Skip to main content
पडताळणी प्रलंबित

श्री दुर्गाष्टोत्तरशतनामावली १

ओं सत्यै नमः ।

ओं साध्व्यै नमः ।

ओं भवप्रीतायै नमः ।

ओं भवान्यै नमः ।

ओं भवमोचन्यै नमः ।

ओं आर्यायै नमः ।

ओं दुर्गायै नमः ।

ओं जयायै नमः ।

ओं आद्यायै नमः । ९

ओं त्रिनेत्रायै नमः ।

ओं शूलधारिण्यै नमः ।

ओं पिनाकधारिण्यै नमः ।

ओं चित्रायै नमः ।

ओं चन्द्रघण्टायै नमः ।

ओं महातपायै नमः ।

ओं मनसे नमः ।

ओं बुद्ध्यै नमः ।

ओं अहङ्कारायै नमः । १८

ओं चित्तरूपायै नमः ।

ओं चितायै नमः ।

ओं चित्यै नमः ।

ओं सर्वमन्त्रमय्यै नमः ।

ओं सत्यायै नमः ।

ओं सत्यानन्दस्वरूपिण्यै नमः ।

ओं अनन्तायै नमः ।

ओं भाविन्यै नमः ।

ओं भाव्यायै नमः । २७

ओं भवायै नमः ।

ओं भव्यायै नमः ।

ओं सदागत्यै नमः ।

ओं शम्भुपत्न्यै नमः ।

ओं देवमात्रे नमः ।

ओं चिन्तायै नमः ।

ओं सदा रत्नप्रियायै नमः ।

ओं सर्वविद्यायै नमः ।

ओं दक्षकन्यायै नमः । ३६

ओं दक्षयज्ञविनाशिन्यै नमः ।

ओं अपर्णायै नमः ।

ओं पर्णायै नमः ।

ओं पाटलायै नमः ।

ओं पाटलावत्यै नमः ।

ओं पट्‍टाम्बरपरीधानायै नमः ।

ओं कलमञ्जीररञ्जिन्यै नमः ।

ओं अमेयायै नमः ।

ओं विक्रमायै नमः । ४५

ओं क्रूरायै नमः ।

ओं सुन्दर्यै नमः ।

ओं सुरसुन्दर्यै नमः ।

ओं वनदुर्गायै नमः ।

ओं मातङ्ग्यै नमः ।

ओं मतङ्गमुनिपूजितायै नमः ।

ओं ब्राह्म्यै नमः ।

ओं माहेश्वर्यै नमः ।

ओं ऐन्द्र्यै नमः । ५४

ओं कौमार्यै नमः ।

ओं वैष्णव्यै नमः ।

ओं चामुण्डायै नमः ।

ओं वाराह्यै नमः ।

ओं लक्ष्म्यै नमः ।

ओं पुरुषाकृत्यै नमः ।

ओं विमलायै नमः ।

ओं उत्कर्षिण्यै नमः ।

ओं ज्ञानक्रियायै नमः । ६३

ओं सत्यायै नमः ।

ओं वाक्प्रदायै नमः ।

ओं बहुलायै नमः ।

ओं बहुलप्रेमायै नमः ।

ओं सर्ववाहनवाहनायै नमः ।

ओं निशुम्भशुम्भहनन्यै नमः ।

ओं महिषासुरमर्दिन्यै नमः ।

ओं मधुकैटभहन्त्र्यै नमः ।

ओं चण्डमुण्डविनाशिन्यै नमः । ७२

ओं सर्वासुरविनाशायै नमः ।

ओं सर्वदानवघातिन्यै नमः ।

ओं सर्वशास्त्रमय्यै नमः ।

ओं विद्यायै नमः ।

ओं सर्वास्त्रधारिण्यै नमः ।

ओं अनेकशस्त्रहस्तायै नमः ।

ओं अनेकास्त्रविधारिण्यै नमः ।

ओं कुमार्यै नमः ।

ओं कन्यायै नमः । ८१

ओं कौमार्यै नमः ।

ओं युवत्यै नमः ।

ओं यत्यै नमः ।

ओं अप्रौढायै नमः ।

ओं प्रौढायै नमः ।

ओं वृद्धमात्रे नमः ।

ओं बलप्रदायै नमः ।

ओं श्रद्धायै नमः ।

ओं शान्त्यै नमः । ९०

ओं धृत्यै नमः ।

ओं कान्त्यै नमः ।

ओं लक्ष्म्यै नमः ।

ओं जात्यै नमः ।

ओं स्मृत्यै नमः ।

ओं दयायै नमः ।

ओं तुष्ट्यै नमः ।

ओं पुष्ट्यै नमः ।

ओं चित्त्यै नमः । ९९

ओं भ्रान्त्यै नमः ।

ओं मात्रे नमः ।

ओं क्षुधे नमः ।

ओं चेतनायै नमः ।

ओं मत्यै नमः ।

ओं विष्णुमायायै नमः ।

ओं निद्रायै नमः ।

ओं छायायै नमः ।

ओं कामप्रपूरण्यै नमः । १०८

इति श्री दुर्गाष्टोत्तरशतनामावली ।

टिप्पणि: ऊपर दिया गया स्तोत्र इस पुस्तक में उपलब्ध है ।

( पारायण ग्रन्थम् )

sri durga ashtottara satanamavali 1