Skip to main content
पडताळणी प्रलंबित

श्री छिन्नमस्तादेवि अष्टोत्तरशतनामावली

ओं छिन्नमस्तायै नमः ।

ओं महाविद्यायै नमः ।

ओं महाभीमायै नमः ।

ओं महोदर्यै नमः ।

ओं चण्डेश्वर्यै नमः ।

ओं चण्डमात्रे नमः ।

ओं चण्डमुण्डप्रभञ्जिन्यै नमः ।

ओं महाचण्डायै नमः ।

ओं चण्डरूपायै नमः । ९

ओं चण्डिकायै नमः ।

ओं चण्डखण्डिन्यै नमः ।

ओं क्रोधिन्यै नमः ।

ओं क्रोधजनन्यै नमः ।

ओं क्रोधरूपायै नमः ।

ओं कुह्वे नमः ।

ओं कलायै नमः ।

ओं कोपातुरायै नमः ।

ओं कोपयुतायै नमः । १८

ओं कोपसंहारकारिण्यै नमः ।

ओं वज्रवैरोचन्यै नमः ।

ओं वज्रायै नमः ।

ओं वज्रकल्पायै नमः ।

ओं डाकिन्यै नमः ।

ओं डाकिनीकर्मनिरतायै नमः ।

ओं डाकिनीकर्मपूजितायै नमः ।

ओं डाकिनीसङ्गनिरतायै नमः ।

ओं डाकिनीप्रेमपूरितायै नमः । २७

ओं खट्वाङ्गधारिण्यै नमः ।

ओं खर्वायै नमः ।

ओं खड्गखर्परधारिण्यै नमः ।

ओं प्रेतासनायै नमः ।

ओं प्रेतयुतायै नमः ।

ओं प्रेतसङ्गविहारिण्यै नमः ।

ओं छिन्नमुण्डधरायै नमः ।

ओं छिन्नचण्डविद्यायै नमः ।

ओं चित्रिण्यै नमः । ३६

ओं घोररूपायै नमः ।

ओं घोरदृष्ट्यै नमः ।

ओं घोररावायै नमः ।

ओं घनोदर्यै नमः ।

ओं योगिन्यै नमः ।

ओं योगनिरतायै नमः ।

ओं जपयज्ञपरायणायै नमः ।

ओं योनिचक्रमय्यै नमः ।

ओं योनये नमः । ४५

ओं योनिचक्रप्रवर्तिन्यै नमः ।

ओं योनिमुद्रायै नमः ।

ओं योनिगम्यायै नमः ।

ओं योनियन्त्रनिवासिन्यै नमः ।

ओं यन्त्ररूपायै नमः ।

ओं यन्त्रमय्यै नमः ।

ओं यन्त्रेश्यै नमः ।

ओं यन्त्रपूजितायै नमः ।

ओं कीर्त्यायै नमः । ५४

ओं कपर्दिन्यै नमः ।

ओं काल्यै नमः ।

ओं कङ्काल्यै नमः ।

ओं कलकारिण्यै नमः ।

ओं आरक्तायै नमः ।

ओं रक्तनयनायै नमः ।

ओं रक्तपानपरायणायै नमः ।

ओं भवान्यै नमः ।

ओं भूतिदायै नमः । ६३

ओं भूत्यै नमः ।

ओं भूतिदात्र्यै नमः ।

ओं भैरव्यै नमः ।

ओं भैरवाचारनिरतायै नमः ।

ओं भूतभैरवसेवितायै नमः ।

ओं भीमायै नमः ।

ओं भीमेश्वर्यै नमः ।

ओं देव्यै नमः ।

ओं भीमनादपरायणायै नमः । ७२

ओं भवाराध्यायै नमः ।

ओं भवनुतायै नमः ।

ओं भवसागरतारिण्यै नमः ।

ओं भद्रकाल्यै नमः ।

ओं भद्रतनवे नमः ।

ओं भद्ररूपायै नमः ।

ओं भद्रिकायै नमः ।

ओं भद्ररूपायै नमः ।

ओं महाभद्रायै नमः । ८१

ओं सुभद्रायै नमः ।

ओं भद्रपालिन्यै नमः ।

ओं सुभव्यायै नमः ।

ओं भव्यवदनायै नमः ।

ओं सुमुख्यै नमः ।

ओं सिद्धसेवितायै नमः ।

ओं सिद्धिदायै नमः ।

ओं सिद्धिनिवहायै नमः ।

ओं सिद्धायै नमः । ९०

ओं सिद्धनिषेवितायै नमः ।

ओं शुभदायै नमः ।

ओं शुभगायै नमः ।

ओं शुद्धायै नमः ।

ओं शुद्धसत्त्वायै नमः ।

ओं शुभावहायै नमः ।

ओं श्रेष्ठायै नमः ।

ओं दृष्टिमयीदेव्यै नमः ।

ओं दृष्टिसंहारकारिण्यै नमः । ९९

ओं शर्वाण्यै नमः ।

ओं सर्वगायै नमः ।

ओं सर्वायै नमः ।

ओं सर्वमङ्गलकारिण्यै नमः ।

ओं शिवायै नमः ।

ओं शान्तायै नमः ।

ओं शान्तिरूपायै नमः ।

ओं मृडान्यै नमः ।

ओं मदनातुरायै नमः । १०८

sri chinnamasta ashtottara shatanamavali