन्धर्वरक्षःकिन्नरमानुषाय नमः ।

ओं पृथ्विकटये नमः ।

ओं सृष्टिलिङ्गाय नमः ।

ओं शैलोरवे नमः ।

ओं दस्रजानुकाय नमः ।

ओं पातालजङ्घाय नमः ।

ओं मुनिपदे नमः ।

ओं कालाङ्गुष्ठाय नमः ।

ओं त्रयीतनवे नमः ।

ओं ज्योतिर्मण्डललाङ्गूलाय नमः ।

ओं हृदयालाननिश्चलाय नमः ।

ओं हृत्पद्मकर्णिकाशालिवियत्केलिसरोवराय नमः ।

ओं सद्भक्तध्याननिगडाय नमः ।

ओं पूजावारीनिवारिताय नमः ॥ १८० ॥

ओं प्रतापिने नमः ।

ओं कश्यपसुताय नमः ।

ओं गणपाय नमः ।

ओं विष्टपिने नमः ।

ओं बलिने नमः ।

ओं यशस्विने नमः ।

ओं धार्मिकाय नमः ।

ओं स्वोजसे नमः ।

ओं प्रथमाय नमः ।

ओं प्रथमेश्वराय नमः ।

ओं चिन्तामणिद्वीपपतये नमः ।

ओं कल्पद्रुमवनालयाय नमः ।

ओं रत्नमण्डपमध्यस्थाय नमः ।

ओं रत्नसिंहासनाश्रयाय नमः ।

ओं तीव्राशिरोधृतपदाय नमः ।

ओं ज्वालिनीमौलिलालिताय नमः ।

ओं नन्दानन्दितपीठश्रिये नमः ।

ओं भोगदाभूषितासनाय नमः ।

ओं सकामदायिनीपीठाय नमः ।

ओं स्फुरदुग्रासनाश्रयाय नमः ॥ २०० ॥

ओं तेजोवतीशिरोरत्नाय नमः ।

ओं सत्यानित्यावतंसिताय नमः ।

ओं सविघ्ननाशिनीपीठाय नमः ।

ओं सर्वशक्त्यम्बुजाश्रयाय नमः ।

ओं लिपिपद्मासनाधाराय नमः ।

ओं वह्निधामत्रयाश्रयाय नमः ।

ओं उन्नतप्रपदाय नमः ।

ओं गूढगुल्फाय नमः ।

ओं संवृत्तपार्ष्णिकाय नमः ।

ओं पीनजङ्घाय नमः ।

ओं श्लिष्टजानवे नमः ।

ओं स्थूलोरवे नमः ।

ओं प्रोन्नमत्कटये नमः ।

ओं निम्ननाभये नमः ।

ओं स्थूलकुक्षये नमः ।

ओं पीनवक्षसे नमः ।

ओं बृहद्भुजाय नमः ।

ओं पीनस्कन्धाय नमः ।

ओं कम्बुकण्ठाय नमः ।

ओं लम्बोष्ठाय नमः ॥ २२० ॥

ओं लम्बनासिकाय नमः ।

ओं भग्नवामरदाय नमः ।

ओं तुङ्गाय सव्यदन्ताय नमः ।

ओं महाहनवे नमः ।

ओं ह्रस्वनेत्रत्रयाय नमः ।

ओं शूर्पकर्णाय नमः ।

ओं निबिडमस्तकाय नमः ।

ओं स्तबकाकारकुम्भाग्राय नमः ।

ओं रत्नमौलये नमः ।

ओं निरङ्कुशाय नमः ।

ओं सर्पहारकटीसूत्राय नमः ।

ओं सर्पयज्ञोपवीतये नमः ।

ओं सर्पकोटीरकटकाय नमः ।

ओं सर्पग्रैवेयकाङ्गदाय नमः ।

ओं सर्पकक्ष्योदराबन्धाय नमः ।

ओं सर्पराजोत्तरीयकाय नमः ।

ओं रक्ताय नमः ।

ओं रक्ताम्बरधराय नमः ।

ओं रक्तमाल्यविभूषणाय नमः ।

ओं रक्तेक्षणाय नमः ॥ २४० ॥

ओं रक्तकराय नमः ।

ओं रक्तताल्वोष्ठपल्लवाय नमः ।

ओं श्वेताय नमः ।

ओं श्वेताम्बरधराय नमः ।

ओं श्वेतमाल्यविभूषणाय नमः ।

ओं श्वेतातपत्ररुचिराय नमः ।

ओं श्वेतचामरवीजिताय नमः ।

ओं सर्वावयवसम्पूर्णसर्वलक्षणलक्षिताय नमः ।

ओं सर्वाभरणशोभाढ्याय नमः ।

ओं सर्वशोभासमन्विताय नमः ।

ओं सर्वमङ्गलमाङ्गल्याय नमः ।

ओं सर्वकारणकारणाय नमः ।

ओं सर्वदैककराय नमः ।

ओं शार्‍ङ्गिणे नमः ।

ओं बीजापूरिणे नमः ।

ओं गदाधराय नमः ।

ओं इक्षुचापधराय नमः ।

ओं शूलिने नमः ।

ओं चक्रपाणये नमः ।

ओं सरोजभृते नमः ॥ २६० ॥

ओं पाशिने नमः ।

ओं धृतोत्पलाय नमः ।

ओं शालीमञ्जरीभृते नमः ।

ओं स्वदन्तभृते नमः ।

ओं कल्पवल्लीधराय नमः ।

ओं विश्वाभयदैककराय नमः ।

ओं वशिने नमः ।

ओं अक्षमालाधराय नमः ।

