Skip to main content
पडताळणी प्रलंबित

श्री हरिहर अष्टोत्तर शतनामावली

श्री हरिहर अष्टोत्तर शतनाम स्तोत्रम् >>

ओं गोविन्दाय नमः ।

ओं माधवाय नमः ।

ओं मुकुन्दाय नमः ।

ओं हरये नमः ।

ओं मुरारये नमः ।

ओं शम्भवे नमः ।

ओं शिवाय नमः ।

ओं ईशाय नमः ।

ओं शशिशेखराय नमः । ९

ओं शूलपाणये नमः ।

ओं दामोदराय नमः ।

ओं अच्युताय नमः ।

ओं जनार्दनाय नमः ।

ओं वासुदेवाय नमः ।

ओं गङ्गाधराय नमः ।

ओं अन्धकरिपवे नमः ।

ओं हराय नमः ।

ओं नीलकण्ठाय नमः । १८

ओं वैकुण्ठाय नमः ।

ओं कैटभरिपवे नमः ।

ओं कमठाय नमः ।

ओं अब्जपाणये नमः ।

ओं भूतेशाय नमः ।

ओं खण्डपरशवे नमः ।

ओं मृडाय नमः ।

ओं चण्डिकेशाय नमः ।

ओं विष्णवे नमः । २७

ओं नृसिंहाय नमः ।

ओं मधुसूदनाय नमः ।

ओं चक्रपाणये नमः ।

ओं गौरीपतये नमः ।

ओं गिरिशाय नमः ।

ओं शङ्कराय नमः ।

ओं चन्द्रचूडाय नमः ।

ओं नारायणाय नमः ।

ओं असुरनिबर्हणाय नमः । ३६

ओं शार्ङ्गपाणये नमः ।

ओं मृत्युञ्जयाय नमः ।

ओं उग्राय नमः ।

ओं विषमेक्षणाय नमः ।

ओं कामशत्रवे नमः ।

ओं श्रीकान्ताय नमः ।

ओं पीतवसनाय नमः ।

ओं अम्बुदनीलाय नमः ।

ओं शौरये नमः । ४५

ओं ईशानाय नमः ।

ओं कृत्तिवसनाय नमः ।

ओं त्रिदशैकनाथाय नमः ।

ओं लक्ष्मीपतये नमः ।

ओं मधुरिपवे नमः ।

ओं पुरुषोत्तमाय नमः ।

ओं आद्याय नमः ।

ओं श्रीकण्ठाय नमः ।

ओं दिग्वसनाय नमः । ५४

ओं शान्ताय नमः ।

ओं पिनाकपाणये नमः ।

ओं आनन्दकन्दाय नमः ।

ओं धरणीधराय नमः ।

ओं पद्मनाभाय नमः ।

ओं सर्वेश्वराय नमः ।

ओं त्रिपुरसूदनाय नमः ।

ओं देवदेवाय नमः ।

ओं ब्रह्मण्यदेवाय नमः । ६३

ओं गरुडध्वजाय नमः ।

ओं शङ्खपाणये नमः ।

ओं त्र्यक्षाय नमः ।

ओं उरगाभरणाय नमः ।

ओं बालमृगाङ्कमौलिने नमः ।

ओं श्रीरामाय नमः ।

ओं राघवाय नमः ।

ओं रमेश्वराय नमः ।

ओं रावणारये नमः । ७२

ओं भूतेशाय नमः ।

ओं मन्मथरिपवे नमः ।

ओं प्रमथाधिनाथाय नमः ।

ओं चाणूरमर्दनाय नमः ।

ओं हृषीकपतये नमः ।

ओं मुरारये नमः ।

ओं शूलिने नमः ।

ओं गिरीशाय नमः ।

ओं रजनीशकलावतंसाय नमः । ८१

ओं कंसप्रणाशनाय नमः ।

ओं सनातनाय नमः ।

ओं केशिनाशाय नमः ।

ओं भर्गाय नमः ।

ओं त्रिनेत्राय नमः ।

ओं भवाय नमः ।

ओं भूतपतये नमः ।

ओं पुरारये नमः ।

ओं गोपीपतये नमः । ९०

ओं यदुपतये नमः ।

ओं वसुदेवसूनवे नमः ।

ओं कर्पूरगौराय नमः ।

ओं वृषभध्वजाय नमः ।

ओं फालनेत्राय नमः ।

ओं गोवर्धनोद्धरणाय नमः ।

ओं धर्मधुरीणाय नमः ।

ओं गोपाय नमः ।

ओं स्थाणवे नमः । ९९

ओं त्रिलोचनाय नमः ।

ओं पिनाकधराय नमः ।

ओं स्मरारये नमः ।

ओं कृष्णाय नमः ।

ओं अनिरुद्धाय नमः ।

ओं कमलाकराय नमः ।

ओं कल्मषारये नमः ।

ओं विश्वेश्वराय नमः ।

ओं त्रिपथगार्द्रजटाकलापायै नमः । १०८

sri harihara ashtottara shatanamavali in hindi