Skip to main content
पडताळणी प्रलंबित

श्री विजयलक्ष्मी अष्टोत्तरशतनामावली

ओं क्लीं ओं विजयलक्ष्म्यै नमः ।

ओं क्लीं ओं अम्बिकायै नमः ।

ओं क्लीं ओं अम्बालिकायै नमः ।

ओं क्लीं ओं अम्बुधिशयनायै नमः ।

ओं क्लीं ओं अम्बुधये नमः ।

ओं क्लीं ओं अन्तकघ्न्यै नमः ।

ओं क्लीं ओं अन्तकर्त्र्यै नमः ।

ओं क्लीं ओं अन्तिमायै नमः ।

ओं क्लीं ओं अन्तकरूपिण्यै नमः । ९

ओं क्लीं ओं ईड्यायै नमः ।

ओं क्लीं ओं इभास्यनुतायै नमः ।

ओं क्लीं ओं ईशानप्रियायै नमः ।

ओं क्लीं ओं ऊत्यै नमः ।

ओं क्लीं ओं उद्यद्भानुकोटिप्रभायै नमः ।

ओं क्लीं ओं उदाराङ्गायै नमः ।

ओं क्लीं ओं केलिपरायै नमः ।

ओं क्लीं ओं कलहायै नमः ।

ओं क्लीं ओं कान्तलोचनायै नमः । १८

ओं क्लीं ओं काञ्च्यै नमः ।

ओं क्लीं ओं कनकधारायै नमः ।

ओं क्लीं ओं कल्यै नमः ।

ओं क्लीं ओं कनककुण्डलायै नमः ।

ओं क्लीं ओं खड्गहस्तायै नमः ।

ओं क्लीं ओं खट्वाङ्गवरधारिण्यै नमः ।

ओं क्लीं ओं खेटहस्तायै नमः ।

ओं क्लीं ओं गन्धप्रियायै नमः ।

ओं क्लीं ओं गोपसख्यै नमः । २७

ओं क्लीं ओं गारुड्यै नमः ।

ओं क्लीं ओं गत्यै नमः ।

ओं क्लीं ओं गोहितायै नमः ।

ओं क्लीं ओं गोप्यायै नमः ।

ओं क्लीं ओं चिदात्मिकायै नमः ।

ओं क्लीं ओं चतुर्वर्गफलप्रदायै नमः ।

ओं क्लीं ओं चतुराकृत्यै नमः ।

ओं क्लीं ओं चकोराक्ष्यै नमः ।

ओं क्लीं ओं चारुहासायै नमः । ३६

ओं क्लीं ओं गोवर्धनधरायै नमः ।

ओं क्लीं ओं गुर्व्यै नमः ।

ओं क्लीं ओं गोकुलाभयदायिन्यै नमः ।

ओं क्लीं ओं तपोयुक्तायै नमः ।

ओं क्लीं ओं तपस्विकुलवन्दितायै नमः ।

ओं क्लीं ओं तापहारिण्यै नमः ।

ओं क्लीं ओं तार्क्षमात्रे नमः ।

ओं क्लीं ओं जयायै नमः ।

ओं क्लीं ओं जप्यायै नमः । ४५

ओं क्लीं ओं जरायवे नमः ।

ओं क्लीं ओं जवनायै नमः ।

ओं क्लीं ओं जनन्यै नमः ।

ओं क्लीं ओं जाम्बूनदविभूषायै नमः ।

ओं क्लीं ओं दयानिध्यै नमः ।

ओं क्लीं ओं ज्वालायै नमः ।

ओं क्लीं ओं जम्भवधोद्यतायै नमः ।

ओं क्लीं ओं दुःखहन्त्र्यै नमः ।

ओं क्लीं ओं दान्तायै नमः । ५४

ओं क्लीं ओं द्रुतेष्टदायै नमः ।

ओं क्लीं ओं दात्र्यै नमः ।

ओं क्लीं ओं दीनार्तिशमनायै नमः ।

ओं क्लीं ओं नीलायै नमः ।

ओं क्लीं ओं नागेन्द्रपूजितायै नमः ।

ओं क्लीं ओं नारसिंह्यै नमः ।

ओं क्लीं ओं नन्दिनन्दायै नमः ।

ओं क्लीं ओं नन्द्यावर्तप्रियायै नमः ।

ओं क्लीं ओं निधये नमः । ६३

ओं क्लीं ओं परमानन्दायै नमः ।

ओं क्लीं ओं पद्महस्तायै नमः ।

ओं क्लीं ओं पिकस्वरायै नमः ।

ओं क्लीं ओं पुरुषार्थप्रदायै नमः ।

ओं क्लीं ओं प्रौढायै नमः ।

ओं क्लीं ओं प्राप्त्यै नमः ।

ओं क्लीं ओं बलिसंस्तुतायै नमः ।

ओं क्लीं ओं बालेन्दुशेखरायै नमः ।

ओं क्लीं ओं बन्द्यै नमः । ७२

ओं क्लीं ओं बालग्रहविनाशन्यै नमः ।

ओं क्लीं ओं ब्राह्म्यै नमः ।

ओं क्लीं ओं बृहत्तमायै नमः ।

ओं क्लीं ओं बाणायै नमः ।

ओं क्लीं ओं ब्राह्मण्यै नमः ।

ओं क्लीं ओं मधुस्रवायै नमः ।

ओं क्लीं ओं मत्यै नमः ।

ओं क्लीं ओं मेधायै नमः ।

ओं क्लीं ओं मनीषायै नमः । ८१

ओं क्लीं ओं मृत्युमारिकायै नमः ।

ओं क्लीं ओं मृगत्वचे नमः ।

ओं क्लीं ओं योगिजनप्रियायै नमः ।

ओं क्लीं ओं योगाङ्गध्यानशीलायै नमः ।

ओं क्लीं ओं यज्ञभुवे नमः ।

ओं क्लीं ओं यज्ञवर्धिन्यै नमः ।

ओं क्लीं ओं राकायै नमः ।

ओं क्लीं ओं राकेन्दुवदनायै नमः ।

ओं क्लीं ओं रम्यायै नमः । ९०

ओं क्लीं ओं रणितनूपुरायै नमः ।

ओं क्लीं ओं रक्षोघ्न्यै नमः ।

ओं क्लीं ओं रतिदात्र्यै नमः ।

ओं क्लीं ओं लतायै नमः ।

ओं क्लीं ओं लीलायै नमः ।

ओं क्लीं ओं लीलानरवपुषे नमः ।

ओं क्लीं ओं लोलायै नमः ।

ओं क्लीं ओं वरेण्यायै नमः ।

ओं क्लीं ओं वसुधायै नमः । ९९

ओं क्लीं ओं वीरायै नमः ।

ओं क्लीं ओं वरिष्ठायै नमः ।

ओं क्लीं ओं शातकुम्भमय्यै नमः ।

ओं क्लीं ओं शक्त्यै नमः ।

ओं क्लीं ओं श्यामायै नमः ।

ओं क्लीं ओं शीलवत्यै नमः ।

ओं क्लीं ओं शिवायै नमः ।

ओं क्लीं ओं होरायै नमः ।

ओं क्लीं ओं हयगायै नमः । १०८

6 sri vijayalakshmi ashtottara shatanamavali