ओं ज्ञानमुद्रावते नमः ।

ओं मुद्गरायुधाय नमः ।

ओं पूर्णपात्रिणे नमः ।

ओं कम्बुधराय नमः ।

ओं विधृतालिसमुद्गकाय नमः ।

ओं मातुलुङ्गधराय नमः ।

ओं चूतकलिकाभृते नमः ।

ओं कुठारवते नमः ।

ओं पुष्करस्थस्वर्णघटीपूर्णरत्नाभिवर्षकाय नमः ।

ओं भारतीसुन्दरीनाथाय नमः ।

ओं विनायकरतिप्रियाय नमः ।

ओं महालक्ष्मीप्रियतमाय नमः ॥ २८० ॥

ओं सिद्धलक्ष्मीमनोरमाय नमः ।

ओं रमारमेशपूर्वाङ्गाय नमः ।

ओं दक्षिणोमामहेश्वराय नमः ।

ओं महीवराहवामाङ्गाय नमः ।

ओं रतिकन्दर्पपश्चिमाय नमः ।

ओं आमोदमोदजननाय नमः ।

ओं सप्रमोदप्रमोदनाय नमः ।

ओं समेधितसमृद्धश्रिये नमः ।

ओं ऋद्धिसिद्धिप्रवर्तकाय नमः ।

ओं दत्तसौमुख्यसुमुखाय नमः ।

ओं कान्तिकन्दलिताश्रयाय नमः ।

ओं मदनावत्याश्रिताङ्घ्रये नमः ।

ओं कृत्तदौर्मुख्यदुर्मुखाय नमः ।

ओं विघ्नसम्पल्लवोपघ्नसेवाय नमः ।

ओं उन्निद्रमदद्रवाय नमः ।

ओं विघ्नकृन्निघ्नचरणाय नमः ।

ओं द्राविणीशक्तिसत्कृताय नमः ।

ओं तीव्राप्रसन्ननयनाय नमः ।

ओं ज्वालिनीपालितैकदृशे नमः ।

ओं मोहिनीमोहनाय नमः ॥ ३०० ॥

ओं भोगदायिनीकान्तिमण्डिताय नमः ।

ओं कामिनीकान्तवक्त्रश्रिये नमः ।

ओं अधिष्ठितवसुन्धराय नमः ।

ओं वसुन्धरामदोन्नद्धमहाशङ्खनिधिप्रभवे नमः ।

ओं नमद्वसुमतीमौलिमहापद्मनिधिप्रभवे नमः ।

ओं सर्वसद्गुरुसंसेव्याय नमः ।

ओं शोचिष्केशहृदाश्रयाय नमः ।

ओं ईशानमूर्ध्ने नमः ।

ओं देवेन्द्रशिखायै नमः ।

ओं पवननन्दनाय नमः ।

ओं अग्रप्रत्यग्रनयनाय नमः ।

ओं दिव्यास्त्राणां प्रयोगविदे नमः ।

ओं ऐरावतादिसर्वाशावारणावरणप्रियाय नमः ।

ओं वज्राद्यस्त्रपरीवाराय नमः ।

ओं गणचण्डसमाश्रयाय नमः ।

ओं जयाजयपरीवाराय नमः ।

ओं विजयाविजयावहाय नमः ।

ओं अजितार्चितपादाब्जाय नमः ।

ओं नित्यानित्यावतंसिताय नमः ।

ओं विलासिनीकृतोल्लासाय नमः ॥ ३२० ॥

ओं शौण्डीसौन्दर्यमण्डिताय नमः ।

ओं अनन्तानन्तसुखदाय नमः ।

ओं सुमङ्गलसुमङ्गलाय नमः ।

ओं इच्छाशक्तिज्ञानशक्तिक्रियाशक्तिनिषेविताय नमः ।

ओं सुभगासंश्रितपदाय नमः ।

ओं ललिताललिताश्रयाय नमः ।

ओं कामिनीकामनाय नमः ।

ओं काममालिनीकेलिलालिताय नमः ।

ओं सरस्वत्याश्रयाय नमः ।

ओं गौरीनन्दनाय नमः ।

ओं श्रीनिकेतनाय नमः ।

ओं गुरुगुप्तपदाय नमः ।

ओं वाचासिद्धाय नमः ।

ओं वागीश्वरीपतये नमः ।

ओं नलिनीकामुकाय नमः ।

ओं वामारामाय नमः ।

ओं ज्येष्ठामनोरमाय नमः ।

ओं रौद्रीमुद्रितपादाब्जाय नमः ।

ओं हुम्बीजाय नमः ।

ओं तुङ्गशक्तिकाय नमः ॥ ३४० ॥

ओं विश्वादिजननत्राणाय नमः ।

ओं स्वाहाशक्तये नमः ।

ओं सकीलकाय नमः ।

ओं अमृताब्धिकृतावासाय नमः ।

ओं मदघूर्णितलोचनाय नमः ।

ओं उच्छिष्टगणाय नमः ।

ओं उच्छिष्टगणेशाय नमः ।

ओं गणनायकाय नमः ।

ओं सार्वकालिकसंसिद्धये नमः ।

ओं नित्यशैवाय नमः ।

ओं दिगम्बराय नमः ।

ओं अनपायाय नमः ।

ओं अनन्तदृष्टये नमः ।

ओं अप्रमेयाय नमः ।

ओं अजरामराय नमः ।

ओं अनाविलाय नमः ।

ओं अप्रतिरथाय नमः ।

ओं अच्युताय नमः ।

ओं अमृताय नमः ।

ओं अक्षराय नमः ॥ ३६० ॥

