Skip to main content
पडताळणी प्रलंबित

सौभाग्याष्टोत्तरशतनामावली

ओं कामेश्वर्यै नमः ।

ओं कामशक्त्यै नमः ।

ओं कामसौभाग्यदायिन्यै नमः ।

ओं कामरूपायै नमः ।

ओं कामकलायै नमः ।

ओं कामिन्यै नमः ।

ओं कमलासनायै नमः ।

ओं कमलायै नमः ।

ओं कल्पनाहीनायै नमः । ९

ओं कमनीयकलावत्यै नमः ।

ओं कमलाभारतीसेव्यायै नमः ।

ओं कल्पिताशेषसंसृत्यै नमः ।

ओं अनुत्तरायै नमः ।

ओं अनघायै नमः ।

ओं अनन्तायै नमः ।

ओं अद्भुतरूपायै नमः ।

ओं अनलोद्भवायै नमः ।

ओं अतिलोकचरित्रायै नमः । १८

ओं अतिसुन्दर्यै नमः ।

ओं अतिशुभप्रदायै नमः ।

ओं अघहन्त्र्यै नमः ।

ओं अतिविस्तारायै नमः ।

ओं अर्चनतुष्टायै नमः ।

ओं अमितप्रभायै नमः ।

ओं एकरूपायै नमः ।

ओं एकवीरायै नमः ।

ओं एकनाथायै नमः । २७

ओं एकान्तार्चनप्रियायै नमः ।

ओं एकस्यै नमः ।

ओं एकभावतुष्टायै नमः ।

ओं एकरसायै नमः ।

ओं एकान्तजनप्रियायै नमः ।

ओं एधमानप्रभावायै नमः ।

ओं एधद्भक्तपातकनाशिन्यै नमः ।

ओं एलामोदमुखायै नमः ।

ओं एनोद्रिशक्रायुधसमस्थित्यै नमः । ३६

ओं ईहाशून्यायै नमः ।

ओं ईप्सितायै नमः ।

ओं ईशादिसेव्यायै नमः ।

ओं ईशानवराङ्गनायै नमः ।

ओं ईश्वराज्ञापिकायै नमः ।

ओं ईकारभाव्यायै नमः ।

ओं ईप्सितफलप्रदायै नमः ।

ओं ईशानायै नमः ।

ओं ईतिहरायै नमः । ४५

ओं ईक्षायै नमः ।

ओं ईषदरुणाक्ष्यै नमः ।

ओं ईश्वरेश्वर्यै नमः ।

ओं ललितायै नमः ।

ओं ललनारूपायै नमः ।

ओं लयहीनायै नमः ।

ओं लसत्तनवे नमः ।

ओं लयसर्वायै नमः ।

ओं लयक्षोण्यै नमः । ५४

ओं लयकर्ण्यै नमः ।

ओं लयात्मिकायै नमः ।

ओं लघिम्ने नमः ।

ओं लघुमध्याढ्यायै नमः ।

ओं ललमानायै नमः ।

ओं लघुद्रुतायै नमः ।

ओं हयाऽऽरूढायै नमः ।

ओं हताऽमित्रायै नमः ।

ओं हरकान्तायै नमः । ६३

ओं हरिस्तुतायै नमः ।

ओं हयग्रीवेष्टदायै नमः ।

ओं हालाप्रियायै नमः ।

ओं हर्षसमुद्धतायै नमः ।

ओं हर्षणायै नमः ।

ओं हल्लकाभाङ्ग्यै नमः ।

ओं हस्त्यन्तैश्वर्यदायिन्यै नमः ।

ओं हलहस्तार्चितपदायै नमः ।

ओं हविर्दानप्रसादिन्यै नमः । ७२

ओं रामायै नमः ।

ओं रामार्चितायै नमः ।

ओं राज्ञ्यै नमः ।

ओं रम्यायै नमः ।

ओं रवमय्यै नमः ।

ओं रत्यै नमः ।

ओं रक्षिण्यै नमः ।

ओं रमण्यै नमः ।

ओं राकायै नमः । ८१

ओं रमणीमण्डलप्रियायै नमः ।

ओं रक्षिताऽखिललोकेशायै नमः ।

ओं रक्षोगणनिषूदिन्यै नमः ।

ओं अम्बायै नमः ।

ओं अन्तकारिण्यै नमः ।

ओं अम्भोजप्रियायै नमः ।

ओं अन्तकभयङ्कर्यै नमः ।

ओं अम्बुरूपायै नमः ।

ओं अम्बुजकरायै नमः । ९०

ओं अम्बुजजातवरप्रदायै नमः ।

ओं अन्तःपूजाप्रियायै नमः ।

ओं अन्तःस्वरूपिण्यै नमः ।

ओं अन्तर्वचोमय्यै नमः ।

ओं अन्तकारातिवामाङ्कस्थितायै नमः ।

ओं अन्तःसुखरूपिण्यै नमः ।

ओं सर्वज्ञायै नमः ।

ओं सर्वगायै नमः ।

ओं सारायै नमः । ९९

ओं समायै नमः ।

ओं समसुखायै नमः ।

ओं सत्यै नमः ।

ओं सन्तत्यै नमः ।

ओं सन्ततायै नमः ।

ओं सोमायै नमः ।

ओं सर्वस्यै नमः ।

ओं साङ्ख्यायै नमः ।

ओं सनातन्यै नमः । १०८

इति सौभाग्याष्टोत्तरशतनामावली ।

saubhagya ashtottara shatanamavali