Skip to main content
पडताळणी प्रलंबित

श्री वल्ली अष्टोत्तरशतनामावली

ओं महावल्ल्यै नमः ।

ओं श्यामतनवे नमः ।

ओं सर्वाभरणभूषितायै नमः ।

ओं पीताम्बर्यै नमः ।

ओं शशिसुतायै नमः ।

ओं दिव्यायै नमः ।

ओं अम्बुजधारिण्यै नमः ।

ओं पुरुषाकृत्यै नमः ।

ओं ब्रह्म्यै नमः । ९

ओं नलिन्यै नमः ।

ओं ज्वालनेत्रिकायै नमः ।

ओं लम्बायै नमः ।

ओं प्रलम्बायै नमः ।

ओं ताटङ्किण्यै नमः ।

ओं नागेन्द्रतनयायै नमः ।

ओं शुभरूपायै नमः ।

ओं शुभाकरायै नमः ।

ओं सव्यायै नमः । १८

ओं लम्बकरायै नमः ।

ओं प्रत्यूषायै नमः ।

ओं महेश्वर्यै नमः ।

ओं तुङ्गस्तन्यै नमः ।

ओं सकञ्चुकायै नमः ।

ओं अणिमायै नमः ।

ओं महादेव्यै नमः ।

ओं कुञ्जायै नमः ।

ओं मार्जधरायै नमः । २७

ओं वैष्णव्यै नमः ।

ओं त्रिभङ्ग्यै नमः ।

ओं प्रवासवदनायै नमः ।

ओं मनोन्मन्यै नमः ।

ओं चामुण्डायै नमः ।

ओं स्कन्दभार्यायै नमः ।

ओं सत्प्रभायै नमः ।

ओं ऐश्वर्यासनायै नमः ।

ओं निर्मायायै नमः । ३६

ओं ओजस्तेजोमय्यै नमः ।

ओं अनामयायै नमः ।

ओं परमेष्ठिन्यै नमः ।

ओं गुरुब्राह्मण्यै नमः ।

ओं चन्द्रवर्णायै नमः ।

ओं कलाधरायै नमः ।

ओं पूर्णचन्द्रायै नमः ।

ओं सुराध्यक्षायै नमः ।

ओं जयायै नमः । ४५

ओं सिद्धादिसेवितायै नमः ।

ओं द्विनेत्रायै नमः ।

ओं द्विभुजायै नमः ।

ओं आर्यायै नमः ।

ओं इष्टसिद्धिप्रदायकायै नमः ।

ओं साम्राज्यायै नमः ।

ओं सुधाकारायै नमः ।

ओं काञ्चनायै नमः ।

ओं हेमभूषणायै नमः । ५४

ओं महावल्ल्यै नमः ।

ओं पारात्वै नमः ।

ओं सद्योजातायै नमः ।

ओं पङ्कजायै नमः ।

ओं सर्वाध्यक्षायै नमः ।

ओं सुराध्यक्षायै नमः ।

ओं लोकाध्यक्षायै नमः ।

ओं सुन्दर्यै नमः ।

ओं इन्द्राण्यै नमः । ६३

ओं वरलक्ष्म्यै नमः ।

ओं ब्राह्मिविद्यायै नमः ।

ओं सरस्वत्यै नमः ।

ओं कौमार्यै नमः ।

ओं भद्रकाल्यै नमः ।

ओं दुर्गायै नमः ।

ओं जनमोहिन्यै नमः ।

ओं स्वजाकृत्यै नमः ।

ओं सुस्वप्नायै नमः । ७२

ओं सुषुप्तीच्छायै नमः ।

ओं साक्षिण्यै नमः ।

ओं पुराण्यै नमः ।

ओं पुण्यरूपिण्यै नमः ।

ओं कैवल्यायै नमः ।

ओं कलात्मिकायै नमः ।

ओं इन्द्राण्यै नमः ।

ओं इन्द्ररूपिण्यै नमः ।

ओं इन्द्रशक्त्यै नमः । ८१

ओं पारायण्यै नमः ।

ओं कावेर्यै नमः ।

ओं तुङ्गभद्रायै नमः ।

ओं क्षीराब्दितनयायै नमः ।

ओं कृष्णवेण्यै नमः ।

ओं भीमनद्यै नमः ।

ओं पुष्करायै नमः ।

ओं सर्वतोमुख्यै नमः ।

ओं मूलाधिपायै नमः । ९०

ओं पराशक्त्यै नमः ।

ओं सर्वमङ्गलकारणायै नमः ।

ओं बिन्दुस्वरूपिण्यै नमः ।

ओं सर्वाण्यै नमः ।

ओं योगिन्यै नमः ।

ओं पापनाशिन्यै नमः ।

ओं ईशानायै नमः ।

ओं लोकमात्रे नमः ।

ओं पोषण्यै नमः । ९९

ओं पद्मवासिन्यै नमः ।

ओं गुणत्रयदयारूपिण्यै नमः ।

ओं नायक्यै नमः ।

ओं नागधारिण्यै नमः ।

ओं अशेषहृदयायै नमः ।

ओं देव्यै नमः ।

ओं शरणागतरक्षिण्यै नमः ।

ओं श्रीवल्ल्यै नमः । १०७

sri valli ashtottara shatanamavali