ओं अप्रतर्क्याय नमः ।

ओं अक्षयाय नमः ।

ओं अजय्याय नमः ।

ओं अनाधाराय नमः ।

ओं अनामयाय नमः ।

ओं अमलाय नमः ।

ओं अमोघसिद्धये नमः ।

ओं अद्वैताय नमः ।

ओं अघोराय नमः ।

ओं अप्रमिताननाय नमः ।

ओं अनाकाराय नमः ।

ओं अब्धिभूम्यग्निबलघ्नाय नमः ।

ओं अव्यक्तलक्षणाय नमः ।

ओं आधारपीठाय नमः ।

ओं आधाराय नमः ।

ओं आधाराधेयवर्जिताय नमः ।

ओं आखुकेतनाय नमः ।

ओं आशापूरकाय नमः ।

ओं आखुमहारथाय नमः ।

ओं इक्षुसागरमध्यस्थाय नमः ॥ ३८० ॥

ओं इक्षुभक्षणलालसाय नमः ।

ओं इक्षुचापातिरेकश्रिये नमः ।

ओं इक्षुचापनिषेविताय नमः ।

ओं इन्द्रगोपसमानश्रिये नमः ।

ओं इन्द्रनीलसमद्युतये नमः ।

ओं इन्दीवरदलश्यामाय नमः ।

ओं इन्दुमण्डलनिर्मलाय नमः ।

ओं इध्मप्रियाय नमः ।

ओं इडाभागाय नमः ।

ओं इडाधाम्ने नमः ।

ओं इन्दिराप्रियाय नमः ।

ओं इक्ष्वाकुविघ्नविध्वंसिने नमः ।

ओं इतिकर्तव्यतेप्सिताय नमः ।

ओं ईशानमौलये नमः ।

ओं ईशानाय नमः ।

ओं ईशानसुताय नमः ।

ओं ईतिघ्ने नमः ।

ओं ईषणात्रयकल्पान्ताय नमः ।

ओं ईहामात्रविवर्जिताय नमः ।

ओं उपेन्द्राय नमः ॥ ४०० ॥

ओं उडुभृन्मौलये नमः ।

ओं उण्डेरकबलिप्रियाय नमः ।

ओं उन्नताननाय नमः ।

ओं उत्तुङ्गाय नमः ।

ओं उदारत्रिदशाग्रण्ये नमः ।

ओं ऊर्जस्वते नमः ।

ओं ऊष्मलमदाय नमः ।

ओं ऊहापोहदुरासदाय नमः ।

ओं ऋग्यजुःसामसम्भूतये नमः ।

ओं ऋद्धिसिद्धिप्रवर्तकाय नमः ।

ओं ऋजुचित्तैकसुलभाय नमः ।

ओं ऋणत्रयविमोचकाय नमः ।

ओं स्वभक्तानां लुप्तविघ्नाय नमः ।

ओं सुरद्विषां लुप्तशक्तये नमः ।

ओं विमुखार्चानां लुप्तश्रिये नमः ।

ओं लूताविस्फोटनाशनाय नमः ।

ओं एकारपीठमध्यस्थाय नमः ।

ओं एकपादकृतासनाय नमः ।

ओं एजिताखिलदैत्यश्रिये नमः ।

ओं एधिताखिलसंश्रयाय नमः ॥ ४२० ॥

ओं ऐश्वर्यनिधये नमः ।

ओं ऐश्वर्याय नमः ।

ओं ऐहिकामुष्मिकप्रदाय नमः ।

ओं ऐरम्मदसमोन्मेषाय नमः ।

ओं ऐरावतनिभाननाय नमः ।

ओं ओङ्कारवाच्याय नमः ।

ओं ओङ्काराय नमः ।

ओं ओजस्वते नमः ।

ओं ओषधीपतये नमः ।

ओं औदार्यनिधये नमः ।

ओं औद्धत्यधुर्याय नमः ।

ओं औन्नत्यनिस्वनाय नमः ।

ओं सुरनागानामङ्कुशाय नमः ।

ओं सुरविद्विषामङ्कुशाय नमः ।

ओं अःसमस्तविसर्गान्तपदेषुपरिकीर्तिताय नमः ।

ओं कमण्डलुधराय नमः ।

ओं कल्पाय नमः ।

ओं कपर्दिने नमः ।

ओं कलभाननाय नमः ।

ओं कर्मसाक्षिणे नमः ॥ ४४० ॥

ओं कर्मकर्त्रे नमः ।

ओं कर्माकर्मफलप्रदाय नमः ।

ओं कदम्बगोलकाकाराय नमः ।

ओं कूष्माण्डगणनायकाय नमः ।

ओं कारुण्यदेहाय नमः ।

ओं कपिलाय नमः ।

ओं कथकाय नमः ।

ओं कटिसूत्रभृते नमः ।

ओं खर्वाय नमः ।

ओं खड्गप्रियाय नमः ।

ओं खड्गखातान्तःस्थाय नमः ।

ओं खनिर्मलाय नमः ।

ओं खल्वाटशृङ्गनिलयाय नमः ।

ओं खट्वाङ्गिने नमः ।

ओं खदुरासदाय नमः ।

ओं गुणाढ्याय नमः ।

ओं गहनाय नमः ।

ओं गस्थाय नमः ।

ओं गद्यपद्यसुधार्णवाय नमः ।

ओं गद्यगानप्रियाय नमः ॥ ४६० ॥

ओं गर्जाय नमः ।

ओं गीतगीर्वाणपूर्वजाय नमः ।

ओं गुह्याचाररताय नमः ।

ओं गुह्याय नमः ।

ओं गुह्यागमनिरूपिताय नमः ।

