Skip to main content
पडताळणी प्रलंबित

श्री धूमावत्यष्टोत्तरशतनामावली

ओं धूमावत्यै नमः ।

ओं धूम्रवर्णायै नमः ।

ओं धूम्रपानपरायणायै नमः ।

ओं धूम्राक्षमथिन्यै नमः ।

ओं धन्यायै नमः ।

ओं धन्यस्थाननिवासिन्यै नमः ।

ओं अघोराचारसन्तुष्टायै नमः ।

ओं अघोराचारमण्डितायै नमः ।

ओं अघोरमन्त्रसम्प्रीतायै नमः । ९

ओं अघोरमन्त्रपूजितायै नमः ।

ओं अट्टाट्टहासनिरतायै नमः ।

ओं मलिनाम्बरधारिण्यै नमः ।

ओं वृद्धायै नमः ।

ओं विरूपायै नमः ।

ओं विधवायै नमः ।

ओं विद्यायै नमः ।

ओं विरलाद्विजायै नमः ।

ओं प्रवृद्धघोणायै नमः । १८

ओं कुमुख्यै नमः ।

ओं कुटिलायै नमः ।

ओं कुटिलेक्षणायै नमः ।

ओं कराल्यै नमः ।

ओं करालास्यायै नमः ।

ओं कङ्काल्यै नमः ।

ओं शूर्पधारिण्यै नमः ।

ओं काकध्वजरथारूढायै नमः ।

ओं केवलायै नमः । २७

ओं कठिनायै नमः ।

ओं कुह्वे नमः ।

ओं क्षुत्पिपासार्दितायै नमः ।

ओं नित्यायै नमः ।

ओं ललज्जिह्वायै नमः ।

ओं दिगम्बर्यै नमः ।

ओं दीर्घोदर्यै नमः ।

ओं दीर्घरवायै नमः ।

ओं दीर्घाङ्ग्यै नमः । ३६

ओं दीर्घमस्तकायै नमः ।

ओं विमुक्तकुन्तलायै नमः ।

ओं कीर्त्यायै नमः ।

ओं कैलासस्थानवासिन्यै नमः ।

ओं क्रूरायै नमः ।

ओं कालस्वरूपायै नमः ।

ओं कालचक्रप्रवर्तिन्यै नमः ।

ओं विवर्णायै नमः ।

ओं चञ्चलायै नमः । ४५

ओं दुष्टायै नमः ।

ओं दुष्टविध्वंसकारिण्यै नमः ।

ओं चण्ड्यै नमः ।

ओं चण्डस्वरूपायै नमः ।

ओं चामुण्डायै नमः ।

ओं चण्डनिःस्वनायै नमः ।

ओं चण्डवेगायै नमः ।

ओं चण्डगत्यै नमः ।

ओं चण्डविनाशिन्यै नमः । ५४

ओं मुण्डविनाशिन्यै नमः ।

ओं चाण्डालिन्यै नमः ।

ओं चित्ररेखायै नमः ।

ओं चित्राङ्ग्यै नमः ।

ओं चित्ररूपिण्यै नमः ।

ओं कृष्णायै नमः ।

ओं कपर्दिन्यै नमः ।

ओं कुल्लायै नमः ।

ओं कृष्णरूपायै नमः । ६३

ओं क्रियावत्यै नमः ।

ओं कुम्भस्तन्यै नमः ।

ओं महोन्मत्तायै नमः ।

ओं मदिरापानविह्वलायै नमः ।

ओं चतुर्भुजायै नमः ।

ओं ललज्जिह्वायै नमः ।

ओं शत्रुसंहारकारिण्यै नमः ।

ओं शवारूढायै नमः ।

ओं शवगतायै नमः । ७२

ओं श्मशानस्थानवासिन्यै नमः ।

ओं दुराराध्यायै नमः ।

ओं दुराचारायै नमः ।

ओं दुर्जनप्रीतिदायिन्यै नमः ।

ओं निर्मांसायै नमः ।

ओं निराकारायै नमः ।

ओं धूमहस्तायै नमः ।

ओं वरान्वितायै नमः ।

ओं कलहायै नमः । ८१

ओं कलिप्रीतायै नमः ।

ओं कलिकल्मषनाशिन्यै नमः ।

ओं महाकालस्वरूपायै नमः ।

ओं महाकालप्रपूजितायै नमः ।

ओं महादेवप्रियायै नमः ।

ओं मेधायै नमः ।

ओं महासङ्कटनाशिन्यै नमः ।

ओं भक्तप्रियायै नमः ।

ओं भक्तगत्यै नमः । ९०

ओं भक्तशत्रुविनाशिन्यै नमः ।

ओं भैरव्यै नमः ।

ओं भुवनायै नमः ।

ओं भीमायै नमः ।

ओं भारत्यै नमः ।

ओं भुवनात्मिकायै नमः ।

ओं भेरुण्डायै नमः ।

ओं भीमनयनायै नमः ।

ओं त्रिनेत्रायै नमः । ९९

ओं बहुरूपिण्यै नमः ।

ओं त्रिलोकेश्यै नमः ।

ओं त्रिकालज्ञायै नमः ।

ओं त्रिस्वरूपायै नमः ।

ओं त्रयीतनवे नमः ।

ओं त्रिमूर्त्यै नमः ।

ओं तन्व्यै नमः ।

ओं त्रिशक्तये नमः ।

ओं त्रिशूलिन्यै नमः । १०८

sri dhumavati ashtottara shatanamavali