ओं गुहाशयाय नमः ।

ओं गुहाब्धिस्थाय नमः ।

ओं गुरुगम्याय नमः ।

ओं गुरोर्गुरवे नमः ।

ओं घण्टाघर्घरिकामालिने नमः ।

ओं घटकुम्भाय नमः ।

ओं घटोदराय नमः ।

ओं चण्डाय नमः ।

ओं चण्डेश्वरसुहृदे नमः ।

ओं चण्डीशाय नमः ।

ओं चण्डविक्रमाय नमः ।

ओं चराचरपतये नमः ।

ओं चिन्तामणिचर्वणलालसाय नमः ।

ओं छन्दसे नमः ।

ओं छन्दोवपुषे नमः ॥ ४८० ॥

ओं छन्दोदुर्लक्ष्याय नमः ।

ओं छन्दविग्रहाय नमः ।

ओं जगद्योनये नमः ।

ओं जगत्साक्षिणे नमः ।

ओं जगदीशाय नमः ।

ओं जगन्मयाय नमः ।

ओं जपाय नमः ।

ओं जपपराय नमः ।

ओं जप्याय नमः ।

ओं जिह्वासिंहासनप्रभवे नमः ।

ओं झलज्झलोल्लसद्दानझङ्कारिभ्रमराकुलाय नमः ।

ओं टङ्कारस्फारसंरावाय नमः ।

ओं टङ्कारिमणिनूपुराय नमः ।

ओं ठद्वयीपल्लवान्तःस्थसर्वमन्त्रैकसिद्धिदाय नमः ।

ओं डिण्डिमुण्डाय नमः ।

ओं डाकिनीशाय नमः ।

ओं डामराय नमः ।

ओं डिण्डिमप्रियाय नमः ।

ओं ढक्कानिनादमुदिताय नमः ।

ओं ढौकाय नमः ॥ ५०० ॥

ओं ढुण्ढिविनायकाय नमः ।

ओं तत्वानां परमाय तत्त्वाय नमः ।

ओं तत्त्वम्पदनिरूपिताय नमः ।

ओं तारकान्तरसंस्थानाय नमः ।

ओं तारकाय नमः ।

ओं तारकान्तकाय नमः ।

ओं स्थाणवे नमः ।

ओं स्थाणुप्रियाय नमः ।

ओं स्थात्रे नमः ।

ओं स्थावराय जङ्गमाय जगते नमः ।

ओं दक्षयज्ञप्रमथनाय नमः ।

ओं दात्रे नमः ।

ओं दानवमोहनाय नमः ।

ओं दयावते नमः ।

ओं दिव्यविभवाय नमः ।

ओं दण्डभृते नमः ।

ओं दण्डनायकाय नमः ।

ओं दन्तप्रभिन्नाभ्रमालाय नमः ।

ओं दैत्यवारणदारणाय नमः ।

ओं दंष्ट्रालग्नद्विपघटाय नमः ॥ ५२० ॥

ओं देवार्थनृगजाकृतये नमः ।

ओं धनधान्यपतये नमः ।

ओं धन्याय नमः ।

ओं धनदाय नमः ।

ओं धरणीधराय नमः ।

ओं ध्यानैकप्रकटाय नमः ।

ओं ध्येयाय नमः ।

ओं ध्यानाय नमः ।

ओं ध्यानपरायणाय नमः ।

ओं नन्द्याय नमः ।

ओं नन्दिप्रियाय नमः ।

ओं नादाय नमः ।

ओं नादमध्यप्रतिष्ठिताय नमः ।

ओं निष्कलाय नमः ।

ओं निर्मलाय नमः ।

ओं नित्याय नमः ।

ओं नित्यानित्याय नमः ।

ओं निरामयाय नमः ।

ओं परस्मै व्योम्ने नमः ।

ओं परस्मै धाम्मे नमः ॥ ५४० ॥

ओं परमात्मने नमः ।

ओं परस्मै पदाय नमः ।

ओं परात्पराय नमः ।

ओं पशुपतये नमः ।

ओं पशुपाशविमोचकाय नमः ।

ओं पूर्णानन्दाय नमः ।

ओं परानन्दाय नमः ।

ओं पुराणपुरुषोत्तमाय नमः ।

ओं पद्मप्रसन्ननयनाय नमः ।

ओं प्रणताज्ञानमोचनाय नमः ।

ओं प्रमाणप्रत्यायातीताय नमः ।

ओं प्रणतार्तिनिवारणाय नमः ।

ओं फलहस्ताय नमः ।

ओं फणिपतये नमः ।

ओं फेत्काराय नमः ।

ओं फाणितप्रियाय नमः ।

ओं बाणार्चिताङ्घ्रियुगलाय नमः ।

ओं बालकेलिकुतूहलिने नमः ।

ओं ब्रह्मणे नमः ।

ओं ब्रह्मार्चितपदाय नमः ॥ ५६० ॥

ओं ब्रह्मचारिणे नमः ।

ओं बृहस्पतये नमः ।

ओं बृहत्तमाय नमः ।

ओं ब्रह्मपराय नमः ।

ओं ब्रह्मण्याय नमः ।

ओं ब्रह्मवित्प्रियाय नमः ।

ओं बृहन्नादाग्र्यचीत्काराय नमः ।

ओं ब्रह्माण्डावलिमेखलाय नमः ।

ओं भ्रूक्षेपदत्तलक्ष्मीकाय नमः ।

ओं भर्गाय नमः ।

ओं भद्राय नमः ।

ओं भयापहाय नमः ।

ओं भगवते नमः ।

ओं भक्तिसुलभाय नमः ।

ओं भूतिदाय नमः ।

ओं भूतिभूषणाय नमः ।

ओं भव्याय नमः ।

ओं भूतालयाय नमः ।

ओं भोगदात्रे नमः ।

ओं भ्रूमध्यगोचराय नमः ॥ ५८० ॥

ओं मन्त्राय नमः ।

ओं मन्त्रपतये नमः ।

ओं मन्त्रिणे नमः ।

ओं मदमत्तमनोरमाय नमः ।

ओं मेखलावते नमः ।

ओं मन्दगतये नमः ।

ओं मतिमत्कमलेक्षणाय नमः ।

ओं महाबलाय नमः ।

ओं महावीर्याय नमः ।

ओं महाप्राणाय नमः ।

ओं महामनसे नमः ।

ओं यज्ञाय नमः ।

ओं यज्ञपतये नमः ।

ओं यज्ञगोप्त्रे नमः ।

ओं यज्ञफलप्रदाय नमः ।

ओं यशस्कराय नमः ।

ओं योगगम्याय नमः ।

ओं याज्ञिकाय नमः ।

ओं याजकप्रियाय नमः ।

ओं रसाय नमः ॥ ६०० ॥

ओं रसप्रियाय नमः ।

ओं रस्याय नमः ।

ओं रञ्जकाय नमः ।

ओं रावणार्चिताय नमः ।

ओं रक्षोरक्षाकराय नमः ।

ओं रत्नगर्भाय नमः ।

ओं राज्यसुखप्रदाय नमः ।

ओं लक्ष्यालक्ष्यप्रदाय नमः ।

ओं लक्ष्याय नमः ।

ओं लयस्थाय नमः ।

ओं लड्डुकप्रियाय नमः ।

ओं लानप्रियाय नमः ।

ओं लास्यपराय नमः ।

ओं लाभकृते नमः ।

ओं लोकविश्रुताय नमः ।

ओं वरेण्याय नमः ।

ओं वह्निवदनाय नमः ।

ओं वन्द्याय नमः ।

ओं वेदान्तगोचराय नमः ।

ओं विकर्त्रे नमः ॥ ६२० ॥

ओं विश्वतश्चक्षुषे नमः ।

ओं विधात्रे नमः ।

ओं विश्वतोमुखाय नमः ।

ओं वामदेवाय नमः ।

ओं विश्वनेत्रे नमः ।

ओं वज्रिवज्रनिवारणाय नमः ।

ओं विश्वबन्धनविष्कम्भाधाराय नमः ।

ओं विश्वेश्वरप्रभवे नमः ।

ओं शब्दब्रह्मणे नमः ।

ओं शमप्राप्याय नमः ।

ओं शम्भुशक्तिगणेश्वराय नमः ।

ओं शास्त्रे नमः ।

ओं शिखाग्रनिलयाय नमः ।

ओं शरण्याय नमः ।

ओं शिखरीश्वराय नमः ।

ओं षडृतुकुसुमस्रग्विणे नमः ।

ओं षडाधाराय नमः ।

ओं षडक्षराय नमः ।

ओं संसारवैद्याय नमः ।

ओं सर्वज्ञाय नमः ॥ ६४० ॥

ओं सर्वभेषजभेषजाय नमः ।

ओं सृष्टिस्थितिलयक्रीडाय नमः ।

ओं सुरकुञ्जरभेदनाय नमः ।

ओं सिन्दूरितमहाकुम्भाय नमः ।

ओं सदसद्व्यक्तिदायकाय नमः ।

ओं साक्षिणे नमः ।

ओं समुद्रमथनाय नमः ।

ओं स्वसंवेद्याय नमः ।

ओं स्वदक्षिणाय नमः ।

ओं स्वतन्त्राय नमः ।

ओं सत्यसङ्कल्पाय नमः ।

ओं सामगानरताय नमः ।

ओं सुखिने नमः ।

ओं हंसाय नमः ।

ओं हस्तिपिशाचीशाय नमः ।

ओं हवनाय नमः ।

ओं हव्यकव्यभुजे नमः ।

ओं हव्याय नमः ।

ओं हुतप्रियाय नमः ।

ओं हर्षाय नमः ॥ ६६० ॥

ओं हृल्लेखामन्त्रमध्यगाय नमः ।

ओं क्षेत्राधिपाय नमः ।

ओं क्षमाभर्त्रे नमः ।

ओं क्षमापरपरायणाय नमः ।

ओं क्षिप्रक्षेमकराय नमः ।

ओं क्षेमानन्दाय नमः ।

ओं क्षोणीसुरद्रुमाय नमः ।

ओं धर्मप्रदाय नमः ।

ओं अर्थदाय नमः ।

ओं कामदात्रे नमः ।

ओं सौभाग्यवर्धनाय नमः ।

ओं विद्याप्रदाय नमः ।

ओं विभवदाय नमः ।

ओं भुक्तिमुक्तिफलप्रदाय नमः ।

ओं आभिरूप्यकराय नमः ।

ओं वीरश्रीप्रदाय नमः ।

ओं विजयप्रदाय नमः ।

ओं सर्ववश्यकराय नमः ।

ओं गर्भदोषघ्ने नमः ।

ओं पुत्रपौत्रदाय नमः ॥ ६८० ॥

ओं मेधादाय नमः ।

ओं कीर्तिदाय नमः ।

ओं शोकहारिणे नमः ।

ओं दौर्भाग्यनाशनाय नमः ।

ओं प्रतिवादिमुखस्तम्भाय नमः ।

ओं रुष्टचित्तप्रसादनाय नमः ।

ओं पराभिचारशमनाय नमः ।

ओं दुःखभञ्जनकारकाय नमः ।

ओं लवाय नमः ।

ओं त्रुटये नमः ।

ओं कलायै नमः ।

ओं काष्ठायै नमः ।

ओं निमेषाय नमः ।

ओं तत्पराय नमः ।

ओं क्षणाय नमः ।

ओं घट्यै नमः ।

ओं मुहूर्ताय नमः ।

ओं प्रहराय नमः ।

ओं दिवानक्ताय नमः ।

ओं अहर्निशाय नमः ॥ ७०० ॥

ओं पक्षाय नमः ।

ओं मासाय नमः ।

ओं अयनाय नमः ।

ओं वर्षाय नमः ।

ओं युगाय नमः ।

ओं कल्पाय नमः ।

ओं महालयाय नमः ।

ओं राशये नमः ।

ओं तारायै नमः ।

ओं तिथये नमः ।

ओं योगाय नमः ।

ओं वाराय नमः ।

ओं करणाय नमः ।

ओं अंशकाय नमः ।

ओं लग्नाय नमः ।

ओं होरायै नमः ।

ओं कालचक्राय नमः ।

ओं मेरवे नमः ।

ओं सप्तर्षिभ्यो नमः ।

ओं ध्रुवाय नमः ॥ ७२० ॥

ओं राहवे नमः ।

ओं मन्दाय नमः ।

ओं कवये नमः ।

ओं जीवाय नमः ।

ओं बुधाय नमः ।

ओं भौमाय नमः ।

ओं शशिने नमः ।

ओं रवये नमः ।

ओं कालाय नमः ।

ओं सृष्टये नमः ।

ओं स्थितये नमः ।

ओं विश्वस्मै स्थावराय जङ्गमाय नमः ।

ओं यस्मै नमः ।

ओं भुवे नमः ।

ओं अद्भ्यो नमः ।

ओं अग्नये नमः ।

ओं मरुते नमः ।

ओं व्योम्ने नमः ।

ओं अहङ्कृतये नमः ।

ओं प्रकृतये नमः ॥ ७४० ॥

ओं पुंसे नमः ।

ओं ब्रह्मणे नमः ।

ओं विष्णवे नमः ।

ओं शिवाय नमः ।

ओं रुद्राय नमः ।

ओं ईशाय नमः ।

ओं शक्तये नमः ।

ओं सदाशिवाय नमः ।

ओं त्रिदशेभ्यो नमः ।

ओं पितृभ्यो नमः ।

ओं सिद्धेभ्यो नमः ।

ओं यक्षेभ्यो नमः ।

ओं रक्षोभ्यो नमः ।

ओं किन्नरेभ्यो नमः ।

ओं साध्येभ्यो नमः ।

ओं विद्याधरेभ्यो नमः ।

ओं भूतेभ्यो नमः ।

ओं मनुष्येभ्यो नमः ।

ओं पशुभ्यो नमः ।

ओं खगेभ्यो नमः ॥ ७६० ॥

ओं समुद्रेभ्यो नमः ।

ओं सरिद्भ्यो नमः ।

ओं शैलेभ्यो नमः ।

ओं भूताय नमः ।

ओं भव्याय नमः ।

ओं भवोद्भवाय नमः ।

ओं साङ्ख्याय नमः ।

ओं पातञ्जलाय नमः ।

ओं योगाय नमः ।

ओं पुराणेभ्यो नमः ।

ओं श्रुत्यै नमः ।

ओं स्मृत्यै नमः ।

ओं वेदाङ्गेभ्यो नमः ।

ओं सदाचाराय नमः ।

ओं मीमांसायै नमः ।

ओं न्यायविस्तराय नमः ।

ओं आयुर्वेदाय नमः ।

ओं धनुर्वेदीय नमः ।

ओं गान्धर्वाय नमः ।

ओं काव्यनाटकाय नमः ॥ ७८० ॥

ओं वैखानसाय नमः ।

ओं भागवताय नमः ।

ओं सात्वताय नमः ।

ओं पाञ्चरात्रकाय नमः ।

ओं शैवाय नमः ।

ओं पाशुपताय नमः ।

ओं कालामुखाय नमः ।

ओं भैरवशासनाय नमः ।

ओं शाक्ताय नमः ।

ओं वैनायकाय नमः ।

ओं सौराय नमः ।

ओं जैनाय नमः ।

ओं आर्हतसंहितायै नमः ।

ओं सते नमः ।

ओं असते नमः ।

ओं व्यक्ताय नमः ।

ओं अव्यक्ताय नमः ।

ओं सचेतनाय नमः ।

ओं अचेतनाय नमः ।

ओं बन्धाय नमः ॥ ८०० ॥

ओं मोक्षाय नमः ।

ओं सुखाय नमः ।

ओं भोगाय नमः ।

ओं अयोगाय नमः ।

ओं सत्याय नमः ।

ओं अणवे नमः ।

ओं महते नमः ।

ओं स्वस्तये नमः ।

ओं हुं नमः ।

ओं फट् नमः ।

ओं स्वधा नमः ।

ओं स्वाहा नमः ।

ओं श्रौषट् नमः ।

ओं वौषट् नमः ।

ओं वषट् नमः ।

ओं ज्ञानाय नमः ।

ओं विज्ञानाय नमः ।

ओं आनन्दाय नमः ।

ओं बोधाय नमः ।

ओं संविदे नमः ॥ ८२० ॥

ओं शमाय नमः ।

ओं यमाय नमः ।

ओं एकस्मै नमः ।

ओं एकाक्षराधाराय नमः ।

ओं एकाक्षरपरायणाय नमः ।

ओं एकाग्रधिये नमः ।

ओं एकवीराय नमः ।

ओं एकानेकस्वरूपधृते नमः ।

ओं द्विरूपाय नमः ।

ओं द्विभुजाय नमः ।

ओं द्व्यक्षाय नमः ।

ओं द्विरदाय नमः ।

ओं द्वीपरक्षकाय नमः ।

ओं द्वैमातुराय नमः ।

ओं द्विवदनाय नमः ।

ओं द्वन्द्वातीताय नमः ।

ओं द्वयातिगाय नमः ।

ओं त्रिधाम्ने नमः ।

ओं त्रिकराय नमः ।

ओं त्रेतायै नमः ॥ ८४० ॥

ओं त्रिवर्गफलदायकाय नमः ।

ओं त्रिगुणात्मने नमः ।

ओं त्रिलोकादये नमः ।

ओं त्रिशक्तीशाय नमः ।

ओं त्रिलोचनाय नमः ।

ओं चतुर्बाहवे नमः ।

ओं चतुर्दन्ताय नमः ।

ओं चतुरात्मने नमः ।

ओं चतुर्मुखाय नमः ।

ओं चतुर्विधोपायमयाय नमः ।

ओं चतुर्वर्णाश्रमाश्रयाय नमः ।

ओं चतुर्विधवचोवृत्तिपरिवृत्तिप्रवर्तकाय नमः ।

ओं चतुर्थीपूजनप्रीताय नमः ।

ओं चतुर्थीतिथिसम्भवाय नमः ।

ओं पञ्चाक्षरात्मने नमः ।

ओं पञ्चात्मने नमः ।

ओं पञ्चास्याय नमः ।

ओं पञ्चकृत्यकृते नमः ।

ओं पञ्चाधाराय नमः ।

ओं पञ्चवर्णाय नमः ॥ ८६० ॥

ओं पञ्चाक्षरपरायणाय नमः ।

ओं पञ्चतालाय नमः ।

ओं पञ्चकराय नमः ।

ओं पञ्चप्रणवभाविताय नमः ।

ओं पञ्चब्रह्ममयस्फूर्तये नमः ।

ओं पञ्चावरणवारिताय नमः ।

ओं पञ्चभक्ष्यप्रियाय नमः ।

ओं पञ्चबाणाय नमः ।

ओं पञ्चशिवात्मकाय नमः ।

ओं षट्कोणपीठाय नमः ।

ओं षट्चक्रधाम्ने नमः ।

ओं षड्ग्रन्थिभेदकाय नमः ।

ओं षडध्वध्वान्तविध्वंसिने नमः ।

ओं षडङ्गुलमहाह्रदाय नमः ।

ओं षण्मुखाय नमः ।

ओं षण्मुखभ्रात्रे नमः ।

ओं षट्छक्तिपरिवारिताय नमः ।

ओं षड्वैरिवर्गविध्वंसिने नमः ।

ओं षडूर्मिभयभञ्जनाय नमः ।

ओं षट्तर्कदूराय नमः ॥ ८८० ॥

ओं षट्कर्मनिरताय नमः ।

ओं षड्रसाश्रयाय नमः ।

ओं सप्तपातालचरणाय नमः ।

ओं सप्तद्वीपोरुमण्डलाय नमः ।

ओं सप्तस्वर्लोकमुकुटाय नमः ।

ओं सप्तसप्तिवरप्रदाय नमः ।

ओं सप्ताङ्गराज्यसुखदाय नमः ।

ओं सप्तर्षिगणमण्डिताय नमः ।

ओं सप्तच्छन्दोनिधये नमः ।

ओं सप्तहोत्रे नमः ।

ओं सप्तस्वराश्रयाय नमः ।

ओं सप्ताब्धिकेलिकासाराय नमः ।

ओं सप्तमातृनिषेविताय नमः ।

ओं सप्तच्छन्दोमोदमदाय नमः ।

ओं सप्तच्छन्दोमखप्रभवे नमः ।

ओं अष्टमूर्तिध्येयमूर्तये नमः ।

ओं अष्टप्रकृतिकारणाय नमः ।

ओं अष्टाङ्गयोगफलभुजे नमः ।

ओं अष्टपत्राम्बुजासनाय नमः ।

ओं अष्टशक्तिसमृद्धश्रिये नमः ॥ ९०० ॥

ओं अष्टैश्वर्यप्रदायकाय नमः ।

ओं अष्टपीठोपपीठश्रिये नमः ।

ओं अष्टमातृसमावृताय नमः ।

ओं अष्टभैरवसेव्याय नमः ।

ओं अष्टवसुवन्द्याय नमः ।

ओं अष्टमूर्तिभृते नमः ।

ओं अष्टचक्रस्फूरन्मूर्तये नमः ।

ओं अष्टद्रव्यहविःप्रियाय नमः ।

ओं नवनागासनाध्यासिने नमः ।

ओं नवनिध्यनुशासिताय नमः ।

ओं नवद्वारपुराधाराय नमः ।

ओं नवाधारनिकेतनाय नमः ।

ओं नवनारायणस्तुत्याय नमः ।

ओं नवदुर्गानिषेविताय नमः ।

ओं नवनाथमहानाथाय नमः ।

ओं नवनागविभूषणाय नमः ।

ओं नवरत्नविचित्राङ्गाय नमः ।

ओं नवशक्तिशिरोधृताय नमः ।

ओं दशात्मकाय नमः ।

ओं दशभुजाय नमः ॥ ९२० ॥

ओं दशदिक्पतिवन्दिताय नमः ।

ओं दशाध्यायाय नमः ।

ओं दशप्राणाय नमः ।

ओं दशेन्द्रियनियामकाय नमः ।

ओं दशाक्षरमहामन्त्राय नमः ।

ओं दशाशाव्यापिविग्रहाय नमः ।

ओं एकादशादिभीरुद्रैःस्तुताय नमः ।

ओं एकादशाक्षराय नमः ।

ओं द्वादशोद्दण्डदोर्दण्डाय नमः ।

ओं द्वादशान्तनिकेतनाय नमः ।

ओं त्रयोदशाभिदाभिन्नविश्वेदेवाधिदैवताय नमः ।

ओं चतुर्दशेन्द्रवरदाय नमः ।

ओं चतुर्दशमनुप्रभवे नमः ।

ओं चतुर्दशादिविद्याढ्याय नमः ।

ओं चतुर्दशजगत्प्रभवे नमः ।

ओं सामपञ्चदशाय नमः ।

ओं पञ्चदशीशीतांशुनिर्मलाय नमः ।

ओं षोडशाधारनिलयाय नमः ।

ओं षोडशस्वरमातृकाय नमः ।

ओं षोडशान्तपदावासाय नमः ।

ओं षोडशेन्दुकलात्मकाय नमः ।

ओं कलासप्तदश्यै नमः ।

ओं सप्तदशाय नमः ।

ओं सप्तदशाक्षराय नमः ।

ओं अष्टादशद्वीपपतये नमः ।

ओं अष्टादशपुराणकृते नमः ।

ओं अष्टादशौषधीसृष्टये नमः ।

ओं अष्टादशविधिस्मृताय नमः ।

ओं अष्टादशलिपिव्यष्टिसमष्टिज्ञानकोविदाय नमः ।

ओं एकविंशाय पुंसे नमः ।

ओं एकविंशत्यङ्गुलिपल्लवाय नमः ।

ओं चतुर्विंशतितत्त्वात्मने नमः ।

ओं पञ्चविंशाख्यपूरुषाय नमः ।

ओं सप्तविंशतितारेशाय नमः ।

ओं सप्तविंशतियोगकृते नमः ।

ओं द्वात्रिंशद्भैरवाधीशाय नमः ।

ओं चतुस्त्रिंशन्महाह्रदाय नमः ।

ओं षट्त्रिंशत्तत्त्वसम्भूतये नमः ।

ओं अष्टत्रिंशत्कलातनवे नमः ।

ओं नमदेकोनपञ्चाशन्मरुद्वर्गनिरर्गलाय नमः ॥ ९६० ॥

ओं पञ्चाशदक्षरश्रेण्ये नमः ।

ओं पञ्चाशद्रुद्रविग्रहाय नमः ।

ओं पञ्चाशद्विष्णुशक्तीशाय नमः ।

ओं पञ्चाशन्मातृकालयाय नमः ।

ओं द्विपञ्चाशद्वपुःश्रेण्ये नमः ।

ओं त्रिषष्ट्यक्षरसंश्रयाय नमः ।

ओं चतुःषष्ट्यर्णनिर्णेत्रे नमः ।

ओं चतुःषष्टिकलानिधये नमः ।

ओं चतुःषष्टिमहासिद्धयोगिनीबृन्दवन्दिताय नमः ।

ओं अष्टषष्टिमहातीर्थक्षेत्रभैरवभावनाय नमः ।

ओं चतुर्नवतिमन्त्रात्मने नमः ।

ओं षण्णवत्यधिकप्रभवे नमः ।

ओं शतानन्दाय नमः ।

ओं शतधृतये नमः ।

ओं शतपत्रायतेक्षणाय नमः ।

ओं शतानीकाय नमः ।

ओं शतमखाय नमः ।

ओं शतधारावरायुधाय नमः ।

ओं सहस्रपत्रनिलयाय नमः ।

ओं सहस्रफणभूषणाय नमः ॥ ९८० ॥

ओं सहस्रशीर्षापुरुषाय नमः ।

ओं सहस्राक्षाय नमः ।

ओं सहस्रपदे नमः ।

ओं सहस्रनामसंस्तुत्याय नमः ।

ओं सहस्राक्षबलापहाय नमः ।

ओं दशसाहस्रफणभृत्फणिराजकृतासनाय नमः ।

ओं अष्टाशीतिसहस्राद्यमहर्षिस्तोत्रयन्त्रिताय नमः ।

ओं लक्षाधीशप्रियाधाराय नमः ।

ओं लक्षाधारमनोमयाय नमः ।

ओं चतुर्लक्षजपप्रीताय नमः ।

ओं चतुर्लक्षप्रकाशिताय नमः ।

ओं चतुरशीतिलक्षाणां जीवानां देहसंस्थिताय नमः ।

ओं कोटिसूर्यप्रतीकाशाय नमः ।

ओं कोटिचन्द्रांशुनिर्मलाय नमः ।

ओं शिवाभवाध्युष्टकोटिविनायकधुरन्धराय नमः ।

ओं सप्तकोटिमहामन्त्रमन्त्रितावयवद्युतये नमः ।

ओं त्रयस्रिंशत्कोटिसुरश्रेणीप्रणतपादुकाय नमः ।

ओं अनन्तनाम्ने नमः ।

ओं अनन्तश्रिये नमः ।

ओं अनन्तानन्तसौख्यदाय नमः ॥ १००० ॥

इति श्रीगणपतिसहस्रनामावली सम्पूर्णम् ।

sri maha ganapati sahasranamavali